विभाषा परावराभ्याम्

5-3-29 विभाषा परावराभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः अतसुच्

Sampurna sutra

Up

पर-अवराभ्याम् सप्तमी-पञ्चमी-प्रथमाभ्यः दिग्-देश-कालेषु विभाषा अतसुच्

Neelesh Sanskrit Brief

Up

'पर' तथा 'अवर' एतौ शब्दौ यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थेषु प्रयुज्यन्ते, तदा तयोः सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः विकल्पेन 'अतसुच्' प्रत्ययः भवति । पक्षे औत्सर्गिकः अस्ताति-प्रत्ययः अपि विधीयते ।

Kashika

Up

परावरशब्दाभ्यां विभाषातसुच् प्रत्ययो भवत्यस्तातेरर्थे। परतो वसति। परत आगतः। परतो रमणीयम्। परस्ताद् वसति। परस्तादागतः। परस्ताद् रमणीयम्। अवरतो वसति। अवरत आगतः। अवरतो रमणीयम्। अवस्ताद् वसति। अवस्ताद् आगतः। अवस्ताद् रमणीयम्॥

Siddhanta Kaumudi

Up

परतः । अवरतः । परस्तात् । अवरस्तात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> 5.3.27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'पर' (= other) तथा 'अवर' (= posterior) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'अतसुच्' प्रत्ययः विकल्पेन विधीयते । पक्षे औत्सर्गिकः 'अस्ताति'प्रत्ययः अपि भवति । यथा - 1. परास्याम् दिशि / परस्मिन् देशे / परस्मिन् काले / परस्याः दिशः / परस्मात् देशात् / परस्मात् कालात् / परा दिक् / परः देशः / परः कालः = परास्याम् / परस्मिन् / परस्याः / परस्मात् / परा / परः + अतसुच् → परास्याम् / परस्मिन् / परस्याः / परस्मात् / परा / परः + अतस् [चकारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति ।] → पर + अतस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → पर् + अतस् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → परतः [सकारस्य रेफः, विसर्गः] एवमेव 'अवर' शब्दात् इमामेव प्रक्रियां कृत्वा 'अवरतः' इति शब्दः सिद्ध्यति । पक्षे 'अस्ताति' प्रत्यये परे अपि समाना एव प्रक्रिया भवति, येन 'परस्तात्' तथा 'अवरस्तात्' एतौ शब्दौ सिद्ध्यतः । 'परतः', 'अवरतः', 'परस्तात्' तथा 'अवरस्तात्' एतेषां सर्वेषाम् <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञा भवति ।

Balamanorama

Up

<<विभाषा परावराभ्याम्>> - विभाषा ।अतसु॑जिति शेषः । पक्षे अस्तातिः ।

Padamanjari

Up