7-3-17 परिमाणान्तस्य असञ्ज्ञाशाणयोः वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य सङ्ख्यायाः
index: 7.3.17 sutra: परिमाणान्तस्यासंज्ञाशाणयोः
परिमाणान्तस्य अङ्गस्य सङ्ख्यायाः परं यदुत्तरपदं तस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः, संज्ञायां विषये शाणे च उत्तरपदे न भवति। द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः। द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम्। विभाषा कार्षापणसहस्राभ्याम् 5.1.29 इत्यत्र सुवर्णशतमानयोरुपसङ्ख्यानम् इति लुको विकल्पः। द्वाभ्यां निष्काभ्यां क्रीतम् द्वित्रिपूर्वान् निष्कात् 5.1.30 द्विनैष्किकम्। असंज्ञाशाणयो इति किम्? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। पञ्च लोहित्यः परिमाणमस्य, पञ्च कलापाः परिमाणमस्य इति विहृह्र तदस्य परिंआणम् 5.1.57 इति योगविभागात् प्रत्ययः, तद्धितान्तश्चायं समुदायः संज्ञा। द्वाभ्यां शाणाभ्यां क्रीतम् द्वै शाणम्। त्रैशाणम्। शाणाद् वा 5.1.35, द्वित्रिपूर्वादण् च 5.1.36 इत्यण् प्रत्ययः। असंज्ञाशाणकुलिजानाम् इति केचित् पठन्ति। द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः।
index: 7.3.17 sutra: परिमाणान्तस्यासंज्ञाशाणयोः
उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । असंज्ञा इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तदस्य परिमाणम् <{SK1723}> इति ठञ् । असमासग्रहणं ज्ञापकं भवति इत्यतः प्राक् तदन्तविधिरिति । तेन सुगव्यम्-यवापूप्यमित्यादि ॥ इत ऊर्ध्वं तु ।<!संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि !> (वार्तिकम्) ॥ पारायणिकः । द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते शूर्पादञ् <{SK1691}> माभूत् किंतु ठञ् । द्विशौर्पिकम् ॥
index: 7.3.17 sutra: परिमाणान्तस्यासंज्ञाशाणयोः
परिमाणान्तस्यासंज्ञाशाणयोः - परिमाणान्तस्या । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे — उत्तरपदवृद्धिः स्यादिति । उत्तरपदस्य आदेरचो वृद्धि स्यादित्यर्थः । ञिदादाविति । ञिति णिति किति चेत्यर्थः । परमनैष्किक इति । परमनिष्केण क्रीत इत्यर्थः । समासत्वाट्ठगभावे औत्सर्गिकष्ठञ् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाट्ठकोऽप्रसक्तेरसमासग्रहणं व्यर्थम् । न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्,ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधात् । निष्कादीनां च विशिष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह — असमासग्रहममिति । सुगव्यमिति । सु=शोभना गौः-सुगौः,न पूजना॑दिति निषेधात्गोरतद्धितलुकी॑ति न टच् । 'उगवादिभ्यः' इति गोशब्दान्ताद्यत् । यवापूप्यमिति ।विभाषहविरपूपादिभ्यः॑ इत्यपूपान्तत्वाद्यत् । नन्वसमासग्रहणाड्ज्ञापकादिति ऊध्र्वमिति तदन्तविधिः किं न स्यात् । ततश्चपरमपारायणं वर्तयती॑त्यत्रापिपारायणतुरायणचान्द्रायणं वर्तयती॑ति ठञ् स्यादित्यत आह — इत ऊध्र्वं त्विति । वार्तिकमिदम् । नन्वेवमपि द्विशूर्पशब्दान्तादपिशूर्पादञन्यतरस्या॑मित्यञ् स्यादित्यत आद — तच्चाऽलुकीति । इत ऊध्र्वं संख्यापूर्वपदानां तदन्तग्रहणमिति यदुक्तं तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशूर्पमिति । तद्धितार्थ॑ इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः । अतः सङ्ख्यापूर्वपदाच्छूर्पान्तादस्मात्शूर्पादञन्यतरस्या॑मिति प्राप्तस्य अञष्ठञो वाअध्यर्धे॑ति लुक् । द्विशूर्पशब्दो लुगन्तः । ततश्च तस्मात् क्रीतेऽर्थेशूर्पादञि॑ति न भवति, लुकि सति तदन्तग्रहणाऽभावादित्यर्थः । द्विशौर्पिकमिति ।तेन क्रीत॑मिति ठञिपरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्यनुत्तरपदवृद्धिः । अस्य ठञो लुक्तु न भवति, तस्य द्विगुनिमित्तत्वाऽभावात् ।
index: 7.3.17 sutra: परिमाणान्तस्यासंज्ञाशाणयोः
द्विकौडविक इति कुडेरवप्रत्यये कुडवःउ प्रस्थचतुर्थभाग इत्युणादिषु व्युत्पत्तिः । कुडवमित्येतदव्युत्पन्नं शब्दान्तरं द्रष्टव्यम् । ततः'प्राग्वतेष्टञ्' , अनार्हीयत्वाल्लुगभावः । द्वाभ्यां सुवर्णाअभ्यामिति । शाणप्रतिषेधात्परिच्छितिसाधनमिह परिमाणम्, तेनोन्मानस्यापि भवति - लोहिनीउगुञ्जा, ताभिः पञ्चभिः परिमितमाकारविशेषयुक्तं हिरण्यं पाञ्चलोहितिकम् । कलापःउकश्चिन्मानविशेषः । योगविभागादिति । पूर्वासु वृत्तिषु'तदस्य परिमाणं संख्यायाः संज्ञा' इत्येकयोगेन पठितत्वाद्, भाष्ये तत्र योगविभागस्योक्तत्वादेवमुक्तम् । तद्धितान्तश्चायमिति । यथा तु ठध्यर्धपूर्वद्विगोःऽ इत्यत्र वार्तिकं तथा तद्धितलुकि सति संज्ञेति तत्रैवावोचाम । द्वैशाण इति । यद्यत्रोतरपदवृद्धिः स्यात्, पूर्वपदस्य न स्यात् । कुलिजमुधान्यमानम् । अन्तग्रहणं चिन्त्यप्रयोजनम् ॥