वृत्तिसर्गतायनेषु क्रमः

1-3-38 वृत्तिसर्गतायनेषु क्रमः धातवः आत्मनेपदम् कर्तरि

Sampurna sutra

Up

वृत्तिसर्गतायनेषु क्रमः

Neelesh Sanskrit Brief

Up

(1) वृत्तिः (निरन्तरता) , (2) सर्गः ( उत्साहः), (3) तायनः (विस्तारः) - एतेषु अर्थेषु 'क्रम्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

The verb 'क्रम्' gets the प्रत्ययाः of आत्मनेपद, when it is used in the meaning of - (1) वृत्तिः , To progress without getting stuck , (2) सर्गः, enthusiasm, (3) तायनः, expansion, elaboration.

Kashika

Up

शेषात् कर्तरि परस्मैपदे प्राप्ते वृत्त्यादिष्वर्थेषु क्रमेर्धातोरात्मनेपदं भवति। वृत्तिरप्रतिबन्धः। सर्ग उत्साहः। तायनं स्फीतता। वृत्तौ तावत् — ऋक्ष्वस्य क्रमते बुद्धिः। न प्रतिहन्यत इत्यर्थः। यजुःष्वस्य क्रमते बुद्धिः। सर्गे — व्याकरणाध्ययनाय क्रमते। उत्सहत इत्यर्थः। तायने — अस्मिन् शास्त्राणि क्रमन्ते। स्फीतीभवन्तीत्यर्थः॥

Siddhanta Kaumudi

Up

वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वृत्तिसर्गतायनेषु क्रमः>> - वृत्तिसर्ग ।आत्मनेपद॑मिति शेषः । तायने उदाहरति — क्रमन्तेऽस्मिन्निति । तायनं = वृद्धिः । तदाह — स्फीतानीति ।

Padamanjari

Up

सर्ग उत्साह इति ।'सृष्टश्चेद्ब्राह्मणवधे' ,'येनेन्द्रलोकापजयाय सृष्टः' इत्यादौ दर्शनात्सृजिरुत्सहार्थः। वृत्यादिष्विति किम्? अपक्रामति॥