संख्यायाः संवत्सरसंख्यस्य च

7-3-15 सङ्ख्यायाः संवत्सरसङ्ख्यस्य च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संख्याया उत्तरपदस्य संवत्सरशब्दस्य संख्यायाश्चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। द्वौ संवत्सरावधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः। संख्यायाः — द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः। द्विसाप्ततिकः। द्विषष्ट्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययमुत्पादयति। <<परिमाणान्तस्य०>> ७.३.१७ इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम्। तेन द्वैसमिकः त्रैसमिक इत्युत्तरपदवृद्धिर्न भवति। द्विवर्षा, त्रिवर्षा माणविकेति <<अपरिमाणबिस्ताचित०>> ४.१.२२ इति पर्युदासो न भवति॥

Siddhanta Kaumudi

Up

संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संख्यायाः संवत्सरसंख्यस्य च>> - ठञि त्वादिवृद्धौ प्राप्तायां — संख्यायाः संवत्सर । आदिवृद्धिप्रकरणेउत्तरपदस्ये॑त्यधिकारे इदं सूत्रम् । संवत्सरश्चसङ्ख्या चेति समाहारद्वन्द्वात् षष्ठी । संख्याया उत्तरपदस्येति । संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरग्रहणं व्यर्थं, संवत्सरस्य द्वादशमासपरिमाणतयापरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्येव सिद्धेरित्यत आह — परिमाणान्तस्येत्येवेति ।

Padamanjari

Up

संवत्सरश्च संख्या च संवत्सरसंख्यम्, समाहारद्वन्द्वः । द्विसांवत्सरिक इति ।'प्राग्वतेष्ठञ्' , तस्य ठध्यर्धपूर्वऽ इति लुग्न भवति, अनार्हीयत्वात् । द्विषाष्टिक इति । ननु'तमधीष्टो भृतः' इत्यत्र कालादिति वर्तते, तत्कथं द्विषष्ट।लदिशब्देभ्यः प्रत्ययः ? इत्यत आह - द्विषष्ट।लदिशब्द इति । कालवृत्तिः शब्दस्तत्र गृह्यते, न मासादय एवेति भावः । ननु च'परमाणान्तस्यासंज्ञाशाणयोः' इत्यत्र परिच्छेदहेतुत्वमात्रं गृह्यते, न त्वारोहतः परिणाइतश्च येन मीयते तदेव प्रस्थादि; अन्यथा शाणप्रतिषेधोऽनर्थकः स्यात्; कालश्चापि परिच्छेदहेतुर्भवत्येव, ततश्च संबत्सरग्रहणमनर्थकम्, परिमाणान्तस्येत्येव सिद्धत्वात् ? इत्यत आह - संवत्सरग्रहणमिति । द्वैसमिक इति । अधीष्टादिषु'समायाः खः' ,'द्विगोर्वा' इति पक्षे ठञ् । न केवलं वृद्धिविषयमेव ज्ञापकम्, किं तर्हि ? सार्वत्रिकमित्याह - द्विवर्षा माणविकेति । द्वे वर्षे भूता इति पूर्ववट्टञ्, तस्य'वर्षाल्लुक्' ,'चितवति नित्यम्' इति लुक् । पर्युदासो न भवतीति । प्रतिषेधस्य । तेन प्रतिषेध एव भवति । अथ संख्याग्रहणं किमर्थम्, यावता संख्ययापि परिच्छिद्यते, तत्र'परिमाणान्तस्य' इत्येव सिद्धम् ? केचिदाहुः - संख्याग्रहणमपि ज्ञापकार्थमेव, परिमाणग्रहणेन संख्यापि न गृह्यत इति । तथा च ठपरिमाणबिस्ताचितऽ इत्यत्र वृतावुक्तम् -'कालः संख्या च परिमाणं न भवति । द्विवर्षा, त्रिवर्षा, द्विशता, त्रिशता' इति । अपर आह - साक्षाच्छिष्टेन निमितभावेनानुमितं कार्यित्वं मा बाधीति परिमाणात्पृथगिह संख्याग्रहणं कृतमिति ॥