5-4-74 ऋक्पूरब्धूःपथाम् अ अनक्षे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः
ऋक्-पूर्-अप्-धूर्-पथामनक्षे अः
यस्मिन् समासे उत्तरपदम् 'ऋक्', 'पूर्' 'अप्', 'धूर्', तथा 'पथिन्' एतेषु किञ्चन विद्यते, तस्य विषये 'अ' इति समासान्तप्रत्ययः भवति । परन्तु यत्र समस्तपदेन अक्षस्य विषये विधानम् क्रियते, तत्र अयम् प्रत्ययः न भवति ।
बहुव्रीहाविति न स्वर्यते। सामान्येन विधानम्। ऋक् पुर् अप् धुर् पथिन् इत्येवमन्तानां समासानामकारः प्रत्ययो भवति समासान्तोऽक्षे न । सामर्थ्याद् धुर एतद्विशेषणम् ऋगादीनां न भवति। अक्षसंबन्धिनी या धूस्तदन्तस्य न भवति। अनृचः। बह्वृचः। अर्धर्चः। पुर् — ललाटपुरम्। नान्दीपुरम्। अप् — द्वीपम्। अन्तरीपम्। समीपम्। धुर् — राजधुरा। महाधुरः। पथिन् — स्थलपथः। जलपथः। अनक्ष इति किम्? अक्षस्य धूः अक्षधूः। दृढधूरक्षः। अनृचो माणवके ज्ञेयः, बह्वृचश्चरणाख्यायाम् (महाभाष्य २.४४४)। अनृचो माणवकः। बह्वृचो ब्राह्मणः। अनृक्कं साम, बह्वृक्कं सूक्तमित्यत्र न भवति॥
अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्योऽन्तावयवः स्यात् अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । अनृचबह्वृचावध्येतर्येव । नेह - अनुक्साम । बह्वृक् सूक्तम् । विष्णोः पूः विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥
अ अनक्षे इटिच्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवोऽक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । विष्णुपुरम् । विमलापं सरः । राजधुरा । अक्षे तु अक्षधूः । दृडधूरक्षः । सखिपथः । रम्यपथो देशः ॥
यस्मिन् समासे उत्तरपदम् 'ऋक्' (= वेदस्य ऋचा) , 'पूर्' ( = नगरी) , 'अप्' (= जलम्), 'धूर्' (= भारः), तथा 'पथिन्' (= मार्गः) एतेषु किञ्चन विद्यते, तस्य विषये 'अ' इति समासान्तप्रत्ययः भवति । परन्तु यदि समस्तपदेन अक्षस्य (axis of a wheel) विषयः कथ्यते, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । क्रमेण पश्यामः - 1. अर्धम् ऋचः (half of one ऋचा) = अर्ध + ऋच् + अ [<<अर्धं नपुंसकम्>> 2.2.2 इति तत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः] → अर्धर्च (half of a verse) 2. विष्णोः पूः (City of Lord Vishnu) = विष्णु + पुर् + अ [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः] → विष्णुपुर 3. द्वयोः गताः आपः यस्मिन् (The one which has water on its both sides) = द्वि + अप् + अ [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः] → द्वीप [<<द्व्यन्तरुपसर्गेभ्यः अप ईत्>> 6.3.97 इति अकारस्य इकारादेशः] 4. महती धूः यस्य सः (The one which has a heavy load) = महत् + धुर् + अ [ <<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः] → महाधूर [<<आन्महतः समानाधिकरणजातीययोः>> 6.3.46 इति महत् शब्दस्य अन्तिम-तकारस्य आकारादेशः । <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] 5. सख्युः पन्थाः (Road of a friend) = सखिन् + पथिन् + अ [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषसमासः । वर्तमानसूत्रेण समासान्ते 'अ'प्रत्ययः] → सखि + पथ् + अ [सखिन् इत्यस्य पदसंज्ञा, अतः <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः । 'पथिन्' इत्यस्य विषये <<नस्तद्धिते>> 6.4.144 इति टिलोपः] → सखिपथ यत्र समस्तपदेन अक्षस्य सम्बधी विधानम् क्रियते (when the समस्तपद talks about axis / spoke) तत्र तु वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - अक्षस्य धूः (The weight of an axis) = अक्ष + धुर् [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषसमासः] → अक्षधूः [<<र्वोरुपधाया दीर्घः इकः>> 8.2.76 इति दीर्घादेशः ; विसर्गनिर्माणम् ] अक्षस्य धूः अक्षधूः । Weight of an axis इत्यर्थः । विशेषः - यदि 'अक्ष' शब्दः पूर्वपदे न विद्यते, तथापि समस्तपदेन 'अक्ष'शब्दस्य निर्देशः भवति चेदपि 'अ' प्रत्ययः समासान्ते नैव प्रयुज्यते । यथा - दृढा धूः यस्य सः (An axis whose weight is heavy) = दृढ + धुर [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः] → दृढधूः [<<र्वोरुपधाया दीर्घः इकः>> 8.2.76 इति दीर्घादेशः ; विसर्गनिर्माणम् ] दृढा धूः यस्य सः दृढधूः । An axis whose weight is heavy इत्यर्थः । अत्र यद्यपि 'अक्ष' शब्दः समस्तपदस्य अवयवः नास्ति तथापि समस्तपदेन अक्षस्य निर्देशः भवति अतः अत्रापि 'अ' प्रत्ययस्य प्रसक्तिः नास्ति ।
<<ऋक्पूरब्धूःपथामानक्षे>> - अथ सर्वसमाससाधारमसमासान्ता निरूप्यते — ऋक्पूरब्धूः । छेद इति । सूत्रे 'अ' इति लुप्तप्रथमान्तनिर्देश इति भावः । 'समासान्ता' इत्यधिकृतम् । ऋगादिभिः समासो विशेष्यते । तदन्तविधिः । तदाह — ऋगाद्यन्तस्येति । ऋक्, पुर्, अप्, धुर्, पथिन्-एतदन्तस्येत्यर्थः । अप्रत्यय इति । अकारात्मकप्रत्यय इत्यर्थः । अक्षे या धूरिति । अक्षसंबन्धिनी या धूरित्यर्थः । सूत्रे संबन्धिनोऽधिकरणत्वविक्षया अनक्षे इति सप्तमी । 'अनक्षे' इति च धुर्शब्देनैव संबध्यते, अन्यैरसंभवादिति भावः । अर्धर्चेति । ऋचोऽर्धमिति विग्रहः ।अर्धं नपुंसक॑मिति समासः । अकारः समासान्तः ।अर्धर्चाः पुंसि चे॑ति पुंस्त्वम् । अनृचबह्वृचावध्येतर्येवेति । अविद्यमाना ऋचो यस्येति विग्रहः । बहव ऋचो यस्येति बह्वृचः-ऋक्छाखीत्युदाहरणम् ।अध्येतर्येवे॑ति नियमस्य प्रयोजनमाह — नेहेति । अनृक्सामेति । अविद्यमाना ऋचो यस्मिन्निति विग्रहः । ऋच्यनध्यूढं प्रजापतेह्र्मदयं साम । बह्वृक्सूक्तमिति । बहवो ऋचो यस्मिन्निति विग्रहः । अथ पुर्शब्दान्तस्योदाहरति — विष्णोरिति । ननु पुर्शब्दस्य स्त्रीत्वापरवल्लिङ्ग॑मिति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आत — क्लीबत्व#ं लोकादिति । अथाऽप्शब्दान्तस्योदाहरति — विमलापं सर इति । विमला आपो यस्मिन्निति विग्रहः ।
सामार्थ्यादिति। धुर एवाक्षेण सम्बन्धोऽस्ति, नेतरेषामित्येतत्सामर्थ्यम्। एतद्विशेषणमिति। ठनक्षेऽ इत्यत्रोतरपदार्थ एतदा प्रत्यवमृश्यते, अत एवाह - अक्षसम्बन्धिनी या धूरिति। सूत्रे त्वक्षस्य धूरपेक्षयाऽधिकरणत्वादनक्ष इति सप्तमी। चक्रसम्बद्धः काष्ठविशेषो रथाद्यवयवःउअक्षः, तत्सम्बन्धिनी धूस्तस्यां न भवतीत्यर्थः। यदि त्वक्षे समासार्थे न भवतीति विज्ञायेत, इहैव प्रतिषेधः स्यात्-दृढा धूरस्य दृढधूरक्ष इति, इह तु न स्याद् - अक्षस्य धूरक्षधूरिति। अथाप्येवं विज्ञायेत - अक्षे पूर्वपदे न भवतीति, एवमपीहैव प्रतिषेधः स्याद् - अक्षधूरिति, इह तु न स्याद्दृढधूरक्ष इति। तस्माद्व्याप्तिन्याया दुक्त एवार्थो न्याय्यः। अर्द्धर्चेति। ठध नपुंसकम्ऽ इति समासे ठर्द्धर्चाः पुंसि चऽ इति पुंल्लिङ्गत्वम्। बह्वचेति। बहुव्रीहिः। ललाटपुरम्, नान्दीपुरमिति। षष्ठीसमासौ। परवल्लिङ्गता तु न भवति, लोकाश्रयत्वाल्लिङ्गस्य। यद्यप्यकारान्तेन पुरशब्देन समासे कृते एतत्सिद्ध्यति, तथापि व्यञ्जनान्तेन समासे तस्य श्रवणं मा भूदिति पूर्वग्रहणम्, द्वीपं समीपमिति। द्विर्गता आपोऽस्मिन्निति बहुव्रीहिः,'द्व्यन्तरुपसर्गेब्यो' प इत्ऽ इतीत्वम्। राजधुरादयः षष्ठीसमासाः। महाधुर इति। बहुव्रीहिः,'स्त्रियाः पुंवत्' इति पुंवद्भावः, ठान्महतःऽ इत्यात्वम्। अनृचो माणवक इत्यादि। ऋगन्तस्य बहुव्रीहेर्नञ्पूर्वस्य माणवक एवाभिधेये प्रत्यय इष्यते, तथा बहुपूर्वपदस्य चरणाख्यायामेवेत्यर्थः। अनृक्कं साम, बह्वृक्कं सूक्तमिति।'ज्ञेषाद्विभाषा' इति कप्,'चोःकुः' इति कुत्वम् ॥