5-1-21 शतात् च ठन्यतौ अशते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्
index: 5.1.21 sutra: शताच्च ठन्यतावशते
आ-अर्हात् शतात् असमासे ठन्-यतौ अशते
index: 5.1.21 sutra: शताच्च ठन्यतावशते
प्राग्वतीय-अर्थेषु 'तदर्हति' अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये 'शत'शब्दात् अशते अभिधेये समासं विहाय अन्यत्र ठन् तथा यत्-प्रत्ययौ भवतः ।
index: 5.1.21 sutra: शताच्च ठन्यतावशते
आर्हातित्येव। शतशब्दात् ठन्यतौ प्रत्ययौ भवतः अशतेऽधिधेये आर्हीयेष्वर्थेषु। कनोऽपवादः। शतेन क्रीतं शतिकम्, शत्यम्। अशते इति किम्? शतं परिमाणमस्य शतकं निदानम्। प्रत्ययार्थोऽत्र सङ्घः। शतमेव वस्तुतः प्रकृत्यर्थान् न भिद्यते। इह तु न भवति, शतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतम् इति। वाक्येन ह्यत्र प्रत्ययार्थस्य तत्त्वं गम्यते, न श्रुत्या। तथा च उक्तम्, शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः इति। चकारोऽसमास इत्यनुकर्षणार्थः। द्वौ च शतं च द्विशतं, द्विशतेन क्रीतं द्विशतकम्। त्रिशतकम्। प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि इत्यनया इष्ट्या समासादपि प्राप्नोति।
index: 5.1.21 sutra: शताच्च ठन्यतावशते
शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्नभिद्यते, तेन ठन्यतौ न । किं तु कनेव । असमासे इत्येव । द्विशतेन क्रीतं द्विशतकम् ॥
index: 5.1.21 sutra: शताच्च ठन्यतावशते
प्राग्वतेष्ठञ् 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5.1.19 इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5.1.19 इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः केभ्यश्चन सङ्ख्यावाचकेभ्यः शब्देभ्यः सङ्ख्यायाः अतिशदन्तायाः कन् 5.1.22 इत्यत्र पाठितेन 'कन्' इत्यनेन बाध्यते । 'शत'शब्दस्य विषये अपि अनेन सूत्रेण 'कन्' प्रत्ययस्य प्रसक्तिः विद्यते । परन्तु समासं विहाय अन्यत्र सोऽपि वर्तमानसूत्रेण बाध्यते, तस्य स्थाने च 'ठन्' तथा 'यत्' प्रत्ययौ भवतः ।
यथा - तेन क्रीतम् 5.1.37 अस्मिन् अर्थे - शतेन क्रीतम् = शत + ठन् → शतिक । पक्षे शत + यत् → शत्य ।
शतेन क्रीतम् शतिकम् शत्यम् वा वस्तु । शतरूप्यकाणि दत्त्वा यत् क्रीयते, तस्य निर्देशः 'शतिकम्' / 'शत्यम्' अनेन भवति ।
अस्मिन् सूत्रे 'अशते' इति अपि उच्यते । अस्य अर्थः अयम् - आर्हीय-अर्थेषु शत-शब्दात् प्रत्ययविधानम् कृत्वा यदि पुनः 'शतम्' इत्येव अर्थः सिद्ध्यति, तत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।'शतात् अशते अभिधेये एव ठन्-यतौ, न अन्यथा' - इति अस्य सूत्रस्य आशयः । अस्य स्पष्टीकरणम् किञ्चित् क्लिष्टमस्ति, अतः एकमुदाहरणम् स्वीकृत्य अर्थं पश्यामः । 'सङ्घ' इति कश्चन शब्दः, समूहः इति अस्य अर्थः । यस्मिन् समूहे शतं जनाः सन्ति, तस्य निर्देशार्थम् तदस्य परिमाणम् 5.1.57 अस्मिन् अर्थे 'शतम् परिमाणमस्य सङ्घस्य' इति वाक्यम् क्रियते । अत्र प्रकृतिः अस्ति 'शतम्' इति, प्रत्ययस्य अर्थः अपि 'शतम्' इत्येव । The measure of a group of 100 people is 100 itself - इति अत्र आशयः । अस्यां स्थितौ वर्तमानसूत्रस्य प्रसक्तिः न विद्यते, यतः अत्र 'शतम्' इत्यस्मिन् अर्थे एव शत-शब्दात् प्रत्ययः कृतः अस्ति । अतः अत्र संख्यायाः अतिशदन्तायाः कन् 5.1.22 इति कन्-प्रत्ययः सिद्ध्यति - शतं परिमाणमस्य सङ्घस्य शतकः सङ्घः ।
अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - <!शतप्रतिषेधे अन्यशतत्वे अप्रतिषेधः!> । इत्युक्ते, यत्र तद्धितार्थे निर्मितः शब्दः कस्यचन अन्यस्य शतस्य निर्देशं करोति, तर्हि वर्तमानसूत्रेण उक्तः प्रतिषेधः न जायते - इत्युक्ते, वर्तमानसूत्रस्य प्रसक्तिः अस्ति एव । यथा, 'शतेन क्रीतम् शाटकशतम्' इत्यत्र 'शतम्' दत्वा किञ्चन अन्यम् वस्तु (शतम् शाटकानि) स्वीक्रियते । अत्र यद्यपि तद्धितान्तः शब्दः (= शाटकशतम्) 'शतम्' इत्यस्यैव विषये अस्ति, तथापि तद्धितान्तेन निर्दिष्टम् शतम् शाटकस्य विषये अस्ति, परन्तु प्रकृत्या निर्दिष्टं शतम् मूल्यस्य विषये अस्ति । अत्र द्वयोः शब्दयोः भिन्नम् शतम् निर्दिश्यते, अतः अत्र वर्तमानसूत्रे विद्यमानेन 'अ-शते' इत्यनेन अत्र प्रतिषेधः न जायते, अपितु वर्तमानसूत्रस्यैव प्रसक्तिः विद्यते - इत्युक्ते, अत्र शत-शब्दात् ठन् तथा यत्-प्रत्ययौ एव भवतः । शतेन क्रीतम् शत्यम् शतिकम् वा शाकटशतम् ।
ज्ञातव्यम् -
समासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । इत्युक्ते, यदि 'शत'शब्दः समासे उत्तरपदस्थाने आगच्छति, तथा च तस्य पूर्वपदम् सङ्ख्यावाचिशब्दः अस्ति, तर्हि अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अत्र संख्याया अतिशदन्तायाः कन् 5.1.22 इत्यनेन कन्-प्रत्ययः एव विधीयते । यथा - द्विशतेन क्रीतम् = द्विशत + कन् → द्विशतकम् ।
अस्मिन् सूत्रे उक्तौ ठन्-यत्-प्रत्ययौ सङ्ख्यायाः अतिशदन्तायाः कन् 5.1.22 इत्यस्य अपवादरूपेण विधीयते ।
index: 5.1.21 sutra: शताच्च ठन्यतावशते
शताच्च ठन्यतावशते - शताच्च । आर्हीयेष्वर्थेषु शताट्ठन्यतौ स्तो नतु शतेऽर्थे इत्यर्थः । उत्तरसूत्रप्राप्तकनोऽपवादः । शतक इति । उत्तरसूत्रेण कन्निति भावः । नन्विह सङ्घस्यैव प्रत्ययार्थत्वात् कथम् 'अशते' इति निषेध इत्यत आह — इहेति । प्रत्ययार्थः सङ्घः प्रकृत्यर्थाच्छतात्परिमाणान्न भिद्यते । गुणगुणिनोरभेद एव हि पारमार्थिकः । भेदस्तु काल्पनिक एवेति भावः । यत्र तु शतं प्रत्ययार्थः प्रकृत्यर्थाद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्कशतं प्रकृत्यर्थः । सादकशतं तु प्रत्ययार्थः । एतत्सर्वं भाष्ये स्पष्टम् । असमास इत्येवेति । चकारस्य तदनुकर्षणार्थत्वादिति भावः । द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु द्विशतशब्दस्य लुगन्ततया लुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् ।
index: 5.1.21 sutra: शताच्च ठन्यतावशते
कनोऽपवाद इति। उतरसूत्रेण प्राप्तस्य। शतकमिति।'तदस्य परिमाणम्' इति वर्तमामने'संक्यायाः संज्ञासंघसूत्राध्ययनेषु' इति संघे प्रत्ययार्थे विवक्षिते उतरसूक्षत्रेण कनेव भवति। प्रत्ययार्थोऽत्र सङ्घ इति। शतमध्यायानां परिमाणं यस्य निदानाख्यस्य ग्रन्थस्य स इह प्रत्ययार्थः, स च शतसंख्यावच्छिन्नाघ्यायसमुदायात्मक इति संघः प्रत्ययार्थो भवति। शतमेव वस्तुत इति। शतातस्यानन्यत्वात् ततश्च प्रकृत्यर्थान्न भिद्यते,यदेवाध्यायानां शतं प्रकृत्याभिधीयते प्रत्ययान्तेनापि तदेवेति नेह प्रकृत्यर्थात्प्रत्ययार्थस्य भेदः। एतेन यत्राव्यतिरिक्तः प्कय्ययार्थात्प्रकृत्यर्थस्तत्र प्रतिषेधो भवति, न व्यतिरिक्त इत्येतदाख्यातम्। ननु च'संघे चानौतराधर्ये' ,'सङ्ख्यायाः संज्ञासंघसूत्राध्ययनेषु' इत्यत्र च प्राणिसमूहे संघशब्दो गृङ्यते, तत्कथमत्र ग्रन्थविषयो गृह्यते ? उपचारेणेत्यदोषः। यदि वा संज्ञासंघसूत्रे शब्दसाहचर्याद्विशिष्टः संघो गृह्यते,'संघे चानौतराधर्ये' इत्यत्रापि'च्छन्दोनाम्नि' इत्यतश्च्छन्दोग्रहणानुवृतेः प्राणी गृह्यते। इह तु यत्नान्तराभावाद्ग्रन्थस्यापि ग्रहणमित्यदोषः। ननु च शतेऽभिधेये न भवितव्यम्, इहच शत्यं शाटकशतम्, शतिकं शाटकशतमित्युक्ते शतं प्रतीयत एव तत्किमिति प्रतिषेधो न भवति ? इत्यत आह - वाक्येनेत्यादि। शत्यशतिकशब्धौ सामान्यशब्दौ, सामान्यशब्दास्च प्रकरणादिकमन्तरेण न विशेषे वर्तन्ते। न यावच्छाटकशतमित्येतत्पदान्तरं प्रयुज्यते तावत्प्रत्ययार्थस्य शतत्वं नावसीयते। तस्मात्पदान्तरसन्निधौ गम्यमानत्वाद्वाक्यार्थोऽसौ भवति। न श्रुत्येति। गम्यते इति सम्बन्धः। यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रत्ययार्थस्य शतत्वमाख्यायते, तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते, यथा प्रत्युदाहरणे शतं परिमाणमस्य शतकमित्युक्ते गम्यते-एकत्प्रत्ययार्थोऽपि शतमेवेति। इह तु वाक्याच्छतत्वं प्रतीयते। न च पदसंस्कारकाले वाक्यार्थस्याङ्गभावोऽस्ति, तदा तस्यानुपथानात्। प्रकृत्यर्थादव्यतिरिक्ते प्रत्ययार्थे प्रतिषेधो भवति, न ह्यतिरिक्ते वाक्यगम्य इत्येतदाप्तवचनेन द्रढयितुमाह - तथा चोक्तमित्यादि। शतप्रतिषेधे कर्तव्ये प्रकृत्यर्थादन्यस्य च प्रत्ययार्थस्य शतत्वे सत्यप्रतिषेधः। एतदुक्तं भवति - यत्रान्यत् प्रकृत्यर्थं शतम्, अन्यत्प्रत्ययार्थशतम्, तत्र विधिरेव भवति न प्रतिषेधः। केन पुनः समासे प्राप्नोति यतस्तत्प्रतिषेधार्थमसमासानुकर्षणार्थश्चकारः क्रियते ? इत्याह - प्राग्वतेरित्यादि ॥