6-4-138 अचः असिद्धवत् अत्र आभात् भस्य अल्
अचः भस्य अङ्गस्य अत्-लोपः
लुप्तनकारस्य अञ्च्-शब्दान्तस्य भसंज्ञकस्य अकारस्य लोपः भवति ।
The अकार of the word अच् that occurs at end of a भसंज्ञक अङ्ग is omitted if this 'अच्' happens to be derived from the धातु अञ्च् (गतौ).
अच इत्ययमञ्चतिर्लुप्तनकारो गृह्यते। तदन्तस्य भस्याकारस्य लोपो भवति। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे॥
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः॥
अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः 'अन्च् + क्विन्' इत्यनेन 'अच्' इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तदन्तम् यत् भसंज्ञकमङ्गम्, तस्य चकारात्-पूर्वस्य अकारस्य लोपः भवति । यथा - प्रति + अन्च् (गतौ) अस्मात् धातोः क्विन्-प्रत्यये कृते अग्रे <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 अनेन नकारलोपे कृते 'प्रति + अच्' इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् तृतीयैकवचनस्य 'टा' प्रत्यये परे 'प्रति + अच् + टा' इत्यत्र <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा भवति । तदा वर्तमानसूत्रेण अच्-इत्यस्य अकारस्य लोपः जायते । अग्रे 'प्रति + च् + टा' इत्यत्र <<चौ>> 6.3.138 इत्यनेन इकारस्य दीर्घादेशं कृत्वा 'प्रतीचा' इति रूपं सिदध्यति ।
<<टेः>> - डकार इत् । कतर अदिति स्थिते — टेः । 'अल्लोपोऽन' इत्यस्माल्लोप इतिति विंशतेर्ङिती॑त्यतो डितीति चानुवर्तते । भस्येत्यधिकृतं । तदाह-डितीत्यादिना । कतर अदित्यत्र रेफादकारस्य लोपः । चर्त्वविकल्पं स्मारयति-वावसाने इति । ननु पररूपेणकतर॑दिति सिद्धेरद्डो डित्करणस्य किं प्रयोजनमित्यत आह — टेर्लुप्तत्वादिति । टेर्लुप्तत्वात्पूर्वसवर्णदीर्घो न भवतीत्यन्वयः । डित्त्वाऽभावेटे॑रिति लोपस्याऽप्राप्त्या पररूपं बाधित्वा पूर्वसवर्णदीर्घः प्रसज्येतेति भावः ।ननु पूर्वसवर्णदीर्घाऽभावाय दकार एवादेशः क्रियतामित्यत आह-एङ्ह्रस्वादित्यादि । सोर्दकारादेशे सति तस्य स्थानिवत्त्वेन संबुद्धित्वाद्ध्रस्वान्तादङ्गात्परत्वाच्च लोपः प्रसज्येत । अद्डादेशे तु टिलोपे सति कतरित्यङ्गं,न तद्ध्रस्वान्तम् । यत्तु ह्रस्वान्तं 'कतर' इति न तदङ्गं, रेफादकारस्य प्रत्ययावयवत्वेन तदन्तस्य प्रत्ययपरकत्वाऽभावेन अङ्गत्वाऽभावात् । अतष्टिलोपप्रवृत्तयेऽद्डादेशविधिरिति भावः । पुनस्तद्वदिति । प्रथमावद्द्वितीयेत्यर्थः । शेषं पुंवदिति । सर्ववदित्यर्थः । अन्यतमशब्दस्य त्विति । तस्याऽव्युत्पन्नप्रातिपतिकत्वेन डतमप्रत्ययान्तत्वाऽभावेन तत्राद्डादेशो नेत्यर्थः ।एकाच्च प्राचा॑मिति डतरजन्तादेकतरशब्दात्स्वमोरद्डादेशे प्राप्ते आह-एकतरादिति । एकतरशब्दात्परयोः स्वमोरद्डादेशप्रतिषेधो वक्तव्य इत्यर्थः । अविद्यमाना जरा यस्य कुलस्येति विग्रहेनञोऽस्त्यर्थना॑मिति बहुव्रीहौ विद्यमानपदलोपेगोस्त्रियो॑रिति ह्रस्वत्वेऽजरशब्दः । तस्य प्रक्रियां दर्शयति — सोरिति । सोरमादेशे कृतेऽजरमित्यन्वयः । जरसादेशमाशङ्क्याह — संनिपातेति । अदन्तसंनिपाताश्रयस्य अमोऽदन्तत्वविघातकजरसादेशं प्रति निमित्तत्वाऽयोगादिति भावः । अजरसी इति ।नपुंसकाच्चे॑ति शीभावे जरसादेशे रूपम् । अजरे इति । जरसादेशाऽभावे रूपम् । जसि रूपं दर्शयितुमाह — परत्वादिति । अजर-सिति स्थिते 'जश्शसोः शिः' इति शिभावात् परत्वाज्जरसि कृते ततः शिभावे झलन्तत्वान्नुमित्यर्थ इति केचित् । तदेतत्जराया जरसि॑ति सूत्रे अजरांसीत्यत्रनुम्जरसोः प्राप्तयोर्विप्रतिषेधेन जरसि॑ति भाष्यविरुद्धत्वादुपेक्ष्यम् । शिभावात्पूर्वमेव परत्वाज्जरसः प्रवृत्तौ हि तदा जसः सर्वनामस्थानत्वाऽभावेन नुम एवाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव । पूर्वविप्रतिषेधमाश्रित्य जरसः पूर्वमेव शिभावे तु तद्भाष्यं सङ्गच्छते । एवञ्च जरसः पूर्वमेव शिभावे कृते तस्य सर्वनामस्थानत्वात्तस्मिन् परे नुम्जरसोः प्राप्तयोः नुमपेक्षया परत्वाज्जरस् । ततो झलन्तलक्षणो नुमित्येव व्याख्येयम् । यदि हि जरसादेशात्प्रागेव अजन्तलक्षणो नुम् स्यात्, तदा 'अजरन् इ' इति स्थितेनिर्दिश्यमानस्यादेशा भवन्ती॑ति न्यायेन 'जर' इत्यस्य जरसि कृते अजरस् न इति स्थिते सान्यसंयोगाऽभावात् 'सान्त महतः' इति वक्ष्यमाणदीर्घो न स्यादित्यादि शब्देन्दुशेखरे निर्जरशब्दनिरूपणे, अत्र च प्रपञ्चितम् । उभयथापि अजरन् स् इ इति स्थिते नान्तत्वाऽभावात्सर्वनामस्थाने चे॑ति दीर्घे अप्राप्ते ।
अच इत्ययमञ्चतिर्लुप्तनकारो गृह्यत इति । प्रत्याहारग्रहणं तु न भवति, यदि स्याद्, अजन्तस्याङ्गस्य लोपो भवतीत्यर्थः स्यात्, ततश्च आतोधातोः इत्येतदनर्थकं स्यात् । यच्च द्यौप्रागपागुदक्प्रतीचो यत् इति निर्द्दिशति, यच्च चौ इत्याह, ततो ज्ञायते - अञ्चतेरेवात्र ग्रहणमिति । एतेन पचाद्यचोऽप्यग्रहणम् ॥