6-2-139 गतिकारकोपपदात् कृत् उत्तरपदात् उत्तरपदात् इः प्रकृत्या अनोः
index: 6.2.139 sutra: गतिकारकोपपदात् कृत्
तत्पुरुषे इति वर्तते, न बहुव्रीहौ इति। गतेः कारकातुपपदात् च कृदन्तमुत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति। प्रकारकः। प्रकरणम्। प्रहारकः। प्रहरणम्। कारकात् इध्मप्रव्रश्चनः। पलाशशातनः। श्मश्रुकल्पनः। उपपदात् ईषत्करः। दुष्करः। सुकरः। सर्वत्र एव अत्र लित्स्वरः। गतिकार कोपपदातिति किम्? देवदत्तस्य कारकः देवदत्तकारकः। देवदत्तस्य इति शेषलक्षण षष्ठी। कृद्ग्रहणं विस्पष्टार्थम्। प्रपचतितराम्, प्रपचतितमाम् इत्यत्र तरबाद्यन्तेन समासे कृते पश्चादाम्। तत्र सति शिष्टत्वादाम एव स्वरो भवति इत्येके। प्रपचतिदेश्याद्यर्थं कृद्ग्रहणं दृश्यत एव।
index: 6.2.139 sutra: गतिकारकोपपदात् कृत्
एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे । प्रकारकः । प्रहरणम् । शोणा धृष्णू नृवाहसा (शोणा॑ धृ॒ष्णू नृ॒वाह॑सा) । इध्मप्रव्रश्चनः । उपपदात् । उच्चैःकारम् । ईषत्करः । गतीति किम् । देवस्य कारकः । शेषलक्षणा षष्ठी । कृद्ग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादम्स्वरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये ।
index: 6.2.139 sutra: गतिकारकोपपदात् कृत्
प्रकारक इत्यादौ कुगतिप्रादयः इति समासः । इध्मप्रव्रश्चानादौ कर्मणि षष्ठयाः समासः, करणे ल्युट्, इध्मं प्रवृश्च्यते येन सोऽत्र इध्मप्रवश्चनः, शद्लृ शातने, णिच्, शदेरगतौ तः । पलशानि शात्यन्ते येन स दण्डः पराशशतनः । श्मश्रु कल्प्यते येन स क्षुरादिः श्मश्रुकल्पनः । कृपू सामर्थ्ये ण्यन्तः , केवलो वा । ईषत्कर इति । एतदुपपदग्रहणस्य साक्षादुदाहरणम्। सुदुरोस्तु गतित्वादपि सिद्धम्, स्तम्बेरमादौ च कारकत्वात् । उच्चैः कृत्य उच्चैः कारमित्यादिकमप्युपदगरह्णस्यैवोदाहरणम्। देवदतस्येति शेषलक्षणा षष्ठीति । न कर्मलक्षणा, तथा हि सति कारकमेव देवदेतः स्यात्, तृजकाभ्यां कर्तेरि चेति समासप्रतिषेधप्रसङ्श्च । अथ कृद्ग्रहणं किमर्थंम् निर्गतः कौशाम्ब्याः निष्कौशाम्बिरित्यत्र मा भूत् । नैतदस्ति प्रयोजनम्, एयत्क्रियायुक्ताः पारदयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, न च कैशाम्बीशब्दं प्रति क्रियायोगः, कारकमपि क्रियाया एव सम्भवति, उपपदमपि धात्वधिकारे सप्तमीनिर्दिष्ट्ंअ प्रत्ययनिमितमुच्चते तदेवं गत्यादिभिस्त्रिभिरपि क्रियावाच्युतरपदमाक्षिप्यते, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतः तिङ्श्च, तत्र तिङ्न्ते समासाभावात्कृदन्तमेव सम्भवतीति अनुव्यचलदित्यत्र तु न गतित्वनिबन्धनः समासः किं तर्हि सुबिति योगविभागनिबन्धनः धातुप्रत्ययसमुदायपरिग्रहार्थं तु, अन्यथा यत्क्रियायुक्तास्तं प्रतीति वचनाद्धातुमेव प्रति गतित्वाद्धातावेवोतरपदे स्वरः स्यात् - प्रणीः, उन्नीरिति इह न स्यात् - प्रणयकः ,उन्नायक इति । एतदपि नास्ति प्रयोजनम् यत्क्रियायुक्ताः इति नैवं विज्ञायते - यस्य क्रिया यत्क्रिया यत्क्रियायुक्तास्तं प्रतीति, एवं विज्ञायमाने त्वन्वयव्यतिरेकाभ्यां धातोरेव क्रिया वाच्येति तमेव प्रति गत्युपसर्गसंज्ञाप्रसङ्गः, कथं तर्हि विज्ञायते । या क्रिया यत्क्रिया तं क्रियालक्षणमर्थं प्रतिगत्युपसर्गसंज्ञे भवतः, केवलायाश्च क्रियाया वाचकमुतरपदं नास्तीति क्रियाविशिष्टसाधनवाचिनि प्रणीः, प्रकारक इत्यादौ क्रियायां सिद्धताभिधायिनि, प्रभवनमित्यादौ च सर्वत्र भविष्यतीति नार्थ एतेन कृद्ग्रहणेन अत आह - कृद्ग्रहणं विस्पष्टार्थमिति । य एवं प्रतिपतुमसमर्थस्तं प्रति विस्पष्टार्थं क्रियत इत्यर्थः । यदि तर्हि विस्पष्टार्थमपि तावत्कृद्ग्रहणं क्रियते, आमन्ते तर्हि न प्राप्नोति - प्रपचतितराम्, प्रपचतितमामिति, ततश्च समासस्वरं बाधित्वाऽव्ययस्वर एव स्यात् इत्यत आह - प्रपचतितरामित्यादि । अत्र हि प्रशब्दस्य तरबन्तेन समासः, नामन्तेन । कथमन्तरङ्गत्वाद्धातुः पूर्वमुपसर्गेण युज्यते, प्रपचित्यस्यामवस्थायां सुबभावात् समासो न कृत इत्येतावत्, ततस्तिङ्, तस्यामप्यवस्थायां सुबभावः, ततस्तरप्, तद्धितान्तत्वात्सुप् , तेन समासः, ततश्चाम्प्रत्ययः, तत आम्श्वरः सतिशिष्टः । कथं पुनस्तरवन्तेन समासः कथं च न स्यात् गतिकारकोपपदानां कृद्भिः सह समासवचनम् इति वचनात् नात्र कृद्भरेव समास इति नियम्यते, कि तर्हि यदि गत्यादीनां समासो भवति तेनतेन लक्षणेन, तदा कृद्भिः प्रक् सुबुत्पत्त्एरिति ननु चेवमपि तरबन्तेन समासो न लभ्यते, कि कारणमसुबन्तत्वात् प्रतिपदिकाधिकाराद्धि तत एव किमेतिङ्व्ययधात् इत्याम् भवति, न सुबन्तात् , न च गतिकारकोपपदानामित्येतदस्ति, अकृदन्तत्वात् अत्राहुः - घकालतनेषु इति ज्ञापकात्सुबन्तादेव सर्वे तद्धिताः, ङ्याप्प्रातिपदिकग्रहणं तु वृद्धाद्यर्थमेवाधिक्रियते, ततश्चामुत्पतये यः सुप् तदन्तेन समअस इति । अपर आह - कुगतिप्रादयः इत्यत्रातिङिति वक्ष्यमाणस्य प्रतिकर्षादुतरपदमसुबन्तमेव समस्तयते, ततश्च तरबन्तेन समासो लभ्यत इति । इत्येक इति । अस्य कृद्ग्रहणं विस्पष्टार्थम्, न चामन्ते दोषप्रसङ्ग इत्येवं केचिद्व्याचक्षते । प्रपचिदेश्याद्यर्थं त्वित्यादि । तुशब्दः पक्षं व्यावर्तयति । आदिशब्देन प्रपचतिकल्पम् , प्रपचतिदेशीयम्, प्रपचतिरुपमित्येतेषां ग्रहणम्। प्रपचतिदेश्यादावर्थः प्रयोजनं यस्य ततथोक्तम् । एतदुक्तं भवति - न विस्पष्टार्थं कृद्गरह्थणम्, अपि तु प्रपचिति देश्यादौ यत्र सतिशिष्टस्वरान्तरं नास्ति, तत्रायं स्वरो मा भूद्, अव्ययपूर्वपदप्रकृतिस्वर एव यथा स्यादित्येवं सप्रयोजनं दृश्यते इति । इदं तु वक्तव्यम् - प्रपचतितरामित्यादौ तरबन्तेन समासे पश्चादाम् भवन् प्रत्ययग्रहणपरिभाषया पचितितरशब्दस्यैव घान्तत्वात् तत एव स्यात् । तत्र को दोषः सोपसर्गस्य सङ्घातस्यैकपद्याभावाद् आम्प्रपचतितरां देवदेतेत्यादौ आम एकान्तरमामन्त्रितमनन्तिके इत्येष विधिर्न स्यात्, शेषनिघातश्च प्रशब्दस्य न स्यात् भिन्नपदत्वात् । तस्मात् प्रशब्दस्यामन्तेन समासोऽङ्गी एकर्तव्यः, न तरबन्तेन । तत्र समासत्वात् समुदायस्य प्रातिपदिकत्वे विभक्तावैकपद्यं भवति । स्वरे तु देषप्रसङ्गात् कृद्ग्रहणमपि त्यक्तव्यमिति भाष्ये स्थितम्, प्रपचतिदेशीयादौ का गतिरिति न विद्मः ॥