6-3-138 चौ उत्तरपदे
चौ परतः पूर्वस्य अणः दीर्घः
लुप्त-अकार-नकारे अञ्च्-शब्दे परे पूर्वस्य अण्-वर्णस्य दीर्घादेशः भवति ।
When the अञ्च् word is in a state where its अकार and नकार have been removed, it causes the दीर्घ of the previous अण् letter.
चौ परतः पूर्वपदस्य दीर्घो भवति। चावित्यञ्चतिर्लुप्तनकाराकारो गृह्यते। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे। अन्तरङ्गोऽपि हियणादेशो दीर्घविधानसामर्थ्याद् न प्रवर्तते॥
लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । अचेति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहा इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे अदस्-अञ्च् इति स्थिते ॥
लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः। प्राचः। प्राचा। प्राग्भ्याम्॥ प्रत्यङ्। प्रत्यञ्चौ। प्रतीचः। प्रत्यग्भ्याम्॥ उदङ्। उदञ्चौ॥
अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तदन्तम् यत् भसंज्ञकमङ्गम्, तस्य चकारात्-पूर्वस्य अकारस्य अपि <<अचः>> 6.4.138 इत्यनेन लोपः भवति । एतादृशः अकार-नकार-लुप्तः यः अञ्च्-शब्दः सः एव 'चौ' इत्यनेन अस्मिन् सूत्रे गृह्यते । एतादृशे चकारे परे पूर्वशब्दस्य अन्तिमस्वरस्य अनेन सूत्रेण दीर्घादेशः विधीयते । यथा - प्रति + अन्च् (गतौ) अस्मात् धातोः क्विन्-प्रत्यये कृते अग्रे <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 अनेन नकारलोपे कृते 'प्रति + अच्' इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् तृतीयैकवचनस्य 'टा' प्रत्यये परे 'प्रति + अच् + टा' इत्यत्र <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञां कृत्वा <<अचः>> 6.4.138 इत्यनेन चकारात् पूर्वस्य अकारस्य लोपः विधीयते । ततः 'प्रति + च् + टा' अस्याम् स्थितौ चकारात् पूर्वः यः अण्-वर्णः (इकारः) तस्य वर्तमानसूत्रेण दीर्घादेशः भवति । अतः 'प्रतीचा' इति रूपम् सिद्ध्यति । ज्ञातव्यम् - अस्मिन् सूत्रे अण्-प्रत्याहारः पूर्वणकारेण गृह्यते । इत्युक्ते, अकार-इकार-उकाराणम् एव अस्मिन् प्रत्याहारे समावेशः भवति ।