भियो हेतुभये षुक्

7-3-40 भियः हेतुभये षुक् णौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भी इत्येतस्य हेतुभयेऽर्थे षुगागमो भवति णौ परतः। मुण्डो भीषयते। जटिलो भीषयते। अत्रापि भी ई इतीकारप्रश्लेषः कृतात्वस्य षुग्निवृत्त्यर्थः। मुण्डो भापयत इत्येवं हि तत्र भवति। हेतुभय इति किम्? कुञ्चिकयैनं भाययति। नात्र हेतुः प्रयोजको भयकारणम्। किं तर्हि? कुञ्चिका॥

Siddhanta Kaumudi

Up

भी ई इतीकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक् स्यात् णौ हेतुभये । भीषयते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भियो हेतुभये षुक्>> - भियो हेतुभये षुक् । भी ई ति । द्वयोः सवर्णदीर्घे भीशब्दात् षष्ठीति भावः । इदं च स्थानिवत्सूत्रे भाष्ये स्पष्टम् । ईकारप्रश्लेषलब्धमाह — ईकारान्तस्येति । तेन आत्त्वपक्षे न षुगिति फलितम् । णाविति । 'अर्तिह्यी' त्यतस्तदनुवृत्तेरिति भावः ।

Padamanjari

Up

हेतुः पारिभाषिकः, भीःउभयम्, हेतोर्भयं हेतुभयम्, तत्र वर्तमानस्य । भीषयत इति ।'भीस्म्योर्हेतुभये' इत्यात्मनेपदम् । भापयत इति ।'बिभेतेर्हेतुभये' इत्यात्वम् ॥