5-1-26 शूर्पात् अञ् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्
index: 5.1.26 sutra: शूर्पादञन्यतरस्याम्
आ-अर्हात् शूर्पात् अन्यतरस्यामञ्
index: 5.1.26 sutra: शूर्पादञन्यतरस्याम्
शूर्प-शब्दात् आर्हीय-अर्थेषु विकल्पेन अञ्-प्रत्ययः भवति ।
index: 5.1.26 sutra: शूर्पादञन्यतरस्याम्
शूर्पशब्दादन्यतरस्यामञ् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञोऽपवादः। पक्षे सोऽपि भवति। शूर्पेण क्रीतम् शौर्पम्, शौर्पिकम्।
index: 5.1.26 sutra: शूर्पादञन्यतरस्याम्
शौर्पम् । शौर्पिकम् ॥
index: 5.1.26 sutra: शूर्पादञन्यतरस्याम्
प्राग्वतेष्ठञ् 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु परिमाणवाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा 'शूर्प' (कश्चन परिमाणवाचीशब्दः) अस्मात् शब्दात् सर्वेषु आर्हीय-अर्थेषु विकल्पेन अञ्-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ् अपि भवति । शूर्पम् परिमाणमस्य सः = शूर्प + अञ् → शौर्प । पक्षे - शूर्प + ठञ् → शौर्पिक ।
index: 5.1.26 sutra: शूर्पादञन्यतरस्याम्
शूर्पादञन्यतरस्याम् - शूर्पादञ् ।आर्हीयेष्वर्थेष्वि॑ति शेषः । शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पक्षे ठञ् ।
index: 5.1.26 sutra: शूर्पादञन्यतरस्याम्
ठञोऽपवाद इति। शूर्पशब्दस्य परिमाणवाचित्वात्। यद्यपि परिपवनविशेषः शूर्पम्, तथापि विशिश्टसंस्थानं धान्यादेः परिमाणमपि। शूर्पपरिमितो वा व्रीद्यदिः शूर्पशब्देनोच्यते॥