प्राप्तापन्ने च द्वितीयया

2-2-4 प्राप्तापन्ने च द्वितीयया आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एकदेशिनैकाधिकरण इति निवृत्तम्। द्वितीयासमासे प्राप्ते वचनमिदम्। समासविधानात् सोऽपि भवति। प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सह समस्येते, तत्पुरुषश्च समासो भवति। प्राप्तो जीविकाम्, प्राप्तजीविकः। जीविकाप्राप्त इति वा। आपन्नो जीविकाम्, आपन्नजीविकः। जीविकापन्न इति वा॥

Siddhanta Kaumudi

Up

पक्षे द्वितीयाश्रिता - <{SK686}> इति समासः । प्राप्तो जीविकां प्राप्तजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः । इह सूत्रे द्वितीयया अ इति छित्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्न जीविका ॥

Laghu Siddhanta Kaumudi

Up

समस्येते। अकारश्चानयोरन्तादेशः। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः। अलं कुमार्यै - अलंकुमारिः। अत एव ज्ञापकात्समासः। निष्कौशाम्बिः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्राप्तापन्ने च द्वितीयया>> - प्राप्तापन्ने च । प्राप्त आपन्न एतौ शब्दौ द्वितीयान्तेन समस्येते इत्यर्थः । चकारो द्वितीयासमाससमुच्चयार्थः । तदाह-पक्ष इति । वस्तुतस्तुद्वितीया श्रिते॑ति सूत्रेप्राप्तापन्नशब्दाभ्यां द्वितीयायाः समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्धत्वाच्चकारो न तत्समुच्चयार्थः॑ इति भाष्ये स्थितम् । तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयोः पूर्वनिपातः ।द्वितीया श्रिते॑ति समासे तु द्वितीयान्तस्य पूर्वनिपातः । तदाह प्राप्तजीविक इत्यादि । अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्री इति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपदयोरकारमन्तादेशं साधयितुमाह — इह सूत्रे इति । अकारोऽपीति ।प्राप्तापनने द्वितीयया समस्येते, तयोरकारोऽन्तादेशश्चे॑त्यर्थलाभादिति भावः । तेनेति । प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः ।

Padamanjari

Up

प्राप्तापन्ने च द्वितीयया॥ प्राप्तजीविक इति। ठेकविभक्तिऽ इत्युपसर्जनत्वाद् ह्रस्वत्वम्। प्राप्ता जीविका येनेति कर्मणि क्तान्तेन बहुव्रीहावप्येतत्सिद्धम्, समासान्तोदातत्वार्थं तु वचनम्। इह प्राप्तमुखः, प्राप्तदुः ख इत्यादिषु'जातिकालसुखादिभ्यः' इति प्राप्तापन्नयोः परनिपातप्रसङ्गश्च। इह लिङ्गविशिष्टपरिभाषया प्राप्ताशब्दस्याप्ययं समासो भवति - प्राप्ता जीविकां प्राप्तजीविका इति पुवद्भावो वक्तव्यः। भाष्ये त्वकारः पूर्वपदस्य विधीयत इत्युक्तम्। चकारेण समुच्चयार्थेनाकारप्रश्लेषोऽनुमीयते, सौत्रत्वाच्च निर्देशस्य प्रकृतिभावाभावः, प्राप्तापन्ने द्वितीयान्तेन सह समस्येते, अ च अत्वं च भवति प्राप्तापन्नयोरित्यर्थः॥