7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ
index: 7.3.36 sutra: अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ
सर्वं निवृत्तम्, अङ्गस्य इति वर्तते। अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषामङ्गानामाकारान्तानां च पुगागमो भवति णौ परतः। अर्ति अर्पयति। ह्री ह्रेपयति। व्ली व्लेपयति। री रेपयति। क्नूयी क्नोपयति। क्ष्मायी क्ष्माप्यति। आकारान्तानाम् दापयति। धापयति। अर्तीति ऋ गतिप्रापणयोः, ऋ गतौ इति द्वयोरपि धात्वोर्ग्रहणम्। री इत्यपि री गतिरेषणयोः, रीङ् श्रवणे इति। पुकः पूर्वान्तकरणमदीदपदित्यत्र उपधाह्रस्वो यथा स्यातिति।
index: 7.3.36 sutra: अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ
चपयति । चययति । ञित्करणसामर्थ्यादस्य णिज्विकल्पः । चयति । चयते । प्रणिचयति । प्रनिचयति । (गणसूत्रम् -) नान्ये मितोऽहेतौ । अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न ।{$ {!1631 घट्ट!} चलने$} ।{$ {!1632 मुस्त!} संघाते$} ।{$ {!1633 खट्ट!} संवरणे$} ।{$ {!1634 षट्ट!} {!1635 स्फिट्ट!} {!1636 चुबि!} हिंसायाम्$} ।{$ {!1637 पुल!} सङ्घाते$} । पूर्ण इत्येके । पुण इत्यन्ये ।{$ {!1638 पुंस!} अभिवर्धने$} ।{$ {!1639 टकि!} बन्धने$} । टङ्कयति । टङ्कति ।{$ {!1640 धूस!} कान्तिकरणे$} । धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यपरे ।{$ {!1641 कीट!} वर्णे$} ।{$ {!1642 चूर्ण!} संकोचने$} ।{$ {!1643 पूज!} पूजायाम्$} ।{$ {!1644 अर्क!} स्तवने$} । तपन इत्येके ।{$ {!1645 शुठ!} आलस्ये$} ।{$ {!1646 शुठि!} शोषणे$} । शुण्ठयति । शुण्ठति ।{$ {!1647 जुड!} प्रेरणे$} ।{$ {!1648 गज!} {!1649 मार्ज!} शब्दार्थौ$} । गाजयति । मार्जयति ।{$ {!1650 मर्च!} च$} । मर्चयति ।{$ {!1651 घृ!} प्रस्रवणे$} । स्रावण इत्येके ।{$ {!1652 पचि!} विस्तारवचने$} । पञ्चयति । पञ्चति । पञ्चते इति व्यक्तार्थस्य शपि गतम् ।{$ {!1653 तिज!} निशाने$} । तेजयति ।{$ {!1654 कॄत!} संशब्दने$} ॥
index: 7.3.36 sutra: अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ
स्थापयति॥
index: 7.3.36 sutra: अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ
अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ - अर्ति ह्यी व्ली री क्नूयी क्ष्मायी आत् एषां द्वन्द्वात्षष्ठी । 'पुक् णौ' इति छेदः । तदाह — एषां पुक्स्याण्णौ इति । पुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः । चाप् इ इति स्थिते चेत्यनुवर्त्त्य मित्त्वस्याऽनुकर्षणेन मित्त्वाद्ध्रस्वेचपी॑त्यस्मात्तिबादौ परिनिष्ठितमाह — चपयतीति । आत्त्वाऽभावपक्षे त्वाह — चययतीति । चेर्णिचि वृद्धौ आयादेशे मित्त्वादुपधाह्रस्व इति भावः । ननु चिञ्धातोरिह ञित्करणं व्यर्थम्, ण्यन्ताण्णिचश्चेत्येव उभयपदसिद्धेः । चौरादिकस्याऽस्य नित्यं ण्यन्तत्वेन चयति चयते इति केवलस्याऽण्यन्तस्य शशशृङ्गायमाणत्वदित्यताअह — ञित्करणसामर्थ्यादिति । एवं च णिजभावपक्षे उभयपदार्थमिह ञित्करणमर्थवदिति भावः । 'शेषे विभाषाऽकखादौ' इति णत्वनविकल्पं मत्वा आह — प्रणिचयति प्रनिचयतीति । 'नान्ये मितोऽहेतौ' इति । चुरादिगणसूत्रम् । अहेताबिति च्छेदः । किमपेक्षया अन्ये इत्याकाङ्क्षायां मितः प्राक् पठितज्ञपादिचिञन्तेभ्य इति लभ्यते । तदाह — अहेतौ स्वार्थं णिचीत्यादिना । अहेतावित्यस्य व्याख्यानं — स्वार्थे णिचीति । तेनेति । ज्ञपादिचिञन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधेनेत्यर्थः । शमादीनामिति । 'शम आलोचने'अम रोगे॑इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थः । अमन्तत्वेति ।जनीजृष्क्नसुरञ्जौऽमन्ताश्चे॑त्यमन्तत्वनिमित्तकमित्यर्थ- । कृत संशब्दने ।
index: 7.3.36 sutra: अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ
'व्लीङ् वरणे' ,'क्नूयी शब्दे' ,'क्ष्मायी विधूनने' । उदाहरणेषु पुगन्तलक्षणो गुणः । द्वयोरपि ग्रहणमिति । विशेषानुपादानात् । री इत्यपीति । यद्यपि प्रस्रवणार्थः सानुबन्धकः तथापि तस्यापि ग्रहणमाचार्यैः स्मर्यत इति भावः । पूर्वान्तकरणं न यादृच्छिकम्, किं तर्हि ? विवक्षितमित्याह - पुकः पूर्वान्तकरणमिति । अदीदपदिति । यदि पुनर्णेः पुट् स्यात्, तस्य णिग्रहणेन ग्रहणाण्णौ परतो यदङ्गं न तस्याकार उपधेति ह्रस्वो न स्यात् । दोषोपलक्षणं चैतत्, दाप्यते इत्यादौ'णेरनिटि' इति णेर्लोपेनापहृतत्वात्पकारस्य श्रवणं न स्यात् ? नैष दोषः; न हि लोपः सर्वापहारी, ठलोऽन्त्यस्यऽ इत्यन्त्यस्य लोपः । इह तर्हि क्नोपयतीतीडागमः प्राप्नोति । लाभोऽपि कश्चिन्नैवात्र परादौ सति दृश्यते । पुगन्तस्य गुणो वाच्यो वृद्धिः स्यादन्यथा यतः ॥ यत्किलेदमुच्यते - पुटि सति गुणविधौ पुगन्तग्रहणं न कर्तव्यम्,'सार्वधातुकार्धधातुकयोः' इत्येव सिद्धत्वादिति, तदप्याशावादमात्रम्; यतः परादावप्यवश्यं पुटि गुणो विधेयः, अन्यथा ठचो ञ्णितिऽ इति वृद्धिप्रसङ्गात् ॥