3-1-98 पोः अदुपधात् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत्
index: 3.1.98 sutra: पोरदुपधात्
पवर्गान्ताद् धातोः अकारोपधात् यत् प्रत्ययो भवति। ण्यतोऽपवादः। शप् शप्यम्। लभ लभ्यम्। पोः इति किम्? पाक्यम्। वाक्यम्। अदुपधातिति किम्? कोप्यम्। गोप्यम्। तपरकरणं तत्कालार्थम्। आप्यम्।
index: 3.1.98 sutra: पोरदुपधात्
पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥
index: 3.1.98 sutra: पोरदुपधात्
पवर्गान्ताददुपधाद्यत्स्यात्। ण्यतोऽपवादः। शप्यम्। लभ्यम्॥
index: 3.1.98 sutra: पोरदुपधात्
पोरदुपधात् - पोरदुपधात् । ननु शप्यं लभ्यमित्यत्रऋहलोण्र्य॑दिति कदाचिण्ण्यदपि स्यात्, यण्ण्यतोरसारूप्येण वाऽसरूप इत्यस्य प्रवृत्तेरित्यत आह — - नानुबन्धकृतमसारूप्यमिति । वाऽसरूपसूत्रे भाष्ये स्थिमिदम् । अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विविक्षितमित्यर्थः । प्रकृते च यण्ण्यतोरनुबन्दरहितयोः सारूप्याद्वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ ण्यदपवादो यदेवेति भावः ।
index: 3.1.98 sutra: पोरदुपधात्
पोरदुपधात्॥ पाक्यं वाक्यमिति।'चजोः कु घिण्ण्यतोः' इति कुत्वम्। कोप्यं गोप्यमिति।'कुप कोपने' ,'गुप व्याकुलत्वे' । आप्यमिति। ठाप्लृ व्याप्तोऽ एषु त्रिषु'यतो' नावःऽ इत्याद्यौदातत्वं न भवति, तित्स्वरित एव तु भवति॥