इन्धिभवतिभ्यां च

1-2-6 इन्धिभवतिभ्यां च लिट् कित्

Kashika

Up

index: 1.2.6 sutra: इन्धिभवतिभ्यां च


'इन्धि', 'भवति' इत्येताभ्यां परो लिट् प्रत्ययः किद् भवति । समीधे दस्यु हन्तमम् (ऋग्वेदः 6.16.15), पुत्र ईधे अथर्वणः (ऋग्वेदः 6.16.14) । भवतेः खल्वपि - बभूव, बभूविथ । इन्धेः संयोगर्थं ग्रहणम् ; भवतेः पिदर्थम् ; अत्रेष्टिः । <!श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् !> - श्रेथतुः, श्रेथुः ; ग्रेथतुः, ग्रेथुः ; देभतुः, देभुः ; परिषस्वजे, परिषस्वजाते ॥

Siddhanta Kaumudi

Up

index: 1.2.6 sutra: इन्धिभवतिभ्यां च


आभ्यां परोऽपिल्लिट् कित् स्यात् । समीधे दस्युहन्तमम् (समी॑धे दस्यु॒हन्त॑मम्) । पुत्र ईधे अथर्वणः (पु॒त्र ई॑धे॒ अथ॑र्वणः) । बभूव । इदं प्रत्याख्यातम् । ।<!इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति !> (वार्तिकम्) ॥

Padamanjari

Up

index: 1.2.6 sutra: इन्धिभवतिभ्यां च


इन्धेरगन्तुक इकारो न तु ऽइक्श्तिपौ धातुनिर्देशेऽ इतीक् प्रत्ययः, तेन ऽअनिदिताम्ऽ इति नलोपो न भवति । समीध इति । ऽञिङ्न्धी दीप्तौऽ अनुदातेत्, एशः कित्वाद् ऽअनिदिताम्ऽ इत्युपधालोपद्विर्वचने सवर्णदीर्घत्वम् । बभूविव, बभूविथेति । कित्वाद्यथाक्रमं वृद्धिगुणौ न भवतः । इन्धेः संयोगार्थमित्यादिना पूर्वणासिद्धं दर्शयन् सूत्रारम्भं समर्थयते । अयं योगः शक्योऽवक्तुम्, कथम् ? इन्धेरनन्तरश्च्छन्दस्येव लिड् भवति, भाषायां त्विजादेश्चेत्यामा भवितव्यम्, च्छन्दसि च ऽच्छन्दस्युभयथाऽ इति लिटः सार्वधातुकसंज्ञा, ऽसार्वधातुकमपित्ऽ इति ङित्वादुपिधालोपः । श्नमि तु कर्तव्य आर्धधतुकसंज्ञा, छान्दसत्वाद्वा श्नमभावः । भवतेरपि ऽभुवो वुग्लुङ्लिटोःऽ इति वुग्विधीयते, तत्र भूअ, भूइथ इति स्थिते वुक् प्राप्नोति, वृद्धिगुणौ च; कृताकृतपसङ्गित्वेन नित्यो वुक्, नच शब्दान्तरप्राप्तः, एकदेशविकृतस्यानन्यत्वाद्; वुकि च कृतेऽनजन्तत्वादलघूपधत्वाच्च वृद्धिगुणौ न भविष्यतः । अवश्यं चैतदेवं विज्ञेयम्-ऽवुका वृद्धिगुणौ बाध्येतेऽ इति । यो हि मन्यते-ऽकित्वादिमे गुणवृद्धेः किति नेति प्रतिषेधः, अनिग्लक्षणत्वात् । एवं तर्हि ज्ञापकार्थमिन्धिग्रहणम्, एतज्, ज्ञापयति-ऽइन्धेर्भाषायामप्यनित्य आम्ऽ इति, समीधे समीधाञ्चक्र इति भाषायामपि भवति । भवतेरपि वुगनित्यः, किं कारणम् ? उरिति वर्तते, न च गुणवृद्ध्योः कृतयोरुवर्णान्तो भवतिर्भवति; उरिति निवर्तिष्यते ? यदि विवर्तते; बोभाव, अहं किल बोभव-यङ्लुक्यपि नित्यत्वाद् वुक् प्राप्नोति । अनुवर्तमाने पुनरुरित्यस्मिन् उभयोरनित्ययोः परत्वाद् गुणवृद्ध्योः कृतयोरनुवर्णान्तत्वाद् वुङ्न भवति । अथेदानीं यङ्लुक्यप्यनेनैव लिटः कित्वं कस्मान्न भवति ? श्तिपा निर्देअषशात् । यदि पुनर्वुग्विधावेव श्तिपा निर्देशः क्रियते ? नैवं शक्यम्; इह हि दोषः स्याद्-बोभूवत्;, बोभूवुः । यदा पुनः कित्वविधौ श्तिपा निर्देशः क्रियते, न वुग्विधौ; तदा यङ्लुकि पित्सु वचनेषु लिटः कित्वाभावाद् गुणवृद्ध्योः कृतयोरुरित्यधिकाराद् वुङ्न भवति । अपित्सु वचनेषु ऽअसंयोगाल्लिट् कित्ऽ इति कित्वे सति गुणाभावादुवर्णान्तत्वाद्वुग् भवति । ननु चोक्रम् - ऽआरभ्यमाणेऽपि कित्वे वृद्धेः प्रतिषेधो न सिद्ध्यति, अग्निलक्षणत्वाद्ऽ इति, नैष दोषः; ङ्द्ग्रिहणमप्यनुवर्तते, तत्सामर्थ्यादनग्लिक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति, सत्यम्; अस्त्यं शुष्कस्तर्कः । वार्तिककारस्तु न क्षमते, यदाह-ऽइन्धेश्च्छन्दो विषयत्वाद् भुवो वुको नित्यत्वाताभ्यां लिटः किद्वचनानर्थक्यम्ऽ इति । श्रन्थिग्रन्थीत्यादि । ऽश्रन्थ ग्रन्थ संदर्भेऽ, ऽदम्बु दम्भेऽऽष्वञ्ज पिरष्वङ्गेऽ । श्रेथतु;, श्रेथुरिति कित्वादुपधालोपः, एत्वाभ्यासलोपावप्यत्र वक्तवायौ । देभतुरिति । नलोपे कृते ऽअत एकहल्मध्येऽनादेशादेःऽ इत्येत्वाभ्यासलोपौ । न च लोपस्या सिद्धत्वम्, आभाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वात् । परिषस्वज इति । ऽष्वञ्जपरिष्वङ्गेऽ, अनुदातेत्,ऽउपसर्गात्सुनोतिऽ इति षत्वम् ऽसदिस्वञ्ज्योः परस्य लिटिऽ इति परस्य प्रतिषेधः । अत्र केचिद्वेति पठन्ति, शश्रन्थतुरित्याद्यपि भवति । अथ पित्सु वचनेषु कथम् ? यदि संयोगार्थमेव वचनम्, पित्सु न भाव्यम् । अथ संयोगान्तार्थं पिदर्थं च ? पित्स्वपि भाव्यम् । किं पुनरत्रार्थतत्वं देवो ज्ञातुमर्हति ॥