उपर्युपरिष्टात्

5-3-31 उपर्युपरिष्टात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः

Sampurna sutra

Up

index: 5.3.31 sutra: उपर्युपरिष्टात्


उपरि-उपरिष्टात् (निपात्येते)

Neelesh Sanskrit Brief

Up

index: 5.3.31 sutra: उपर्युपरिष्टात्


'उपरि' तथा 'उपरिष्टात्' एतौ शब्दौ निपात्येते ।

Kashika

Up

index: 5.3.31 sutra: उपर्युपरिष्टात्


उपरि उपरिष्टतित्येतौ शब्दौ निपात्येते अस्तातेरर्थे। ऊर्ध्वस्य उपभावः रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते। ऊर्ध्वायां दिशि वसति उपरि वसति। उपर्यागतः। उपरि रमणीयम्। उपरिष्टद् वसति। उपरिष्टादागतः। उपरिष्टाद् रमणीयम्।

Siddhanta Kaumudi

Up

index: 5.3.31 sutra: उपर्युपरिष्टात्


अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.31 sutra: उपर्युपरिष्टात्


अनेन सूत्रेण 'उपरि' तथा 'उपरिष्टात्' एतयोः शब्दयोः निपातनम् दीयते । 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमणस्य 'ऊर्ध्व' शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे 'रिल्' तथा 'रिष्टातिल्' एतौ प्रत्ययौ कृत्वा एतयोः शब्दयोः सिद्धिः दत्ता अस्ति । यथा -

ऊर्ध्वा दिक् / उर्ध्वायाः दिशः / उर्ध्वायाम् दिशि / ऊर्ध्वः देशः / उर्ध्वात् देशात् / उर्ध्वे देशे

= ऊर्ध्व + रिल् / रिष्टातिल् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]

→ ऊर्ध्व + रि / रिष्टात् [लकारस्य इत्संज्ञा, लोपः । 'रिष्टातिल्' इत्यत्र इकारः उच्चारणार्थः, अतः तस्यापि लोपः]

→ उप + रि / रिष्टात् ['ऊर्ध्व' शब्दस्य 'उप' आदेशः ]

→ उपरि / उपरिष्टात् ।

ज्ञातव्यम् - तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन 'उपरि' तथा 'उपरिष्टात्' एतौ शब्दौ अव्ययसंज्ञकौ भवतः ।

Balamanorama

Up

index: 5.3.31 sutra: उपर्युपरिष्टात्


उपर्युपरिष्टात् - उपर्युपरिष्टात् ।उध्र्वस्य उपभावो रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्चे॑ति भाष्यम् । तदाह — अस्तातेर्विषये इत्यादिना । वसति, आगतो, रमणीयं वेति — विभक्तित्रयस्य यथासङ्ख्यमुदाहरणम् । पश्चात् ।अपरस्य पश्चभावः, आतिश्च प्रत्ययः॑ इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः ।