इणो यण्

6-4-81 इणः यण् असिद्धवत् अत्र आभात् अचि

Sampurna sutra

Up

इणः अङ्गस्य अचि यण्

Neelesh Sanskrit Brief

Up

'इण्'-धातोः अङ्गस्य अच्-वर्णे परे यणादेशः भवति ।

Neelesh English Brief

Up

The verb root इण् gets a यणादेश when followed by an अच् letter.

Kashika

Up

इणोऽङ्गस्य यणादेशो भवत्यचि परतः। यन्ति। यन्तु। आयन्। इयङादेशापवादोऽयम्। <<मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते>> इति गुणवृद्धिभ्यां परत्वादयं बाध्यते। अयनम्। आयकः॥

Siddhanta Kaumudi

Up

अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥

Laghu Siddhanta Kaumudi

Up

अजादौ प्रत्यये परे। यन्ति॥

Neelesh Sanskrit Detailed

Up

'इण्' (गतौ) इति अदादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन इयङ्-आदेशे प्राप्ते अपवादत्वेन इकारस्य यणादेशः यकारः भवति । यथा - 1. इण्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - इ + लट् [<<वर्तमाने लट्>> 3.2.123] → इ + झि [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → इ + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → इ + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-विकरणस्य लुक् ] → इ + अन्ति [<<झोऽन्तः>> 7.1.3 इति अन्त्यादेशः] → य् + अन्ति [<<इणो यण्>> 6.4.81 इति यणादेशः] → यन्ति 2. इण्-धातोः लङ्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - इ + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → आट् + इ + ल् [<<आडजादीनाम्>> 6.4.72 इति आडागमः] → आ + इ + झि [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → आ + इ + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → आ + इ + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-विकरणस्य लुक् ] → आ + इ + अन्ति [<<झोऽन्तः>> 7.1.3 इति अन्त्यादेशः] → आ + इ + अन्त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → आ + य् + अन्त् [<<इणो यण्>> 6.4.81 इति इकारस्य यणादेशः] → आयन् [<<संयोगान्तस्य लोपः>> 8.2.7 इति तकारलोपः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे इकारस्य 'यण्' भवति इत्युक्तमस्ति । वस्तुतः यण्-प्रत्याहारे चत्वारः वर्णाः आगच्छन्ति । परन्तु स्थानसाधर्म्यात् इकारस्य यकारः एव भवति । 2. <<मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्>> अनया परिभाषया अयम् यणादेशः केवलं इयङ्-इत्यस्यैव अपवादरूपेण आगच्छति, गुण-वृद्धेः अपवादत्वेन न । यथा, इण्-धातोः ण्वुल्-प्रत्यये परे - इ + ण्वुल् [<<ण्वुल्तृचौ>> 3.1.133 इति ण्वुल्] → इ + अक [<<युवोरनाकौ>> 7.1.1 इति 'अक' आदेशः] → ऐ + अक [<<इणो यण्>> 6.4.81 इति इकारस्य यणादेशे प्राप्ते, परत्वात् <<अचो ञ्णिति>> 7.2.115 इति वृद्धिः] → आयक [<<एचोऽयवायावः>> 6.1.78 इति आय्-आदेशः] अत्र वृद्धि-आदेशः यणादेशम् परत्वात् बाधते ।

Balamanorama

Up

<<इणो यण्>> - इणो यण् ।अचि श्नुधातु॑इत्यतोऽचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाऽङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — अजादौ प्रत्यये परे इति । इयङोऽपवाद इति । इयङि प्राप्ते एव तदारम्भादिति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । यथा — अयनम् । आयकः । यन्तीति । एषि इथः इथ । एमि इवः इमः । इयायेति । द्वित्वे सति उत्तरखण्डवृद्धावायादेशे 'अभ्यासस्याऽसवर्णे' इतीयङ् । अतुसि तु द्वित्वे कित्त्वाद्गुणाऽभावे इ इ अतुस् इति स्थितेइणो य॑णित्युत्तरखण्डस्य यणि इ-यतुरिति स्थिते -

Padamanjari

Up

अत्र सूत्रार्थकथनानन्तरं क्वचित्पठ।ल्ते - अन्तरङ्गत्वात् इको यणचि इति सिद्धे समानाश्रये वार्णादाङ्गं बलीयः इति ज्ञापनार्थ वचनम् इति, तदयुक्तम् इयङदेशापवादोऽयम् इति वक्ष्यति, तत्कथमियङ्विषये यण्प्रवर्तते । इयङदेशापवादोऽयमिति । इयङ्गादेशस्यैवापवाद इत्यर्थः । कुतः इत्याह मध्येऽपवादा इति । एवं सति यदिष्ट्ंअ सिद्धम्, तद्दर्शयति - गुथणवृद्धिभ्यमिति । यदि तु नाप्राप्ते विध्यन्तरे आरम्भात्सर्वमेव विध्यन्तरं यण्बाधेत, गुणवृद्धिवषयेऽपि स्यत् । अथ इणो न इत्येव कस्मान्नोक्तम् इयङदेशे हि एप्रतिषिद्धे इको यणचि इत्येव यणभविष्यति अहो सूक्ष्मदर्शी देवानांपियः, यदिदमपि न दृष्टम् - ईयिव, ईयिम, कर्मणि ईयिरे, अत्रेयङ् प्रितिषिद्धे सर्वर्णंदीर्घः स्यात् । तस्माद्यणेव विधेयः ॥