6-4-139 उदः ईत् असिद्धवत् अत्र आभात् भस्य अल् अचः
उदः अचः भस्य ईत्
उद्-शब्दात् परस्य लुप्तनकारस्य अञ्च्-शब्दान्तस्य भसंज्ञकस्य ईकारादेशः भवति ।
If the word अच् - (1) happens to be derived from the धातु अञ्च् (गतौ) , (2) follows the word उद्, and (3) gets the भसंज्ञा, then the अकार of अच् is converted to ईकार.
उद उत्तरस्याच ईकारादेशो भवति। उदीचः। उदीचा। उदीचे॥
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भायामित्यादि ॥
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम् ॥
अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तस्य भसंज्ञा भवति चेत् 'उद्' शब्दे परे ईकारादेशः अपि भवति । <<आदेः परस्य>> 1.1.54 इत्यनेन अयमादेशः 'अच्' इत्यस्य आदिवर्णस्य भवति । यथा - उद् + अन्च् + क्विन् ['उद् + अञ्च्' इत्यस्मात् <<ऋत्विक्दधृग्...>> इत्यनेन क्विन्-प्रत्ययः] → उद् + अच् [<<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 अनेन नकारलोपः] अस्मात् प्रातिपदिकात् द्वितीयाबहुवचनस्य शस्-प्रत्यये कृते अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा भवति । अतः वर्तमानसूत्रेण 'अच्' इत्यस्य अकारस्य ईकारादेशः अपि विधीयते । उद् + अच् + शस् → उद् + ईच् + अस् [<<उद ईत्>> 6.4.139 इति अकारस्य ईकारः] → उदीचः एवमेव उदीचा, उदीचे, उदीचः, उदीचोः एतानि रूपाणि अपि सिद्ध्यन्ति ।
<<उद ईत्>> - शसादौ 'अचः' इति लोपे प्राप्ते — उद ईत् । 'अचः' इति सूत्रमनुवर्तते, 'अल्लोप' इत्यतः 'अत्' इति च ।भस्ये॑त्यधिकृतं, तदाह — उच्छब्दादित्यादिना । समञ्चतीति विग्रहे क्विन्नादि ।