बहुव्रीहेरूधसो ङीष्

4-1-25 बहुव्रीहेः ऊधसः ङीष् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य बहुव्रीहिसमासस्य उत्तरपदम् ऊधस् इति शब्दः अस्ति; तस्मात् स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।

Kashika

Up

ऊधस्शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीष् प्रत्ययो भवति। <<ऊधसोऽनङ्>> ५.४.१३१ इति समासान्ते कृते <<अनो बहुव्रीहेः>> ४.१.१२ इति डाप्प्रतिषेधयोः प्राप्तयोरिदमुच्यते। घटोध्नी। कुण्डोध्नी। बहुव्रीहेरिति किम्? प्राप्ता ऊधः प्राप्तोधाः। <<अन उपधालोपिनः०>> ४.१.२८ इत्यस्यापि ङीपोऽयमुत्तरत्रानुवृत्तेर्बाधक इष्यते। समासान्तश्च स्त्रियामेव। इह न भवति — महोधाः पर्जन्य इति॥

Siddhanta Kaumudi

Up

ऊधोन्ताद्बहुव्रीहेर्ङीष् स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ ।<!स्त्रियाम् !> (वार्तिकम्) ॥ इत्युपसङ्ख्यानात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीष् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य बहुव्रीहिसमासस्य उत्तरपदम् ऊधस् (क्षीरशयः, udder) इति शब्दः विद्यते; तत्र <<ऊधसोऽनङ्>> 5.4.131 इत्यनेन ऊधस्-शब्दस्य अनङ् इति आदेशे कृते; तस्मात् स्त्रीत्वं द्योतयितुम् <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इत्यनेन विकल्पेन डाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ङीष् प्रत्ययः विधीयते। यथा, घटः इव उधः अस्याः सा इत्यत्र एतादृशं रूपं सिद्ध्यति — घटः इव ऊधः अस्याः सा → घट + ऊधस् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः] → घट + ऊध + अनङ् + ङीष् [<<ऊधसोऽनङ्>> 5.4.131 इति अनङ् (अन्) आदेशः । <<ङिच्च>> 1.1.53 इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> 4.1.25 इति ङीष्-प्रत्ययः] → घट + ऊधन् + ई [<<अतो गुणे>> 6.1.97 इति पररूपैकादेशः] → घट + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → घटोध्नी [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः । ] घटः एव ऊधः अस्याः सा = घटोध्नी । एवमेव, कुण्डम् इव ऊधः अस्याः सा = कुण्डोध्नी इत्यपि रूपम् अननैव प्रकारेण सिद्ध्यति ।

1. अत्र उपरिनिर्दिष्टायां प्रक्रियायाम् आदौ <<अतो गुणे>> 6.1.97 इति पररूपैकादेशः भवति; ततः <<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः क्रियते । यद्यपि<<अल्लोपोऽनः>> 6.4.134 इति अङ्गकार्यम् अस्ति; तथापि गुणैकादेशस्य अपेक्षया तद् बहिरङ्गम् अस्ति; अतः <<असिद्धम् बहिरङ्गमन्तरङ्गे>> इत्यनया परिभाषया आदौ अन्तरङ्गः पररूपैकादेशः एव भवति । 2. अत्र प्रक्रियायाम् अन्-इत्यस्य अकारः लुप्यते, अतः अत्र (अग्रे वक्ष्यमाणेन) <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इत्यनेन ङीप्-प्रत्ययः अपि विकल्पेन प्राप्नोति; परन्तु प्रकृतसूत्रेण तस्य अपि बाधः क्रियते । इत्युक्ते, यस्मिन् बहुव्रीहिसमासे ऊधस्-शब्दः उत्तरपदरूपेण विद्यते तत्र स्त्रीत्वं द्योतुयितुम् केवलम् ङीष्-प्रत्ययःएव विधीयते । दलकृत्यम् 1. बहुव्रीहेः इति किमर्थम् ? तत्पुरुषसमासस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, प्राप्तं ऊधः सा इत्यत्र <<प्राप्तापन्ने च द्वितीयया>> 2.2.4 इत्यनेन तत्पुरुषसमासे कृते, ततः <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्ययः एव विधीयते, येन प्राप्तोधा इति शब्दः सिद्ध्यति । बाध्यबाधकभावः यस्य बहुव्रीहिसमासे उत्तरपदम् ऊधस् शब्दः अस्ति तस्य पूर्वपदस्य प्रारम्भे सङख्यावाचकशब्दः अव्ययसंज्ञकशब्दः वा वर्तते चेत् प्रकृतसूत्रेण प्राप्तं ङीष्-प्रत्ययं बाधित्वा <<संख्याव्ययादेर्ङीप्>> 4.1.26 इत्यनेन ङीप्-प्रत्ययः विधीयते । वस्तुतः ङीप्-प्रत्ययेन अपि ङीष्-प्रत्ययसदृशम् एव रूपं भवति, परन्तु तत्र स्वरस्य उच्चारणे भेदः जायते अतः अयम् अपवादः पृथग् रूपेण उक्तः अस्ति । ङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम् ङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र — 1. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यस्मिन् सूत्रे विद्यमानेन 'ङी' इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् । 2. इत्संज्ञकः षकारः सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् 'ङी' इत्युच्यमाने <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यत्र; तथा च <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> 6.3.63 इत्यत्रापि <<तदनुबन्धके न अतदनुबन्धकस्य>> अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते ।

Balamanorama

Up

<<बहुव्रीहेरूधसो ङीष्>> - बहुव्रीहेः । 'ऊधस' इति बहुव्रीहेर्विशेषणम्, तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह — ऊधोऽन्तादिति । कुण्डोध्नीति । अनङि कृते ङीषि 'अल्लोपोऽनः' इति भावः ।ऊधस्तु क्लीबमापीन॑मित्यमरः । ङीष्विधेस्तु स्वरे विशेषः फलम् । स्त्रियां किमिति । ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति । कुण्डमिव ऊधोयस्येति विग्रहः । नपुंसकत्वस्फोरणायधैनुक॑मिति विशेष्यम् । धेनूनां समूह इत्यर्थः ।अचित्तहस्तिधेनोष्ठक् । 'इसुसुक्तान्तात्कः'आदिवृद्धिः, क्लीबत्वं लोकात् । अत्र स्त्रीत्वाऽभावान्न ङीषित्यर्थः । ननु मास्तु ङीष्, अनङ् तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौस्त्रिया॑मित्यभावादित्यत आह — तद्विधाविति । ऊधसोऽनङ्विधौस्त्रिया॑मित्युपसङ्ख्यानादित्यर्थः । बहुव्रीहेः किम् । ऊधः प्राप्तेति विग्रहेप्राप्तापन्ने च द्वितीयये॑ति समासेप्राप्तोधाः॑ ।

Padamanjari

Up

ठूधसोऽनङ्ऽ इति । समासान्ते कृत इति समासार्थादुतरपदाद्भवन्समासान्तः पूर्वं भवति, ततः स्त्रीप्रत्ययः । अनो बहुव्रीहेरिति । उपल7णमेततत् । ठनो बहुव्रीहेःऽ,'डाबुभाभ्याभन्यतरस्याम्' इति चेत्यर्थः । कुण्डोध्नीति । कुण्डमिव ऊधोऽस्या इति विग्रहः, ङीषि ठल्लोपोऽनःऽ इत्यकारलोपः । प्राप्तोधा इति ।'प्राप्तापन्ने च द्वितीयया' इति तत्पुरुषः, ठत्वसन्तस्यऽ इति दीर्घः । अन उपधालोपिन इत्यादि । असत्यां पुनरनुवृतौ मध्येऽपवादन्यायेन डाप्प्रतिषेधयोरेवायं ङीष् बाधकः स्यात्, न ठन उपधालोपिनःऽ इत्यस्य ङीपः । ननु च'डाबुभाभ्याम्' इत्यत्रानेनान्यतरस्यांग्रहणेन ङीबपि प्राप्यते, ठन उपधालोपिनःऽ इत्यय तु नियम इत्यावीदीति कुतोऽयमनिष्टप्रसङ्गः ? सत्यम् ; अन ठुपधालोपिनःऽ इत्यस्य तु विधित्वाभ्युपगमेनैतदुक्तम् । इह बहुव्रीहेरूधसो ङीष् नश्चेति वक्तव्यम्, ऊधः शब्दान्ताद्वहुव्रीहेः स्त्रियां ङीष् भवति तत्सन्नियोगेन चान्त्यस्य नकारः, समासान्तप्रकरणे तु ऊधसऽनङिति न वक्तव्यम्,'धनुषो' नङ्ऽ इत्येव पठितव्यम्, कः पुनरेवं सति गुणो भवति ? ठन उपधालोपिनःऽ इत्यत्रास्यानुवृत्तिर्नाश्रयितव्या भवति; अपि च महोधाः पर्जन्यः, वुण्डोधो धैनुकमिति सिद्धं भवति, अन्यथा ठूधसोऽनङ्ऽ इत्यत्र स्त्रियामिति वक्तव्यं स्यादत आह - समासान्तश्च स्त्रियामेवेति । इष्यत इत्यनुषङ्गः, तत्रैव स्त्रियामिति वक्तव्यमित्यर्थः, इतरथा हि कब्विधिप्रसङ्गः । कपोऽवकाशोऽन्यो बहुव्रीहिः - अयवकः अव्रीहिकः, ङीषस्तु - विभाषा कप्, यदा न कप् सोऽवकाशः; कप्प्रसङ्गे उभयं प्राप्नोति परत्वात्कप् स्यात् ॥