8-4-5 प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्यः असञ्ज्ञायाम् अपि पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् वनं
प्र निर् अन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्य उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति। प्र — प्रवणे यष्टव्यम्। निर् — निर्वणे प्रतिधीयते। अन्तर् — अन्तर्वणे। शर — शरवणम्। इक्षु — इक्षुवणम्। प्लक्ष — प्लक्षवणम्। आम्र — आम्रवणम्। कार्ष्य — कार्ष्यवणम्। खदिर — खदिरवणम्। पीयूक्षा — पीयूक्षावणम्॥
एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ॥
<<प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिर- पियूक्षाभ्योऽसंज्ञायामपि>> - प्रनिरन्तः । एभ्य इति । प्र, निर्, अन्तर्, शर, इक्षु, प्लक्ष, आम्र, काष्र्य, खदिर, पीयूक्षा-इत्येतेभ्य इत्यर्थः । वनस्येति ।वनं पुरगे॑त्यतस्तदनुवृत्तेरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमासः । इहेति ।काष्र्यवण॑मित्यत्र षकारात्परत्वेन णत्वं, नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन कार्श्येति तालव्यशकारमध्यपाठोऽप्रामाणिक इति सूचितम् । तथा सति निमित्ताऽभावाण्णत्वाऽसंभवात्, अटकुप्वाङ्भिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वाऽसंभवात् । निर्वणम्, अन्तर्वणं, शरवणम्, इक्षुवणम्, प्लक्षवणम्, आम्रवणं, काष्र्यवणं, खदिरवणं, पीयूक्षावणम् ।
अत्रादितस्त्रिषु संज्ञायामसज्ञायामप्राप्तं णत्वं विधीयते, कथम् ? संज्ञायां तावत्'पूर्वपदात्संज्ञायाम्' इत्येतद्यद्यपि नियमार्थम्, अथापि विध्यर्थम् - उभयथापि अवश्यम्'वनं पुरगा' इत्यादिसूत्रं नियमार्थम् - पुरगादिष्वेव वननकारस्येति, ततश्च प्रादिष्वप्राप्तिः । असंज्ञायामपि नियमे तावदप्राप्तिः; संज्ञायामेवेति नियमात् । विधावपि संज्ञायां विधानादन्यत्राप्राप्तिरेव । शरादिषु त्वोषधिवनस्पतिवाचिषु संज्ञायामसंज्ञायां चोतरसूत्रेण प्राप्तस्य विकल्पस्यापवादः । ठसंज्ञायामपिऽ इत्यनुच्यमाने'संज्ञायाम्' इत्यधिकारातत्रैव स्यात् । निवर्तिष्यते संज्ञायामिति ? यदि निवर्तते, संज्ञायां न प्राप्नोति; पुरगादिभ्य एव वननकारस्येति नियमात् । अयं तु विधिरसंज्ञायां सावकाशः, संज्ञायामपि परत्वादयमेव विधिर्भविष्यति,'पूर्वत्रासिद्धे नास्ति विप्रतिषेधः' , तस्मादसंज्ञायामपीति वक्तव्यम् । प्रवणम्, निर्वणमिति । प्रादिसमासौ । अन्तर्वणमिति । विभक्त्यर्थेऽव्ययीभावः, शरवणादयः षष्ठीससासाः ॥