वाऽम्शसोः

6-4-80 वा अम् शसोः असिद्धवत् अत्र आभात् अचि इयङ् स्त्रियाः

Sampurna sutra

Up

अम्शसोः स्त्रियाः वा इयङ्

Neelesh Sanskrit Brief

Up

स्त्री-शब्दस्य अम्-प्रत्यये परे शस्-प्रत्यये च परे विकल्पेन इयङ्-आदेशः भवति ।

Neelesh English Brief

Up

The word 'स्त्री' gets an इयङ्-आदेश optionally when followed by अम् प्रत्यय or शस् प्रत्यय.

Kashika

Up

अमि शसि परतः स्त्रिया वेयङादेशो भवति। स्त्रीं पश्य, स्त्रियं पश्य। स्त्रीः पश्य, स्त्रियः पश्य॥

Siddhanta Kaumudi

Up

अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । स्त्रियाः । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु ॥ स्त्रियमतिक्रान्तोऽतिस्त्रिः । अतिस्त्रियौ ॥ गुणनाभावौत्त्वनुड्भिः परत्वात्पुंसि बाध्यते ॥ क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥जसि च <{SK241}> ॥ अतिस्त्रियः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रयः । वाम्शसोः <{SK302}> । अतिस्त्रियम् । अतिस्त्रिम् । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा । घेर्ङिति <{SK245}> ॥ अतिस्त्रये । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रियः । अतिस्त्रियः । अतिस्त्रीणाम् । अच्च घेः । अतिस्त्रौ ॥ ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । ङेप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रये । अतिस्त्रिणः । अतिस्त्रिणः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रिणोः । अतिस्त्रिणोः । अतिस्त्रियोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । ङिति ह्रस्वश्चे <{SK296}>ति ह्रस्वान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयङुवङ्स्थानावित्यस्यैव पर्युदासः । तत्संबद्धस्यैवानुवृत्तेर्दीर्घस्यायं निषेधो नतु ह्रस्वस्य । अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः । अतिस्त्रियाः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ ॥ श्रीः । श्रियौ । श्रियः ॥

Laghu Siddhanta Kaumudi

Up

अमि शसि च स्त्रिया इयङ् वा स्यात्। स्त्रियम्, स्त्रीम्। स्त्रियः, स्त्रीः। स्त्रिया। स्त्रियै। स्त्रियाः। परत्वान्नुट्। स्त्रीणाम्। स्त्रीषु॥ श्रीः। श्रियौ। श्रियः॥

Neelesh Sanskrit Detailed

Up

<<स्त्रियाः>> 6.4.79 इत्यनेन अजादिप्रत्यये परे स्त्री-शब्दस्य नित्यम् इयङ्-आदेशे प्राप्ते अम्-प्रत्यये परे शस्-प्रत्यये परे अनेन सूत्रेण केवलं वैकल्पिकः इयङ्-आदेशः भवति । यथा - 1. स्त्री + अम् → [इयङ्-आदेशस्य अभावे <<अमि पूर्वः>> 6.1.107 इति पूर्वरूपे] स्त्रीम् । [इयङ्-आदेशे कृते] स्त्रियम् । 1. स्त्री + शस् → [इयङ्-आदेशस्य अभावे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घे] स्त्रीः । [इयङ्-आदेशे कृते] स्त्रियः ।

Balamanorama

Up

<<वाऽम्शसोः>> - वाऽम्शसोः । वा-अम्शसोः इति च्छेदः । स्त्रिया इति इयङिति चानुवर्तते । तदाह — अमिशसि चेत्यादिना । स्त्रियमिति । इयङि रूपम् । स्त्रीमिति । इयङभावे-अमि पूर्वः । स्त्रियाविति । औटि रूपम् । स्त्रियः स्त्रीरिति । शसि 'वाम्शसोः' इति इयङि तदभावे च रूपम् । स्त्रियेति । इयङ् । स्त्रियै इति । 'आण्नद्या' इत्याट्, वृद्धिः, इयङ् । स्त्रिया इति । ङसिङसोराट्, वृद्धिः, इयङ् । स्त्रिया इति । ओसि इयङ् । परत्वान्नुडिति । आमि 'स्त्रियाः' इति इयङं बाधित्वा परत्वान्नुट् । स्त्रीणामिति । कृते नुटि अजादिविभक्त्यभावान्नेयङ् । स्त्रियामिति । ङेराम् इयङ् । अथ प्रसङ्गात्पुंसि नपुंसके च स्त्रीशब्दस्य विशेषं दर्शयति — स्त्रियमतिक्रान्तोऽतिस्त्रिरिति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः ।गोस्त्रियो॑रिति ह्रस्वत्वम् । दीर्घङ्यन्तत्वाऽभावादीकाररूपङ्यन्तत्वाऽभावाद्वा हल्ङ्यादिलोपो न भवति । अतिस्त्रियाविति । 'स्त्रियाः' इत्यस्याङ्गत्वात्तदन्तेऽपि एकदेशविकृतन्यायेन प्रवृत्तेरियङिति भावः ।अथ जस्, टा, ङे, ङसि, ङस्, आम्, ङीत्येषु अति स्त्रीशब्दस्य इयङ् नेत्येतत् श्लोकेन सङ्गृह्णाति — गुणनाभावेत्यादिना । पुंसि गुणनाभावौत्त्वनुङ्भिः, क्लीबे नुमा च परत्वात् स्त्रीशब्दस्य इयङ् बाध्यते-इत्यवधार्यतामित्यन्वयः । जसि चेति घेर्ङितीति च गुणः,आङो नाऽस्त्रिया॑मिति नात्वम्, 'अच्च घेः' इत्यौत्त्वम्, 'ह्रस्वनद्यापः' इति नुट्, 'इकोऽचि विभक्तौ' इति नुम् , एतेषामियङपेक्षया परत्वादित्यर्थः ।जसि चे॑त्यनन्तरम् 'इति गुण' इति शेषः । अतिस्त्रय इति । इयङं बाधित्वा गुणेऽयादेशे रूपम् । हे अतिस्त्रे इति । 'ह्रस्वस्य गुणः' इति गुणेएङ्ह्रस्वा॑दिति सम्बुद्धिलोपः । 'वाम्शसोः' इति इयङ् । अतिस्त्रीनिति । इयङ्भावे पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् । टा-अतिस्त्रिणा । इयङं बाधित्वा परत्वात्आङो नाऽस्त्रिया॑मिति नात्वम् । भ्यामादिष्वविकृतम् । ङे अतिस्त्रये । इयङं बाधित्वा परत्वात्घेर्ङिती॑ति गुणेऽयादेशः । ङसिङसोः-अतिस्त्रेः । परत्वात्घेर्ङिती॑ति गुणेङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रियोः । इयङ् । आमि इयङं । बाधित्वा परत्वान्नुटि नामीति दीर्घे णत्वम् — अति-स्त्रीणाम् । इयङं बाधित्वा परत्वात्अच्च घेः॑ । अतिस्त्रौ अतिस्त्रियोः अतिस्त्रिषु ।अथ पुंसि पूर्वश्लोकसिद्धमेवार्थं बालबोधाय लघुतरोपायेन संगृह्णाति — ओस्यौकारे चेत्यादिना । उपसर्जनत्वदशायां पुंसि विद्यमानस्य स्त्रीशब्दस्य अचि य इयादेशः 'स्त्रियाः' इति सूत्रविहितः स ओसि षष्ठीसप्तमीद्विवचने, औकारे च प्रथमाद्वितीयाद्विवचने च नित्यं स्यात् । अम्शसोस्तु विभाषया=विकल्पेन स्यात् । उक्तचतुर्भ्योऽन्यत्र तु अचि सर्वत्र इयादेशः स्यादिति योजना । क्लीवे तु नुमिति । 'इयङं बाधते' इति शेषः । अतिस्त्रि इति । स्त्रियमतिक्रान्तं कुलम्-अतिस्त्रि । 'स्वमोर्नपुंसकात्' इति सुलुक् । अतिस्त्रिणी इति । अतिस्त्रि-औ इति स्थितेनपुंसकाच्चे॑त्यौङः शीभावः । इयङं बाधित्वा परत्वात् 'इकोऽचि विभक्तौ' इति नुम् । असर्वनामस्थानत्वान्न दीर्घः । णत्वम् । अतिस्त्रीणीति ।जश्शसोः शिः॑ । स्त्रिया॑ इति इयङं जसि चेति गुणं च बाधित्वा नुम् ।शि सर्वनामस्थान॑मिति सर्वनामस्थानत्वाद्दीर्घः । णत्वम् । टा-अतिस्त्रिणा । इयङं नुम् च बाधित्वा नाभावः । ङेप्रभृतावजादाविति । ङे, ङसि,ङस्, आम्, ङि, ओस्-इत्येतेषुतृतीयादिषु भाषिते॑ति पुंवद्भावस्य वक्ष्यमाणत्वात्पुंवद्भावपक्षे पुंलिङ्गातिस्त्रिशब्दवद्रूपम् । पुंवत्त्वा ।भावपक्षे नुमि वारिवद्रूपमित्यर्थः । टायां तु पुंवत्त्वे तदभावे च नात्वे रूपे विशेषाऽभावान्ङेप्रभृतावित्युक्तम् । तिस्त्रये इति । पुंवत्त्वेघेर्ङिती॑ति गुणोऽयादेशः । अतिस्त्रिणे इति । पुंवत्त्वाऽभावे नुमि रूपम् । इहोभयत्रापि गुणेन नुमा च इयङ् बाध्यते । अतिस्त्रेरिति । ङसिङसोः पुंवत्त्वपक्षेघेर्ङिती॑ति गुणेङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रिण इति । ङसिङसोः पुंवत्त्वाऽभावपक्षे नुमि रूपम् । इहाप्युभयत्र गुणनुम्भ्यामियङ् बाध्यते । अतिस्त्रियोः अतिस्त्रिणोरिति । पुंवत्त्वाऽभावे नुम् । पुंवत्त्वे इयङ् । इत्यादीति । आमि पुंवत्त्वे तदभावे च इयङं बाधित्वा नुडेव, नतु नुम्,नुमचिरे॑ति वचनात् ।नामी॑ति दीर्घः । अतिस्त्रीणाम् । अतिस्त्रौ-अतिस्त्रिणि । अतिस्त्रियोः -अतिस्त्रिणोः । तदेवमुपसर्जनस्त्रीशब्दस्य पुंनपुंसकविषये रूपाणि प्रदश्र्य प्रकृतमनुसरतिस्त्रियां त्विति । स्त्रियमतिक्रान्तेति विग्रहे 'अत्यादयः' इति समासे 'गोस्त्रियोः' इति ह्रस्वत्वे सति अतिस्त्रिशब्दः । तस्य प्रायेण उदाहृतपुंलिङ्गाऽतिस्त्रिशब्दपद्रूपाणीत्यर्थः । शसि अतिस्त्रीरिति । 'वाम्शसोः' इति इयङभावे पूर्वसवर्णदीर्घे सत्यपि स्त्रीलिङ्गत्वात् 'तस्माच्छसः' इति नत्वं नेति । भावः । अतिस्त्रियेति । स्त्रीलिङ्गत्वान्नात्वाऽभावे इयङ् । ह्रस्वान्तत्वेति ।ङिति ह्रस्वश्चे॑त्यत्रइयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वास्तः॑ इति प्रथमं वाक्यं ।ह्रस्वाविवर्णोवर्णौ स्त्रिया नदीसंज्ञौ वा स्तः॑ इति द्वितीयं वाक्यम् । तत्र द्वितीयवाक्यादतिस्त्रिशब्दस्य ङित्सु नदीत्वविकल्प इत्यर्थः । ननुनेयङुवङ्स्थानावस्त्री॑त्यतोऽस्त्रीत्यस्यानुवृत्तेः कथमिह नदीत्वविकल्पैत्यत आह — अस्त्री इति त्विति ।इयङुवङ्स्थाना॑वित्यादिप्रथमवाक्यविहितनदीत्वस्यैवास्त्रीति पर्युदासो नतुह्रस्वा॑वित्यादिद्वितीयवाक्यविहितनदीत्वस्यापीत्यर्थः । कुत इत्यत आह — तत्संबद्धस्यैवानुवृत्तेरिति ।

Padamanjari

Up