Home
Prev 6.1.126
Next 6.1.128
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च 6-1-127 इकः असवर्णे शाकल्यस्य ह्रस्वः च संहितायाम् प्रकृत्या अचि नित्यम्
Sampurna sutra Up
इकः पदान्तात् असवर्णे अचि प्रकृत्या ह्रस्वः च
Neelesh Sanskrit Brief Up
पदान्त-इक्-वर्णस्य असवर्णे अचि परे संहितायाम् शाकल्यस्य मतेन ह्रस्वादेशः भवति, तदनन्तरं च सन्धिकार्यं न भवति ।
Neelesh English Brief Up
According to शाकल्य, In the context of संहिता a पदान्त-इक्-letter, when followed by an असवर्ण अच्-letter undergoes ह्रस्वादेशः and then no other sandhi happens.
Kashika Up
इकोऽसवर्णेऽचि परतः शाकल्यस्याचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्येकः स्थाने भवति। दधि अत्र, दध्यत्र। मधु अत्र, मध्वत्र। कुमारि अत्र, कुमार्यत्र। किशोरि अत्र, किशोर्यत्र। इक इति किम् ? खट्वेन्द्रः। असवर्ण इति किम् ? कुमारीन्द्रः। शाकल्यस्य ग्रहणं पूजार्थम्। आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः॥ सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्त व्यः॥ सिति — अ॒यं ते॒ योनि॑॑र्ऋ॒त्वियः॒ (ऋ॰ ३.२९.१०)। नित्यसमासे — व्याकरणम्। कुमार्यर्थम्॥ ईषाअक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्त व्यर्म्॥ इ॒षा अक्षा॑े॑ हिर॒ण्ययः॑ (ऋ० ८.५.२९)। का ई॑मरे पिशङ्गि॒ला (मा॰ सं॰ २३.५५)। पथा अगमन्॥
Siddhanta Kaumudi Up
पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् । चक्रि अत्र । चक्र्यत्र । पदान्ताः इति किम् । गौर्यौ ।<!न समासे !> (वार्तिकम्) ॥ वाप्यश्वः ।<!सिति च !> (वार्तिकम्) ॥ पार्श्वम् ॥
Laghu Siddhanta Kaumudi Up
पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्र्यत्र। पदान्ता इति किम्? गौर्यौ -
Neelesh Sanskrit Detailed Up
पदस्य अन्ते विद्यमानस्य इक्-वर्णस्य असवर्णे अच्-वर्णे परे <<इको यणचि>> 6.1.77 इत्यनेन यणादेशे प्राप्ते; तद्बाधित्वा शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) ह्रस्वादेशः, प्रकृतिभावः च भवति ।
यथा - चक्री अत्र इत्यत्र प्रकृतसूत्रेण ह्रस्वादेशं प्रकृतिभावम् च कृत्वा चक्रि अत्र इति सिद्ध्यति । अत्र पुनः अग्रे यणादेशः न भवति । पक्षे, चक्री अत्र इत्यत्रैव <<इको यणचि>> 6.1.77 इत्यनेन यणादेशे कृते चक्र्यत्र इत्यपि रूपं सिद्ध्यति ।
दलकृत्यम्
1. पदान्तस्य इति किमर्थम् ? यत्र अपदान्तः इक्-वर्णः अस्ति तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा,
नदी + औ → नद्यौ इत्यत्र नदीशब्दस्य पदसंज्ञायाः अभावे ह्रस्वादेशः अपि न भवति, केवलम् यणादेशं कृत्वा रूपं सिद्ध्यति ।
2. असवर्णे इति किमर्थम् ? पदान्त-इक्-वर्णात् सवर्णे इक्-वर्णे परे प्रकृतसूत्रं नैव प्रवर्तते । यथा,
नदी + इयम् → नदीयम् इत्यत्र केवलं सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति ।
3. ह्रस्वश्च इत्यत्र चकारः किमर्थम् ? ह्रस्वादेशः भवति, ततः प्रकृतिभावः अपि भवति इति दर्शयितुम् अत्र सूत्रे चकारः स्थापितः अस्ति । वस्तुतस्तु अत्ह्रर स्वादेशसामर्थ्याद् एव प्रकृतिभावः अपि सिद्ध्यति, यतः ह्रस्वादेशात् अनन्तरम् यणादेशः क्रियते चेत् ह्रस्वादेशः व्यर्थः एव स्यात् । अतः ह्रस्वादेशेनैव प्रकृतिभावे अपि सिद्धे चकारग्रहणम् अस्मिन् सूत्रे अनावश्यकम् ।
4. शाकल्यग्रहणम् विकल्पार्थम् उत पूजार्थम् ? इक्-वर्णात् असवर्णे अच्-वर्णे परे <<इको यणचि>>
6.1.77 इत्यनेन यणादेशे प्राप्ते; प्रकृतसूत्रेण पदान्त-इक्-वर्णस्य विषये ह्रस्वादेशः उच्यते । अतः अस्मिन् सूत्रे यदि शाकल्यग्रहणम् नैव क्रियते, तर्हि अत्र इदं सूत्रम् पदान्त-इक्-वर्णस्य विषये <<इको यणचि>>
6.1.77 इति सूत्रम् नित्यं बाधेत । तादृशं मा भूत् अतः अस्मिन् सूत्रे शाकल्यग्रहणम् कृतम् अस्ति । शाकल्यमुनेः नाम उक्त्वा 'तन्मतेन' (इत्युक्ते विकल्पेन) इदं सूत्रं प्रवर्तते, इति पाणिनेः आशयः । पूजार्थम् (to show respect / to give credit) ग्रहणम् कृतम् अस्ति इत्यत्र तु नैव कश्चन संदेहः । परन्तु विकल्पार्थम् अपि कृतम् अस्ति इति विशेषः ।
काशिकायाम् अत्र — शाकल्यस्य ग्रहणं पूजार्थम्, आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः — इति उच्यते । एतत् तु चिन्त्यमेव, यतः यणादेशः अपदान्त-इक्-वर्णस्य विषये चारितार्थ्यं प्राप्य पदान्त-इक्-वर्णस्य विषये अवश्यं बाधं स्वीकुर्यात् ।
बाध्यबाधकभावः
<<प्लुतप्रगृह्या अचि नित्यम्>>
6.1.125 इति सूत्रेण प्रकृतसूत्रम् नित्यम् बाध्यते । इत्युक्ते, यत्र <<प्लुतप्रगृह्या अचि नित्यम्>>
6.1.125 इत्यस्य प्रसक्तिः अस्ति तत्र प्रकृतसूत्रम् नैव प्रवर्तते । अतएव
मुनी एतौ इत्यत्र प्रकृतसूत्रेण ह्रस्वादेशः न भवति, अपि च <<प्लुतप्रगृह्या अचि नित्यम्>>
6.1.125 इत्यनेन नित्यम् प्रकृतिभावः एव विधीयते ।
वार्त्तिकद्वयम्
<! 1. सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः!>
सित्-प्रत्यये परे, तथा च समासे प्रकृतसूत्रस्य प्रयोगः न भवति — इति अस्य वार्त्तिकस्य अर्थः ।
यद्यपि अत्र वार्त्तिके 'नित्यसमास' इति निर्देशः कृतः अस्ति, तथापि सः अंशः भाष्यकारेण प्रत्याख्यातः अस्ति । नित्येषु अनित्येषु च समासेषु प्रकृतसूत्रस्य प्रयोगः नैव भवति, इति अत्र भाष्यकारस्य आशयः वर्तते।
क्रमेण उदाहरणे एते —
1.1) सित्-प्रत्यये परे प्रकृतसूत्रस्य निषेधः —
यस्याः प्रकृतेः सित्-प्रत्ययः विधीयते, तस्याः <<सिति च>> 1.4.16 इति सूत्रेण पदसंज्ञा भवति । अतः एतादृशः सित्-प्रत्ययः यदि अजादिः अस्ति, तर्हि तत्र प्रकृतसूत्रेण विकल्पेन ह्रस्वादेशः प्रकृतिभावश्च प्राप्नोति । अस्य ह्रस्वादेशस्य, प्रकृतिभावस्य च निषेधं कर्तुम् इदं वार्त्तिकम् पाठ्यते । सित्-प्रत्यये परे प्रकृतसूत्रस्य प्रयोगः न भवति, इति अस्य वार्त्तिकस्य आशयः । अस्य द्वे उदाहरणे एतादृशे —
i) <<ब्राह्मणमाणववाडवाद्यन्>> 4.2.42 अस्मिन् सूत्रे पाठितेन <! पर्श्वा णस् वक्तव्यः !> इति वार्त्तिकेन पर्शु -शब्दात् णस्-प्रत्ययः भवति । अयम् सित्-प्रत्ययः अस्ति, अयम् अजादिः अपि अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतसूत्रेण प्राप्तः वैकल्पिकः ह्रस्वादेशः प्रकृतिभावश्च <!सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्य!> इति वार्त्तिकेन निषिध्यते । प्रक्रिया इयम् —
पर्शूनां समूहः
= पर्शु + णस् [<! पर्श्वा णस् वक्तव्यः !> इति वार्त्तिकेन पर्शु-शब्दात् णस्-प्रत्ययः]
→ पर्शु + अ [इत्संज्ञालोपः । अत्र सकारस्यापि इत्संज्ञा अस्तीति स्मर्तव्यम् ]
→ पार्शु + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः । ]
→ पार्श्व [<<सिति च>> 1.4.16 इत्यनेन प्रकृतेः पदसंज्ञायां सत्याम् पदान्त-उकारस्य अच्-वर्णे परे प्रकृतसूत्रेण निर्दिष्टः ह्रस्वादेशः प्रकृतिभावः च <! सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन निषिध्यते । अतः अत्र <<इको यणचि>> इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
ii) 'ऋतु' शब्दात् वेदेषु 'अस्य प्राप्तम्' अस्मिन् अर्थे <<छन्दसि घस्>> 5.1.106 इति सूत्रेण घस्-प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति । अयम् प्रत्ययः अजादिः अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतसूत्रेण प्राप्तः वैकल्पिकः ह्रस्वादेशः प्रकृतिभावश्च <!सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्य!> इति वार्त्तिकेन निषिध्यते । प्रक्रिया इयम् —
ऋतुः अस्य प्राप्तः
ऋतु + घस् [<<छन्दसि घस्>> 5.1.106 इति घस्]]
→ ऋतु + इय [<<आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय-आदेशः]
→ ऋत्विय [<<सिति च>> 1.4.16 इत्यनेन प्रकृतेः पदसंज्ञायां सत्याम् पदान्त-उकारस्य अच्-वर्णे परे प्रकृतसूत्रेण निर्दिष्टः ह्रस्वादेशः प्रकृतिभावः च <! सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन निषिध्यते । अतः अत्र <<इको यणचि>> इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
1.2) समासे प्रकृतसूत्रस्य निषेधः —
यत्र समस्तपदस्य पूर्वपदम् इगन्तम् अस्ति, उत्तरपदस्य आदौ च असवर्णः स्वरः विद्यते, तत्र प्रकृतसूत्रेण ह्रस्वादेशे, प्रकृतिभावे च प्राप्ते <! सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन सः निषिध्यते । अस्य कानिचन उदाहरणानि अधः दत्तानि सन्ति । तत्र आदिस्थे द्वे उदाहरणे नित्यसमासस्य विषये स्तः, अग्रिमे द्वे उदाहरणे अनित्यसमास्य विषये स्तः ।
i) व्याक्रियते अनेन इति → वि + आ + कृ + ल्युट् → वि + आ + कृ + अन → व्याकरण । अत्र कृ-धातोः ऋकारस्य अकारे परे प्रकृतिभावः न भवति ।
ii) कुमार्यै इति → कुमारी + अर्थम् → कुमार्यर्थम् । अत्र ईकारस्य अकारे परे ह्रस्वः प्रकृतिभावः च न भवति ।
iii) वाप्याम् अश्वः → वापी + अश्वः → वाप्यश्वः । अत्र ईकारस्य अकारे परे ह्रस्वः प्रकृतिभावः च न भवति ।
iv) नद्याम् आतिः → नदी + आतिः → नद्यातिः । अत्र ईकारस्य आकारे परे ह्रस्वः प्रकृतिभावः च न भवति ।
<! 2. ईषाअक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्तव्यम्!>
सिद्धान्तकौमुद्याम् इदं वार्त्तिकम् <<आङोऽनुनासिकश्छन्दसि>> 6.1.126 इत्यत्र पाठितम् अस्ति ।
वेदेषु —
ईशा अक्ष ,
का ईर्मिरे ,
यथा अङ्गदः ,
पथा अगमन् ,
ज्या इयम् ,
पूषा अविष्टु —एतादृशेषु केषुचित् प्रयोगेषु संहितायाम् सत्याम् अपि प्रकृतिभावः कृतः दृश्यते । एतेषाम् सर्वेषाम् शब्दानाम् साधुत्वार्थम् वार्त्तिककारेण इदं वार्त्तिकम् पाठितम् अस्ति । एतेषु सर्वेषु शब्देषु ह्रस्वादेशः न भवति परन्तु प्रकृतिभावः अवश्यं भवति, इति अस्य वार्त्तिकस्य अर्थः ।
Balamanorama Up
<<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> - भाष्यकारमतमाह — अत्र ह्रस्वेति । अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात् । नच विहितस्य ह्रस्वस्य यण्निवृत्त्यर्थः स इति वाच्यं, ह्रस्वविधिसामर्थ्यादेव यणो निवृत्तिसिद्धेः । अन्यथा यणमेव विदध्यात् । अतः प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः । चक्रि-अत्रेति ह्रस्वमनुच्चितप्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्र्यत्रेति रूपम् । नचात्र ककारस्यस्कोः संयोगाद्यो॑रिति लोपः शङ्क्यः,अचः परस्मि॑न्निति यणः स्थानिवत्त्वेनाऽच्त्वेन पदान्तसंयोगाऽभावात् । नचपूर्वत्रासिद्धे न स्थानिव॑दिति तन्निषेधः शङ्क्यः,तस्य दोषः संयोगादिलोपलत्वणत्वे॑ष्विति वचनात् । न समासे । वार्तिकमेतत् । समासे उक्तशाकलविधिर्न भवतीत्यर्थः । वाप्यआ इति । वाप्यामआ इति विग्रहः । शौण्डादेराकृतिगणत्वात्सुप्सुपेति वा समासः ।सिति च । सकार इद्यस्य स सित्, तस्मिन् परे उक्तः शाकलविधिर्न भवतीत्यर्थः । पार्ामिति । पर्शु=पार्ाआस्थि । पर्शूनां समूहः पार्ाम् ।पर्ाआ णस् वक्तव्यः॑ इति णस् । आदिवृद्धिः । यणादेशः । अत्र पार्शु-अ इति स्थिते उक्तः शाकलो विधिर्न भवति । ओर्गुणस्तु न, भस्यैव तद्विधानात्,सिति चे॑ति पदत्वेन भत्वबाधात् ।अचो ञ्णिती॑ति वृद्धिरपि न भवति, आदिवृद्ध्या तद्बाधात् । तथाच मूलकारो वक्ष्यति-॒आदिवृद्धिरन्त्योपधावृद्धी बाधते॑ इति । अत्र सिन्नित्यसमासयोः शाकलप्रतिषेधः॑ इति वार्तिकं, तदिह द्विधा विभज्य व्याख्यातम् । नचैव सति वोप्यआ इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिकत्वादिति वाच्यम्, भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात् ।
Padamanjari Up
किमर्थश्चकारः, प्रकृत्येत्येतदनुकृष्यतेऽनेन ? ननु च ह्रस्वविधानसामर्थ्यादेव स्वरसन्धिर्न भविष्यति ? भवेद्दीर्घाणां ह्रस्ववचनसामर्थ्यादेव स्वरसन्धिर्न स्यादिति ह्रस्वानां तु प्राप्नोति। न हि ह्रस्वानां ह्रस्वो भवति; प्रयोजनाभावात्। अस्ति प्रयोजनम् -स्वरसन्धिर्मा भूदिति? इदं तर्हि प्रयोजनम् - प्रकृतिभावमात्रं क्वचिद्यथा स्यादिति, तेनेषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रं सिद्धं भवति। शाकल्यग्रहणं पूजार्थमिति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह -आरम्भसामर्थ्यादेवेति। सवर्णेऽचि दीर्घविधानाद्यणादेशस्यासवर्ण एवाज्विषयः, अस्यापि विधेः स एव विषयः, ततश्च विषयैक्यादेव विकल्पे सिद्धे न तदर्थक माचार्यग्रहणम् । सिन्नित्यसमासयोरिति। नित्याधिकारविहितोऽस्वपदविग्रहश्च समासो नित्यसमासः, एकापि सप्तमी विषयभेदाद्भिद्यते, सिति परतो नित्यसमासे च विषय इति, शाक्ल्यस्यायां विधिः शाकलः,'कण्वादिभ्यो गोत्रे' इत्यण्। ऋत्विय इति। ऋतुरस्य प्राप्त इति ठृतोरण्ऽ,'च्छन्दसि घस्' । व्याकरणमिति।'कुगतिप्रादय' इति समासः, तत्र'नित्यम्' इत्यनुवर्तते। कुमार्यथमिति। कुमार्यै इदं कुमार्यर्थम्, अस्वपदविग्रहोऽयं नित्यसमासः ॥