3-2-64 वहः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि ण्विः छन्दसि
वहेर्धातोश्छन्दसि विषये सुबन्त उपपदे ण्विप्रत्ययो भवति। प्रष्ठवाट्। दित्यवाट्। योगविभाग उत्तरार्थः॥
प्राग्वत् । दित्यवाट् (दि॒त्य॒वाट्) । योगविभाग उत्तरार्थः ॥