संख्याव्ययादेर्ङीप्

4-1-26 सङ्ख्याव्ययादेः ङीप् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् बहुव्रीहेः ऊधसः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य बहुव्रीहिसमासस्य उत्तरपदम् 'ऊधस्' इति शब्दः तथा च पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन, अव्ययवाचकशब्देन वा भवति, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।

Kashika

Up

पूर्वेण ङीषि प्राप्ते ङीब् विधीयते। संख्यादेरव्ययादेश्च बहुव्रीहेरूधःशब्दान्ताद् ङीष् प्रत्ययो भवति। संख्यादेस्तावत् — द्व्यूध्नी। त्र्यूध्नी। अव्ययादेः — अत्यूध्नी। निरूध्नी। आदिग्रहणं किम्? द्विविधोध्नी। त्रिविधोध्नीत्यत्रापि यथा स्यात्॥

Siddhanta Kaumudi

Up

ङीषोऽपवादः । द्व्यूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य बहुव्रीहिसमासस्य उत्तरपदम् ऊधस् (क्षीरशयः, udder) इति शब्दः विद्यते तथा च पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन, अव्ययवाचकशब्देन वा भवति, तत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । अत्र <<बहुव्रीहेरूधसो ङीष्>> 4.1.25 इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा ङीप्-प्रत्ययविधानार्थम् इदं सूत्रं रचितम् अस्ति । उदाहरणानि एतानि — 1. द्वे ऊधसी यस्याः अत्र द्व्यूध्नी इति अन्तिमम् रूपम् एतादृशं सिद्ध्यति — द्वे ऊधसी अस्याः सा → द्वि + ऊधस् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः] → द्वि + ऊध + अनङ् + ङीप् [<<ऊधसोऽनङ्>> 5.4.131 इति अनङ् (अन्) आदेशः । <<ङिच्च>> 1.1.53 इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> 4.1.25 इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा <<संख्याव्ययादेर्ङीप्>> 4.1.26 इति ङीप्-प्रत्ययः] → द्वि + ऊधन् + ई [<<अतो गुणे>> 6.1.97 इति पररूपैकादेशः] → द्वि + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → द्व्यूध्नी [<<इको यणचि>> 6.1.77 इति यणादेशः ।] 2. द्विविधे ऊधसी यस्याः अत्रापि पूर्वपदम् सङ्ख्यावाचकशब्देन (द्वि-इत्यनेन) प्रारभ्यते; अतः अत्रापि प्रकृतसूत्रेण ङीप्-प्रत्ययः एव भवति, येन द्विविधोध्नी इति शब्दः सिद्ध्यति — द्विविधे ऊधसी अस्याः सा → द्विविध + ऊधस् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः] → द्विविध + ऊध + अनङ् + ङीप् [<<ऊधसोऽनङ्>> 5.4.131 इति अनङ् (अन्) आदेशः । <<ङिच्च>> 1.1.53 इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> 4.1.25 इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा <<संख्याव्ययादेर्ङीप्>> 4.1.26 इति ङीप्-प्रत्ययः] → द्विविध + ऊधन् + ई [<<अतो गुणे>> 6.1.97 इति पररूपैकादेशः] → द्विविध + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → द्विविधोध्नी [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः ।] 3. अतिगतम् ऊधः अस्याः इत्यत्र पूर्वपदम् 'अति' इति अव्ययसंज्ञकम् अस्ति, अतः अत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन अत्यूध्नी इति शब्दः सिद्ध्यति — अतिगतम् ऊधः अस्याः → अति + ऊध [<<अनेकमन्यपदार्थे>> 2.2.24 इत्यत्र निर्दिष्टेन <!प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः!> इति वार्त्तिकेन बहुव्रीहिसमासः विधीयते, तथा च एतादृशे समासे 'गत' इत्यस्य लोपः भवति । → अति + ऊध + अनङ् + ङीप् [<<ऊधसोऽनङ्>> 5.4.131 इति अनङ् (अन्) आदेशः । <<ङिच्च>> 1.1.53 इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> 4.1.25 इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा <<संख्याव्ययादेर्ङीप्>> 4.1.26 इति ङीप्-प्रत्ययः] → अति + ऊधन् + ई [<<अतो गुणे>> 6.1.97 इति पररूपैकादेशः] → अति + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → अत्यूध्नी [<<इको यणचि>> 6.1.77 इति यणादेशः ।] 4. निर्गतम् ऊधः अस्याः इत्यत्र पूर्वपदम् 'निर्' इति अव्ययसंज्ञकम् अस्ति, अतः अत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन निरूध्नी इति शब्दः सिद्ध्यति — निर्गतम् ऊधः अस्याः → निर् + ऊध [<<अनेकमन्यपदार्थे>> 2.2.24 इत्यत्र निर्दिष्टेन <!प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः!> इति वार्त्तिकेन बहुव्रीहिसमासः विधीयते, तथा च एतादृशे समासे 'गत' इत्यस्य लोपः भवति । → निर् + ऊध + अनङ् + ङीप् [<<ऊधसोऽनङ्>> 5.4.131 इति अनङ् (अन्) आदेशः । <<ङिच्च>> 1.1.53 इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् <<बहुव्रीहेरूधसो ङीष्>> 4.1.25 इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा <<संख्याव्ययादेर्ङीप्>> 4.1.26 इति ङीप्-प्रत्ययः] → निर् + ऊधन् + ई [<<अतो गुणे>> 6.1.97 इति पररूपैकादेशः] → निर् + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः <<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → निरूध्नी सूत्रे आदिग्रहणस्य प्रयोजनम् प्रकृतसूत्रे विद्यमानः आदि इति शब्दः सङ्ख्या तथा च अव्ययम् इति उभाभ्यां सह अन्वेति । इत्युक्ते, यस्य बहुव्रीहिसमासस्य पूर्वपदम् सङ्ख्यादिः / अव्ययादिः वा अस्ति (beings with a सङ्ख्या or an अव्यय) तस्य विषये इदं सूत्रं प्रसज्यते । अतएव द्विविध, त्रिविध एतादृशाः शब्दाः पूर्वपदरूपेण सन्ति चेदपि प्रकृतसूत्रस्य प्रयोगः सम्भवति । यदि अस्मिन् सूत्रे आदि इति शब्दः न भवेत्, तर्हि तत्र केवलं तादृशस्य एव बहुव्रीहि समासस्य ग्रहणं स्यात् यत्र साक्षात् सङ्ख्यावाचकः अव्ययवाचकः शब्दः एव पूर्वपदरूपेण विद्येत । अतएव अत्र न्यासकारः स्पष्टी करोति — यदि आदिग्रहणं न क्रियेत, तदा संख्याव्ययाभ्याम् इति पञ्चमीनिर्देशात् संख्याया अनन्तरः य ऊधःशब्दः तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति । — न्यासः यद्यपि आदिग्रहणम् अव्ययम् इति शब्देन सह अपि अन्वेति, तथापि तस्य उदाहरणानि व्याख्यानेषु नैव दृश्यन्ते । तादृशानि उदाहरणानि भाषायां न हि भवन्ति इत्येव तस्य कारणम् । बाध्यबाधकभावः यस्य बहुव्रीहिसमास्य उत्तरपदम् ऊधस् इति शब्दः अस्ति, तस्य विषये स्त्रीत्वं द्योतयितुम् वस्तुतः <<बहुव्रीहेरूधसो ङीष्>> 4.1.25 इत्यनेन ङीष्-प्रत्ययः विधीयते । परन्तु यदि अस्य समासस्य पूर्वपदम् सङ्ख्यादिः, अव्ययादिः वा शब्दः अस्ति; तर्हि तं ङीष्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण तत्र ङीप्-प्रत्ययः एव भवति । प्रकृतसूत्रस्य उदाहरणेषु अन्-इत्यस्य अकारः लुप्यते, अतः अत्र (अग्रे वक्ष्यमाणेन) <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इत्यनेन ङीप्-प्रत्ययः वस्तुतः विकल्पेन प्राप्नोति; परन्तु प्रकृतसूत्रेण कृतं तस्य नित्यविधानम् एतादृशं वैकल्पिकं विधानम् अपि बाधते; अतः प्रकृतसूत्रेण निर्दिष्टेषु स्थलेषु नित्यः एव ङीप्-प्रत्ययः भवति ।

ङीप्/ङीष्-प्रत्यययोः भेदः ङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः <<अनुदात्तौ सुप्पितौ>> 3.1.4 इत्यनेन अनुदात्तसंज्ञकः अस्ति । ङीष्-प्रत्ययस्य ईकारः तु <<आद्युदात्तश्च>> 3.1.3 इत्यनेन उदात्तसंज्ञकः अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।

Balamanorama

Up

<<संख्याऽव्ययादेर्ङीप्>> - सङ्ख्याव्ययादेर्ङीप् । सङ्ख्याव्ययादेरूधोऽन्तात्स्त्रियां ङीप् स्यादित्यर्थः । ङीषोऽपवाद इति ।बहुव्रीहेरूधसो ङी॑षित्यस्यापवाद इत्यर्थः । स्वरे विशेषः । सङ्ख्यादेरुदाहरति — द्व्यूध्नीति । द्वे ऊधसी यस्या इति विग्रहः । बहुव्रीहेरित्येवेति ।बहुव्रीहे॑रित्यनुवर्तते एवेत्यर्थः । ऊधोऽतिक्रान्तेति ।अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासस्य अबहुव्रीहित्वान्न ङीप् । अत एव नानङ्, नापि ङीष् ।

Padamanjari

Up

पूर्वेण ङीषि प्राप्ते ङीब् विधीयत इति । यत्र पूर्वपदप्रकृतिस्वरस्तत्र बहुव्रीहौ । अन्तोदाते तु बहुव्रीहौ ङीब्ङीषोर्नास्ति विशेषः, सूध्नी,'नञ्सुभ्याम्' इत्यन्तोदातत्वम्, तत्राल्लोपे ङीबप्यदातनिवृतनिवृतस्वरेणोदातो भवति । द्व्यूध्नीत्यादि । द्वे ऊधसी यस्याः, अतिगतमूधोऽस्याः, निर्गतमूधोऽस्या इति विग्रहः । आदिग्रहणं किमिति । संख्याव्ययाभ्यामुतरो य ऊधः शब्दस्तदन्ताद्वबहुव्रीहेरिति विज्ञायमाने द्वयूध्नीत्यादि सिद्धमिति प्रश्नः । द्विविधोध्नीति । असत्यादिग्रहणे'संख्याव्ययाभ्याम्' इति पञ्चमीनिर्देशाताभ्यामनन्तरो य ऊधः -शब्दस्तदन्तादेव स्यात्, पदान्तरव्यवाये तु न स्यादिति भावः ॥