ऊधसोऽनङ्

5-4-131 ऊधसः अनङ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Kashika

Up

index: 5.4.131 sutra: ऊधसोऽनङ्


ऊधस्शब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः। कुण्डम् इव ऊधः अस्याः सा कुण्दोध्नी। घटोध्नी। ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम्। इह मा भूत्, महोधाः पर्जन्यः। घटोधो धैनुकम्।

Siddhanta Kaumudi

Up

index: 5.4.131 sutra: ऊधसोऽनङ्


ऊधोन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाब् ङीब् निषेधेषु प्राप्तेषु ॥

Balamanorama

Up

index: 5.4.131 sutra: ऊधसोऽनङ्


ऊधसोऽनङ् - तत्र विशेषमाह — ऊधसोऽनङ् । बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुवीहावित्यनुवृत्तं षष्ठआ विपरिणम्यते, 'ऊधसः' इत्यनेन विशेष्यते, तदन्तविधिः । तदाह — ऊधोऽन्तस्येति । समासान्तप्रकरणस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्यम् । इत्यनङि कृते इति । अनङि ङकार इत्, अकार उच्चारणार्थः,ङिच्चे॑त्यन्त्यस्य सकारस्य अन्, पररूपम्, कुण्जोधन् इति स्थिते सतीत्यर्थः । डाब्डीब्निषेधेष्विति ।डाबुभाभ्या॑मिति वैकल्पिके डापि, 'अन उपधालोपिनः' इति वैकल्पिके ङीपि, तदुभयाऽभावे 'ऋन्नेभ्यः' इति प्राप्तस्य ङीपःअनो बहुव्रीहे॑रिति निषेधे च प्राप्ते इत्यर्थः ।