Home
Prev 6.1.104
Next 6.1.106
दीर्घाज्जसि च 6-1-105 दीर्घात् जसि च संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः पूर्वसवर्णः न आत् इचि
Sampurna sutra Up
दीर्घात् इचि जसि च प्रथमयोः पूर्वसवर्णः न ।
Neelesh Sanskrit Brief Up
दीर्घस्वरात् प्रथमा-द्वितीययोः इच्-वर्णे परे तथा प्रथमा-बहुवचनस्य जस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घः न भवति ।
Neelesh English Brief Up
When दीर्घस्वर is followed by either the जस्-प्रत्यय, or a प्रत्यय of प्रथमा or द्वितीया विभक्ति that begins with a letter of इच्-प्रत्याहार, then the पूर्वसवर्णदीर्घ mandated by 'प्रथमयोः पूर्वसवर्णः' does not happen.
Kashika Up
दीर्घात् जसि इचि च परतः पूर्वसवर्णदीर्घो न भवति। कुमार्यौ, कुमार्यः। ब्रह्मबन्ध्वौ, ब्रह्मबन्ध्वः॥
Siddhanta Kaumudi Up
दीर्घाज्जसि इचि च परे प्रथमयोः पूर्वसवर्णदीर्घो न स्यात् । वृद्धिः । विश्वपौ । सवर्णदीर्घः । विश्वपाः । यद्यपीह औङि <<नादिचि ६.१.१०४>><{SK165}> इत्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति तथापि गौर्यौ गौर्य इत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्यम् ॥
Laghu Siddhanta Kaumudi Up
दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात् । विश्वपौ । विश्वपाः । हे विश्वपाः । विश्वपाम् । विश्वपौ ॥
Neelesh Sanskrit Detailed Up
अक्-वर्णात् प्रथमाद्वितीयाविभक्तेः अजादौ प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वपरयोः यः पूर्वसवर्णदीर्घैकादेशः विधीयते, तस्य अयम् निषेधः । दीर्घवर्णात् (इत्युक्ते, आकारात् / ईकारात् / ऊकारात् / ॠकारात्) प्रथमाद्वितीयाविभक्तेः इजादौ प्रत्यये परे (इत्युक्ते, औ/औट्-प्रत्यये परे) तथा च जस्-प्रत्यये परे अयम् पूर्वसवर्णदीर्घः न भवति — इति अस्य सूत्रस्य आशयः । उदाहरणानि एतानि —
1. औ/औट्-प्रत्यये परे पूर्वसवर्णदीर्घनिषेधः —
1. 'माले' शब्दस्य सिद्धिः —
माला + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]
→ माला + शी [<<औङः आपः>> 7.1.18 इति औट्-प्रत्ययस्य शी-आदेशः]
→ माला + ई [<<लशक्वतद्धिते>> 1.3.7 इति शकारस्य इत्संज्ञा, लोपः]
→ माले [<<आद्गुणः>> 6.1.87 इत्यनेन गुण-एकादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घाज्जसि च>> 6.1.105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः <<आद्गुणः>> 6.1.87 इत्यनेन गुण-एकादेशः ]
2. 'हाहौ' शब्दस्य सिद्धिः —
हाहा + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]
→ हाहौ [<<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्धि-एकादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घाज्जसि च>> 6.1.105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः भवति । अतः <<वृद्धिरेचि>> 6.1.88 इत्यनेन वृद्धि-एकादेशः भवति । ]
3. 'नद्यौ' शब्दस्य सिद्धिः —
नदी + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]
→ नद्यौ [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घाज्जसि च>> 6.1.105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः भवति । अतः <<इको यणचि>> 6.1.77 इत्यनेन यणादेशः भवति । ]
अनेनैव प्रकारेण वधू + औ → वध्वौ , हूहू + औ → हूह्वौ एतौ शब्दौ अपि सिद्ध्यतः ।
2. जस्-प्रत्यये परे पूर्वसवर्णदीर्घनिषेधः —
1) 'मालाः' शब्दस्य सिद्धिः —
माला + जस्
→ मालास् [<<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घात् जसि च>> 6.1.105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घः]
→ मालारुँ [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्]
→ मालाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
एवमेव हाहा + जस् → हाहाः इत्यपि शब्दः सिद्ध्यति ।
2. 'नद्यः' शब्दस्य सिद्धिः —
नदी + जस्
→ नदी + अस् [जकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ नद्यस् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशे प्राप्ते ; युगपद् एव <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; <<दीर्घात् जसि च>> 6.1.105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः <<इको यणचि>> 6.1.77 इत्यनेन यणादेशः भवति । ]
→ नद्यरुँ [<<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ नद्यः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
एवमेव वधू + जस् → वध्वः , हूहू + जस् → हूह्वः इत्यपि शब्दौ सिद्ध्यतः ।
सूत्रनिर्माणस्य प्रयोजनम्
उपरि निर्दिष्टेभ्यः उदाहरणेभ्यः 'माले, मालाः, हाहाः' एतेषां सिद्धौ आवश्यकः पूर्वसवर्णदीर्घनिषेधः वस्तुतस्तु <<नादिचि>>
6.1.104 इति सूत्रेण अपि भवितुम् अर्हति । अतः एतेषाम् कृते प्रकृतसूत्रम् नैव निर्मितम् । तर्हि, ईकारान्त/ऊकारान्तशब्दानाम् औ/औट्/जस्-प्रत्ययान्तरूपाणाम् सिद्धौ यः पूर्वसवर्णदीर्घनिषेधः इष्यते, सः <<नादिचि>>
6.4.104 इत्यनेन नैव सम्भवति, अतः तेषाम् कृते इदं सूत्रम् निर्मितम् अस्ति । अतएव 'नद्यौ, वध्वौ, हूह्वौ, नद्यः, वध्वः, हूह्वः' इत्येतानि एव अस्य शब्दस्य उचिततराणि उदाहरणानि ज्ञेयानि । यदा एतेषाम् कृते सूत्रं निर्मीयते, तदा <<पर्जन्यवल्लक्षणप्रवृत्तिः>> इति परिभाषया 'माले, मालाः, हाहाः' एतेषाम् कृते अपि अस्य प्रसक्तिः अवश्यं भवत्येव ।
Balamanorama Up
<<दीर्घाज्जसि च>> - दीर्घाज्जसि च । <<प्रथमयोः>>6.1.102 इत्यतः 'पूर्वसवर्ण' इति <<नादिचि>>6.1.104 इत्यतो नेति इचीति चानुवर्तते । तदाह दीर्घादित्यादिना । नन्विदं सूत्रं व्यर्थं, <<नादिचि>>6.1.104 इत्येव सिद्धेरिति शङ्कते - यद्यपीहेति । ननु जसि विश्वपा-असिति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिदं सूत्रमावश्यकं, तत्र <<नादिचि>>6.1.104 इत्यस्याप्रवृत्तेरित्यत आह - जसि त्विति । माऽस्तु पूर्वसवर्णदीर्घनिषेधः । पूर्वसवर्णदीर्घे सत्यपि जसि 'विश्वपाः' इति सिध्यति । तन्निषेधे सत्यपि <<अकः सवर्णे दीर्घः>>6.1.101 इति कृतेऽपि 'विश्वपाः' इत्येव रूपं सिध्यति । अतः किं तन्निषेधेनेत्यर्थः । परिहरति — तथापीति । इत्यादीति । आदिना लक्ष्म्यावित्यादिसङ्ग्रहः । तत्र <<नादिचि>>6.1.104 इत्यस्याप्रसक्त्या तन्निषेध आवश्यक इति भावः । ननु <<दीर्घाज्जसि च>> इति सूत्रं यदि 'गौर्यौ' इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरीशब्दनिरूपणावसर एव तदुपन्यासो युक्त इत्यत आह - इहापीति । विश्वपावित्यत्र <<नादिचि>>6.1.104 इत्यस्य <<दीर्घाज्जसि च>> इत्यस्य च प्राप्तौ परत्वेन <<दीर्घाज्जसि च>> इत्यस्यैवोपन्यासौचित्यादित्यर्थः । <<अमि पूर्वः>>6.1.107 । विश्वपाम् ।
Padamanjari Up