7-4-46 दः दत् धोः किति
दा इत्येतस्य घुसंज्ञकस्य ददित्ययमादेशो भवति तकारादौ किति प्रत्यय परतः। दत्तः। दत्तवान्। दत्तिः। दः इति किम्? धीतः। धीतवान्। धेटः एतद् रूपम्। घोः इति किम्? दाप् लवने दातं बर्हिः। दैप् शोधने अवदातम् मुखम्। अयमादेशः थान्तः इष्यते। एवं ह्युक्तम् तान्ते दोषो दीर्घत्वं स्याद् दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वप्राप्तिस्थान्तेऽदोषस्तस्मात् थान्तम्। यदि तु दस्तीति तकारादौ दीर्घत्वं तदा तान्तेऽपि अदोषः। दान्तधान्तयोरपि सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति नत्वधत्वे न भविष्यतः इति न दोषः। अवदत्तं विदत्तम् च प्रदत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तम् इति चेष्यते। <<अच उपसर्गात् तः>> 7.4.47 इति प्राप्ते निपात्यन्ते। अनुपसर्गा वा एते अवादयः क्रियान्तरविषया वेदितव्याः।
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात्तादौ किति । चर्त्वम् । दत्तः । घोः किम् । दातः । तान्तो वायमादेशः न चैवं विदत्तमित्यादावुपसर्गस्य दस्ति <{SK3079}> इति दीर्घापत्तिः । तकारादौ तद्विधानात् । दान्तो वा धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे झषस्तथोः - <{SK2280}> इति धत्वं शङ्क्यम् । सन्निपातपरिभाषाविरोधात् ॥
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वम्। दत्तः॥
धीत इति । घुमास्थादिसूत्रेणेत्वम् । घेट एतद्रपमिति । दधातेस्तु'दधातेर्हिः' इति हिरादेशो भवति । दातमिति ।'दाप् लवने' । लूनमित्यर्थः । अवदातमिति ।'दैप् शोधने' । अयमादेशस्थान्त इष्यत इति । कुतः ? इत्याह - एवं ह्युक्तमिति । यद्यपि दकारः श्रूयते, तथापि संहितायां तकारादीनामपि जश्त्वे कृते एतस्य रूपस्य सम्भवाच्चतुर्णां पक्षाणां सम्भवः । यद्ययमादेशस्तकारान्तः स्यात्, सुदतमित्यत्र'दस्ति' इति दीर्घत्वं स्यात्;'दा' इत्यतस्य यस्तस्तस्मिन्निति हि तत्रार्थः । अथ दकारान्तः, रदाभ्याम्ऽ इति नत्वं प्रसज्येत । अथ धकारान्तः,'झषस्तथोर्धो' धःऽ इति धत्वमापद्येत । थान्तेऽदोष इति । नञोऽत्र प्रश्लेषः,'तस्मात्थान्तः' इति निगमनात् । यदि त्विति ।'दस्ति' इत्यत्र द्वौ पक्षौ -'दा- इत्येतस्य यस्तकारान्त आदेशः, तकारादिर्वेति । तत्र द्वितीयपक्षे नायं दोषः । दान्तधान्तयोरपीति । तकारादिप्रत्ययसन्निपातेन भवन् दद्भावो न तद्विघातस्य निमितं भवति । अवदतमित्यादि । आदिकर्मणीति इत्येतत्प्रदतमित्येतस्य विशेषणम्, नेतरेषाम्; असम्भवात् । इति चेष्यत इति । चकारद्यथाप्राप्तं च, तेन अवतम्, वितम्, प्रतमित्याद्यपि भवति । अनुपसर्गा वा एत इति । कथमनुपसर्गत्वम् ? इत्यत आह - क्रियान्तरविषया इति । अवगतं दतमिति गमिना' वादिनां योगः, ततश्च'यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति' इति ददातिं प्रत्यनुपसर्गत्वम् ॥