7-1-39 सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः छन्दसि
छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या याच् आल् इत्येत आदेशा भवन्ति। सु — अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्थाः॒ (ऋ० १०.८५.२३)। पन्थान इति प्राप्ते॥ सुपां सुपो भवन्तीति वक्तव्यम्॥ धु॒रि दक्षि॑णायाः (ऋ०१.१६४.९)। दक्षिणायामिति प्राप्ते ॥ तिङां तिङो भवन्तीति वक्तव्यम्॥ च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति (ऋ०१.१६२.६)। तक्षन्तीति प्राप्ते। लुक् — आ॒र्देर् चर्म॒न् (तै०सं० ७.५.९.३)। लोहिते चर्मन् (काठ०सं० २४.२)। चर्मणीति प्राप्ते। हविर्धाने यत् सुन्वन्ति तत् सामिधेनीरन्वाह। यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीरिति प्राप्ते। पूर्वसवर्णः — धी॒ती (ऋ० १.१६४.८)। म॒ती (ऋ० १.८२.२)। सुष्टु॒ती (ऋ० २.३२.४)। धीत्या मत्या सुष्टुत्येति प्राप्ते। आ — द्वा य॒न्तारा॑ (तै०सं०४.६.९.३)। द्वौ यन्तारौ इति प्राप्ते। आत् — न ताद् ब्राह्मणाद् निन्दामि । न तान् ब्राह्मणानिति प्राप्ते। शे — न यु॒ष्मे वा॑जबन्धवः (ऋ०८.६८.१९)। अ॒स्मे इ॑न्द्राबृहस्पती (ऋ० ४.४९.४)। यूयं वयमिति प्राप्ते। यूयादेशो वयादेशश्च छान्दसत्वाद् न भवति। या — उ॒रु॒या॑ (मै०सं०२.७.८)। धृष्णु॒या (ऋ० १.२३.११)। उरुणा धृष्णुनेति प्राप्ते। डा — नाभा॑ पृथि॒व्याम्(शौ०सं०७.६२.१) । नाभौ पृथिव्यामिति प्राप्ते। ड्या — अनुष्ट्या च्यावयतात्। अनुष्टुभेति प्राप्ते। याच् — साधु॒या (ऋ० १०.६६.१२)। साध्विति सोर्लुकि प्राप्ते। आल् — व॒स॑न्ता॒ यजेत (मै०सं० २.१.४)। वसन्त इति प्राप्ते ॥ इयाडियाजीकाराणामुपसंख्यानम्॥ इया — उर्वि॒या परि॑ ख्यन्(ऋ० १०.१०.२)। दार्विया परिज्मन्। उरुणा, दारुणेति प्राप्ते। डियाच् — सु॒क्षे॒त्रि॒या (ऋ०१.९७.२), सुगात्रिया। सुक्षेत्रिणा सुगात्रिणेति प्राप्ते। ईकारः — दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् (ऋ०७.१०.३.२)। सरसि शयानमिति प्राप्ते॥ आङयाजयारामुपसंख्यानम्॥ आङ् — प्र बा॒हवा॑ (ऋ० २.३.८.२)। प्रबाहुनेति प्राप्ते। अयाच् — स्वप्न॒या स॑चसे॒ जन॑म् (शौ० सं० ५.७.८)। स्वप्नेनेति प्राप्ते। अयार् — सिन्धु॑मिव ना॒वया (ऋ० १.९७.८)। नावेति प्राप्ते॥
ऋजवः सन्तु पन्थाः पन्थान (ऋ॒जवः॑ सन्तु॒ पन्थाः॑ पन्थान) इति प्राप्ते सुः । परमे व्योमन् (पर॒मे व्यो॑मन्) । व्योमनि इति प्राप्ते ङेर्लुक् । धीती मती सुष्टुती (धी॒ती म॒ती सु॑ष्टु॒ती) । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घ । या सुरथा रथीतमोभा देवा दिविस्पृशा (या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑) । अश्विना (अ॒श्विना॒) । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताह्ब्रह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा (या दे॒व वि॒द्म ता त्वा॑) । यमिति प्राप्ते न युष्मे वाजबन्धवः (न यु॒ष्मे वा॑जबन्धवः) । अस्मे इन्द्राबृहस्पती (अ॒स्मे इ॑न्द्राबृहस्पती) । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा॑ पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा व्यवस्थावदङ् । आङो ड्या । साधुया (साधु॒या) । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल् ।<!ईयाडियाजीकाराणामुपसंख्यानम् !> (वार्तिकम्) ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया (सु॒क्षे॒त्रि॒या) । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् (दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम्) । ङेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ।<!आङ्याजयारामुपसंख्यानम् !> (वार्तिकम्) ॥ प्र बाहवा सिसृतम् (प्र बा॒हवा॑ सिसृतम्) । बाहुनेति प्राप्ते आङादेशः । घेर्ङिति-<{SK245}> इति गुणः । स्वप्नया । स्वप्नेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया (स नः॒ सिन्धु॑मिव ना॒वया॑) । नावेति प्राप्ते अयार् । रित्स्वरः ॥
सुशब्द आदेश उच्यमाने अन्ये सुपो न प्राप्नुवन्ति, तस्मात् सुग्रहणमपनीय सुड्ग्रहणं कर्तव्यमित्याह - सुपां सुप इति । तिङं तिङ् इति । एतच्च व्यात्ययो बहुलम् इति सिद्धम् । सुपां सुप इत्ययमपि तस्यैव प्रपञ्चः । तक्ष्ण्वन्तीति प्राप्त तु युक्तः पाठः । आद्रे चर्मन्निति । ननु च पूर्वसवर्णेनाप्येतत्सिद्धम्, कथम् चर्मन् - इ इति स्थिते इकारस्य पूर्वसवर्णो नकारः, तत्र परतः स्वादिषु इति पदसंज्ञायां सत्यां पूर्वस्य नकारस्य लोपः, तत्रायमप्यर्थः - न ङसिम्बुद्ध्योः इत्यत्र ङ्ग्रिहणं न कर्तव्यं भवति, अप्रातिपदिकत्वादेव विभक्तिनकारस्य लोपाप्रसङ्गात्, पूर्वस्य तु नकारस्येष्ट एव लोपः नैतदस्ति अत्र हि पूर्वसवर्णो भवन्नान्तर्यतो निरनुनासिकस्य निरनुनासिको दकार एव स्यात् । अस्तु, संयोगान्तलोपो भविष्यति नात्र संयोगान्तलोपः प्राप्नोति, स्वादिषु इति पदसंज्ञायां सत्यां पूर्वनकारस्य लोपे सति असंयोगान्तत्वात् । नलोपो हि संयोगान्तलोपे सिद्धः । एवं तर्हि न ङसिम्बुद्ध्योः इत्यत्र ङ्ग्रिहणं करिष्यते, तत्र नलोपाभावे संयोगान्तलोपः तदेवमस्यान्यथासिद्धत्वादुदाहरणान्तरमाह - हविर्द्धाने यत्सुन्वन्तीति । यत् - इ इति स्थिते अत्र यदि पूर्वसवर्णो दकारः स्यात्यदाद्यत्वे सति स्थानिवद्भावात्स्मिन्भावः प्राप्नोति । तस्मादत्र लुगेव कर्तव्यः । अनेकाल्षु च भ्यामादिषु अन्त्यस्य पूर्वसवर्णे पूर्वभाग्य श्रवणाप्रसङ्गः, तस्मातत्रापि लुगेव कर्तव्यः । धीतीत्यादि । धीति -मति - सुष्टुअतिशब्देभ्यस्तृतीयेकवचनस्य पूर्वसवर्ण इकारः, कवर्णदीर्घत्वम् । न तादू ब्राह्मणादिति । तच्छब्दाद् ब्राह्मणशब्दाच्च शस्, तस्यादादेशः, न विभक्तौ तुस्माः इति इत्संज्ञाप्रतिषेधः । या देव विप्नतात् त्वा महान्तम् इति बह्वचाः । यूयं वयमिति प्राप्त इति । प्रमादपाठोऽयम्, तथा हि - न युष्मे बाजबन्धवः इत्यत्र मन्त्रे ऋक्षाश्वमेधनाम्नो राज्ञोर्दानं स्तूयते, व्यत्ययेन द्वयोर्बहुवचनम्, बाजमित्यन्ननाम, अन्नप्रदानेन सर्वेषां बन्धवस्तेषां सम्बोधनं हे बाजबन्धवः । युष्माअ युषमासु अधीत्यस्यानेन सम्बन्धः, सच सप्तम्यर्थातनुवादी । निनित्सुश्च निन्दनशीलोऽपि मर्त्यौ युष्मासु अवद्यं न धारयति नावधारयति, अवद्याभावादित्यर्थः । अस्मे इन्द्राबृहस्पती थैत्यत्रापि रयिं धतमिति क्रिया, दधातिश्च दानार्थः । तस्माद्यौष्मासु अस्मःयमिति युक्तः पाठः । यूयादेश इत्याद्यपि न पठितव्यम् । अनुष्टमेति प्राप्त इति । अध्रिगुप्रैषै तु ता अनुष्ट।लेव्यवायतादिति अनुपूर्वातिष्ठतेः आतश्चोपसर्गे इत्यङ्, अनुष्ठानमनुष्ठा, तयाऽनुष्ठ।ल । प्रबाहवेति । धेर्ङितीति गुणः । ननु इङ्त्वे विद्याद्वर्णनिर्द्देशमात्रं वर्णे यत्स्यातच्च विद्यातदादौ इत्युक्तम् सत्यम् ङ्त्किरणसामर्थ्यातु गुणः । प्रबहुनेति प्राप्त इति । बाहुनेति तु युक्तः पाठः प्रशब्दस्याख्यातेन सम्बन्धनात् । अयाचोऽकारः सुपि चेति दीर्घनिवृत्यर्थः ॥