8-1-16 पदस्य
index: 8.1.16 sutra: पदस्य
पदस्य इत्ययमधिकारः प्रागपदान्ताधिकारात्। यदित ऊर्ध्वमनुक्रमिष्यामः पदस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति संयोगान्तस्य लोपः 8.2.23। पचन्। यजन्। पदस्य इति किम्? पचन्तौ। यजन्तौ। वक्ष्यमाणवाक्यापेक्षया पदस्य अधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्याः क्वचित् स्थानषष्ठी, क्वचिदवयवषष्ठी।
index: 8.1.16 sutra: पदस्य
index: 8.1.16 sutra: पदस्य
प्रागपदान्ताधिकारादिति । ठपदान्तस्य मूर्द्धन्यःऽ इत्यत्र तु प्रकरणे विरोध्युपादानान्नादिक्रियते । पचन्तौ, यजन्ताविति । संयोगान्तस्थेऽपि लोपो न भवति । एवं राजानावित्यत्र नलोपो न भवति, प्रशामावित्यादौ'मो नो धातोः' इति नत्वं न भवति । अनन्तरेषु योगष्वामन्त्रितादेः सुबन्तस्य तिङ्न्तस्य च पदस्यैव कार्यविधानातेषामुल्लङ्घनम् । न च समर्थपरिभाषोपस्थानंम तेषु प्रयोजनम्, अनन्तरेणाप्येतं वस्तुतः पदकार्यत्वादेव सिद्धेः । किञ्च -'समानवाक्ये निघातयुष्मपदस्मादादेशाः' इति वक्ष्यते । कुत्वादीनि त्ववयवस्य भत्वेऽपि समुदायस्य पदत्वाश्रयेणेष्यन्त एव - वक्तरि, दोग्धरीति । तस्मान्न भसंज्ञकव्यावृत्तिरपि प्रयोजनम् ।'षष्ठी स्थानेयोगा' इति वचनात्'पदस्य' इति स्थानषष्ठी, ततश्च ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ इत्यस्यायमर्थो भवति - उदातस्वरितयोर्योयण् ततः परो योऽनुदातस्तदन्तस्य पदस्य स्वरितत्वमलोऽन्त्यस्य भवतीति । ततश्चात्रैव स्यात् - कुमार्याविति; कुमार्य इत्यत्र न स्यात्, सकारो ह्यत्र पदस्यान्तः, हल्स्वरप्राप्तौ च व्यञ्जनमविद्यमानवद्भवति । एवम् ठेकादेश उदातेनोदातःऽ इत्यत्रापि अयमर्थो भवति - उदातानुदातयोर्य एकदेशस्तदन्तस्य पदस्यालोन्त्यस्यादेशो भवतीति । तदश्चेहैव स्यात् - वृक्षाविति; वृक्षानित्यत्र न स्यात्, नकारो ह्यत्र पदस्यान्त्यः ? - इत्याशङ्क्याह - वक्ष्यमाणवाक्यापेक्षयेति । अमयभिप्रायः - अधिकारोऽयं परार्थः, परिभाषापि परार्था, ततश्च'गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्' इति न्यायेन नात्र स्थानेयोगपरिभाषोपतिष्ठते । यत्र त्वस्या अधिकारो वक्ष्यमाणेषु वाक्येषु तेत्वेवोपस्थानम्, तत्र विशेषणविशेष्यभावे कामचाराद्यणेकादेशस्वरयोः'पदस्य' इत्यनुवृतं कार्यिविशेषणार्थम्, न तु कार्यप्रतिपत्यर्थम् । तेन पदावयवयोरनुदातैकादेशयोः स्वरविधानादनन्त्ययोरपि भवति । संयोगान्तलएपादौ तु संयोगादिना पदस्य विशेषणात् स्थानषष्ठी, तस्माद्वक्ष्यमाणानि वाक्यान्यपेक्ष्य पर्यालोच्य पदस्येति षष्ठ।ल अर्थो व्यवस्थाप्यः, न त्वेतत्सूत्रपर्यालोचनयेति । व्यवस्थामेव दर्शयति - क्वचिदिति । यद्येषा स्थानषष्ठ।लेव स्यात्'नलोपः प्रातिपदिकान्तस्य' इत्यत्रान्तग्रहणमनर्थकं स्यात् । तद्धि पदान्तस्य यथा स्यात्, पदावयवस्य मा भूदित्येवमर्थम् । स्थानषष्ठ।लं तु ठलोन्त्यस्यऽ इत्यस्य सिद्धत्वादन्तग्रहणमनर्थकं स्यात् । तस्मादन्तग्रहणात् क्वचिद्विशेषणषष्ठ।ल्पि विज्ञायते ॥