6-3-97 द्व्यन्तरुपसर्गेभ्यः अपः ईत् उत्तरपदे
द्वि अन्तरित्येताभ्यामुपसर्गात् चोत्तरस्याबित्येतस्य ईकारादेशो भवति। द्वीपम्। अन्तरीपम्। उपसर्गात् — नीपम्। वीपम्। समीपम्॥ समाप ईत्वे प्रतिषेधो वक्त व्यः॥ समापं नाम देवयजनम् (काठ०सं० २५.२)। अपर आह — ॥ ईत्वमनवर्णादिति वक्त व्यम्॥ इह मा भूत् — प्रापम्। परापम्। अप्शब्दं प्रति क्रियायोगाभावाद् उपसर्गग्रहणं प्राद्युपलक्षणार्थम्॥
अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । स्वपी ।<!अवर्णान्ताद्वा !> (वार्तिकम्) ॥ प्रेपम् । परेपरम् । प्रापम् । परापम् ॥
<<द्व्यन्तरुपसर्गेभ्योऽप ईत्>> - द्व्यन्तरुप । कृतसमासान्तस्येति । अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर् उपसर्ग-एतेभ्य इत्यर्थः । अपस्येति । अकारप्रत्ययान्तस्याऽप्शब्दस्येत्यर्थः । ईत्स्यादिति ।आदेः परस्ये॑ति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गता इति । द्वयोः पार्सयोर्गता आपो यस्मिन्निति विग्रहः । व्यधिकरणपदो बहुव्रीहिः । अकारप्रत्ययः,ईत्त्वं, सवर्णदीर्घश्च । अन्तरीपमिति । अन्तर्गता आपो यस्मिन्निति विग्रहः । प्तीपमिति । प्रतिकूला आपो यस्मिन्निति विग्रहः । उपसर्गात्परत्वादीत्त्वम् । समीपमिति । सङ्गता आपो यस्मिन्निति विग्रहः । उपसर्गात्परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति । श्रुतिरेषा । अत्र उपसर्गात्परत्वाऽभावादीत्त्वं नेति भावः । देवा इज्यन्ते यस्मिन्निति देवयजनं यज्ञभूमिः । 'समाप' इति पुंस्त्वं छान्दसम् । भाष्ये तुसमाप ईत्त्वं ने॑त्युक्त्वा समापं नाम देवयजनमित्युदाहृतम् । तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः,समीपसमृद्धी॑ति निर्देशात्,समीप॑मिति भाष्ये उदाहरणाच्च । स्वविति । शोभना आपो यस्येति विग्रहः ।न पूजना॑दिति समासान्तनिषेधः । अकृतसमासान्तत्वादीत्त्वं न । स्वपी इति । प्रथम#आद्विवचनमिदम् । अवर्णान्ताद्वेति । अवर्णान्तादुपसर्गात्परस्याऽपस्य ईत्त्वं वा वक्तव्यमित्यर्थः । प्रेपं प्रापमिति । प्रगता आपो यस्येति विग्रहः । परेपं परापमिति । परागता आपो यस्येति विग्रहः ।
उदाहरणेषु द्विर्गता आपोऽस्मिन्नित्यादिविग्रहः, ऋक्पूब्धूः इत्यकारः समासान्तः । समापं नामेति । ईत्वे प्रतिषिद्वे अन्येषामपि दृश्यते इत्यकारस्य दीर्घः । अपर आह - समशब्दस्यात्र प्रयोगः, समा आपोऽस्मिन्निति समाप इति । अप्शब्दं प्रतीत्यादि । इह यत्क्रिंयायुक्ताः प्रादयस्तं तेषामुपसर्गत्वम्, अप्शब्दश्च न क्रियावचनः, तस्माद्यस्य प्रादेरन्यत्रोपसर्गत्वं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते ॥