5-1-7 खलयवमाषतिलवृषब्रह्मणः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तस्मै हितम् यत्
index: 5.1.7 sutra: खलयवमाषतिलवृषब्रह्मणश्च
'तस्मै हितम्' (इति) खल-यव-माष-तिल-वृष-ब्रह्मणः च यत्
index: 5.1.7 sutra: खलयवमाषतिलवृषब्रह्मणश्च
'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् खल,यव,माष, तिल, वृष, ब्रह्मन् - एतेभ्यः शब्देभ्यः यत् प्रत्ययः भवति ।
index: 5.1.7 sutra: खलयवमाषतिलवृषब्रह्मणश्च
खलाऽदिभ्यो यत् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। खलाय हितम् खल्यम्। यव्यम्। माष्यम्। तिल्यम्। वृष्यम्। ब्रह्मण्यम्। वृष्णे हितम्, ब्राह्मणेभ्यो हितम् इति वाक्यम् एव भवति। छप्रत्ययोऽपि न भवति, अनभिधानात्। चकारोऽनुक्तसमुच्चयार्थः। रथाय हिता रथ्या।
index: 5.1.7 sutra: खलयवमाषतिलवृषब्रह्मणश्च
खलाय हितं खल्यम् । यव्यम् । माप्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥
index: 5.1.7 sutra: खलयवमाषतिलवृषब्रह्मणश्च
'हितम्' इत्युक्ते 'योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ' । 'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् प्राक्क्रीतात् छः 5.1.1 इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते; 'खल', 'यव', 'माष', 'तिल', वृष' ( वृषभः), 'ब्रह्मन् ' - एतेभ्यः शब्देभ्यः यत्-प्रत्ययः भवति ।
खलाय हितम् खल्यम् ।
यवाय हितम् यव्यम् ।
माषाय हितम् माष्यम् ।
तिलाय हितम् तिल्यम् ।
वृषाय हितम् वृष्यम् ।
ब्रह्मणे हितम् ब्रह्मण्यम् । अत्र नस्तद्धिते 6.4.144 इत्यनेन टिलोपे प्राप्ते ये चाभावकर्मणोः 6.4.168 इत्यनेन सः निषिध्यते । अत्र अल्लोपोऽनः 6.4.135 इत्यस्य तु प्रसक्तिरेव नास्ति - न संयोगाद्वमन्तात् 6.4.137 इति निषेधात् ।]
ज्ञातव्यम् -
1.अस्मिन् सूत्रे 'वृष' शब्दः स्वीक्रियते, न हि 'वृषन्' इति नकारान्तशब्दः । तथा च, 'ब्रह्मन्' इति नकारान्तशब्दः एव स्वीक्रियते, न हि 'ब्राह्मण' इति अकारान्तशब्दः ।
अस्मिन् सूत्रे 'च' इति उक्तमस्ति । अयम् चकारः 'अनुक्तसमुच्चयार्थः' अस्तीति काशिकाकारः वदति । इत्युक्ते, केचन अन्ये शब्दाः अपि शिष्टप्रयोगमनुसृत्य तस्मै हितम् 5.1.4 इत्यस्मिन् अर्थे 'यत्' प्रत्ययं स्वीकुर्वन्ति । यथा - रथाय हितम् रथ्यम् ।
अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्तस्य विषये अपि भवति । यथा, कृष्णतिलेभ्यो हितः कृष्णतिल्यः , राजमाषेभ्यो हितं राजमाष्यम् । अस्मिन् विषये असमासे निष्कादिभ्यः 5.1.20 इत्यत्र विस्तारेण निरूपितमस्ति ।
index: 5.1.7 sutra: खलयवमाषतिलवृषब्रह्मणश्च
खलयवमाषतिलवृषब्रह्मणश्च - खलयव । खलादिभ्यश्चतुथ्र्यन्तेभ्यो हितमित्यर्थे यत्स्यादित्यर्थः । वृषशब्दोऽत्र अकारान्त एव गृह्रते, नतु नकारान्तः । तेनवृष्णे हित॑मिति वाक्यमेव । ब्राहृन्शब्दो ब्राआहृणवाच्येव गृह्रते, नतु वेदादिवाची । तेनब्राहृणे वेदाय हित॑मिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्राहृण्यमित्यत्रये चाभावकर्मणो॑रिति प्रकृतिभावान्न टिलोपः । चाद्रथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः ।
index: 5.1.7 sutra: खलयवमाषतिलवृषब्रह्मणश्च
पूववट्टिलोपाभावः। वृषशब्दोऽयमकारान्तो गृह्यते, न तु नकारान्तः; अन्यथाऽसन्देहार्थं नकारलोपमकृत्वैव निर्दिशेत, यथा-आत्मन्विश्वजनेति। अस्ति च नकारान्तस्तत्र वक्तव्यम्, ततोऽपि यद्भवतीति, अन्यथा तत्र छे टिलोपे च वलृषीयमिति प्राप्नोति, तस्य च वृषशब्दे आदेशो वक्तव्यः, अन्यथा वृषण्य इति स्यात्; ब्रह्मशब्दो नकारान्तो गृहीतः, ब्राह्मणशब्दश्चाकारान्तोऽस्ति, तत्र वक्तव्यम्-ब्राह्मणशब्दादपि यद्धवतीति, अन्यथा ततश्च्छः स्यात्, तस्य च ब्रह्मन्-शब्द आदेशो वक्तव्यः; अन्यथा ब्राह्मयण्यमिति प्राप्नोति ? इत्यस्मिन्पूर्वपक्षे इदमाह - वृष्णो हितमित्यादि। च्छप्रत्ययोऽपि न भवतीति। यत्प्रत्ययस्तु तावत्सूत्रेऽनुपादानादेव न भवति, न केवलं स एव, अपि तु च्छप्रत्ययोऽपीत्यपिशब्दस्यार्थः। कुत इत्याह - अनभिधानादिति। तदनेनाप्यव्यविकन्यायो दर्शितः। त्रैशब्द्यं हि नः साध्यम् - वृषाय हितम्, वृष्णे हितम्; तथा व्रह्मणे हितम्, व्रह्मण्यम्, ब्राह्मणाय हितमिति; तत्र द्वयोः शब्दयोः समानार्थयोरेकत्र विग्रह एव, अपरत्र विग्रहश्च वृत्तिश्च भविष्यति, तद्यथा - अविकस्य मांसम्, आविकम्, अवेर्मांसमिति। रथाय हितारथ्येति। हितार्थ एव यथा स्यादर्थान्तरे मा भूदित्येवमर्थं गवादिषु पाठो नाङ्गीकृतः। केचितदन्तविधिमिच्छन्ति - रथसीताहलेभ्यो यद्विधाविति। अपरे तुहलसीताभ्यां साहचर्याच्चातुरर्थिक एव तदन्तविधिर्भवति, न त्वस्मिन्निति ॥