6-4-104 चिणः लुक् असिद्धवत् अत्र आभात् क्ङिति
चिणः लुक्
चिण्-विकरणात् उत्तरस्य (तिङ्-प्रत्ययस्य) लुक् भवति ।
The तिङ् प्रत्यय that follows the चिण् विकरणप्रत्यय undergoes a लुक्.
चिण उत्तरस्य प्रत्ययस्य लुग् भवति। अकारि। अहारि। अलावि। अपाचि। अकारितराम् अहारितमामित्यत्र तलोपस्यासिद्धत्वात् तरप्तमपोर्न लुग् भवति, चिणो लुगित्येतद् विषयभेदाद् भिद्यते॥
चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट ।{$ {!489 तायृ!} सन्तानपालनयोः$} । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट ।{$ {!490 शल!} चलनसंवरणयोः$} ।{$ {!491 वल!} {!492 वल्ल!} संवरणे संचरणे च$} । ववले । ववल्ले ।{$ {!493 मल!} {!494 मल्ल!} धारणे$} । मेले । ममल्ले ।{$ {!495 भल!} {!496 भल्ल!} परिभाषणहिंसादानेषु$} । बभले । बभल्ले ।{$ {!497 कल!} शब्दसंख्यानयोः$} । कलते । चकले ।{$ {!498 कल्ल!} अव्यक्ते शब्दे$} । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च ।{$ {!499 तेवृ!} {!500 देवृ!} {!501 षेवृ!} {!502 गेवृ!} {!503 ग्लेवृ!} {!504 पेवृ!} {!505 मेवृ!} {!506 म्लेवृ!} सेवने$} । परिनिविभ्यः - <{SK2275}> इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके ।{$ {!507 रेवृ!} प्लवगतौ$} । प्लवगतिः प्लुतगतिः रेवते ॥ अथावत्यन्ताः परस्मैपदिनः ॥{$ {!508 मव्य!} बन्धने$} । ममव्य ।{$ {!509 सूर्क्ष्य!} {!510 ईर्क्ष्य!} {!511 ईर्ष्य!} ईर्ष्यार्थाः$} ।{$ {!512 हय!} गतौ$} । अहयीत् । यान्तात्वान्नवृद्धिः ।{$ {!513 शुच्य!} अभिषवे$} । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके ।{$ {!514 हर्य!} गतिकान्त्योः $}। जहर्य{$ {!515 अल!} भूषणपर्याप्तिवारणेषु$} । अलति । आल ॥
चिणः परस्य लुक् स्यात्॥
'चिण्' इति कश्चन विकरणप्रत्ययः । लुङ्-लकारस्य विषये <<च्लि लुङि>> 3.1.43 इत्यनेन च्लि-विकरणप्रत्यये प्राप्ते तस्य केषाञ्चन धातूनां विषये 'चिण्' आदेशः भवति । अस्मात् आदेशात् परस्य तिङ्-प्रत्ययस्य अनेन सूत्रेण लुक् विधीयते । यथा - 1. जन्-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् - जन् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → जन् + ल् [इत्संज्ञालोपः] → अट् + जन् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + जन् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य विकरणप्रत्ययः 'च्लि'] → अ+ जन् + चिण् + ल् [<<दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्>> 3.1.61 इति जन्-धातोः परस्य च्लि-प्रत्ययस्य वैकल्पिकः चिण्-आदेशः] → अ+ जन् + इ + ल् [<<अत उपधायाः>> 7.2.116 इत्यनेन उपधावृद्धौ प्राप्ते; <<जनिवध्योश्च>> 7.3.35 इत्यनेन चिण्-प्रत्यये परे उपधावृद्धिनिषेधः] → अ + जन् + इ + तिप् [<<तिप्तस्...>> 3.4.78 इति तिप्-प्रत्ययः] → अ + जन् + इ [<<चिणो लुक्>> 6.4.104 इत्यनेन चिण्-प्रत्ययात् उत्तरस्य तिङ्-प्रत्ययस्य लुक् भवति] → अजनि 2. गद् -धातोः कर्मणि-प्रयोगे लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् - गद् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ् ] → अ + गद् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + गद् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य विकरणप्रत्ययः 'च्लि'] → अ + गद् + च्लि + त [<<तिप्तस्...>> 3.4.78 इति भावकर्मविवक्षायामात्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः] → अ + गद् + चिण् + त [<<चिण्भावकर्मणोः>> 3.1.66 इति कर्मणिप्रयोगे च्लि-इत्यस्य तकारादौ प्रत्यये परे चिण्-आदेशः] → अ + गाद् + इ + त [<<अत उपधायाः>> 7.2.116 इति उपधावृद्धिः] → अगादि [<<चिणो लुक्>> 6.4.104 इति प्रत्ययस्य लुक्] ज्ञातव्यम् - अस्मिन् सूत्रे 'तिङ्-प्रत्ययस्य' लुक् भवतीति स्पष्टरूपेण नोच्यते । परन्तु इदम् सूत्रमङ्गाधिकारे आगच्छति, अतः अङ्गात् परस्य 'प्रत्ययस्यैव' लुक् भवितुमर्हति । अस्मिन् विषये काशिकान्यासे उच्यते - 'अथ प्रत्ययस्य एतत् कुतः लभ्यते? <<अङ्गस्य>> 6.4.1 इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात् ।'
<<चिणो लुक्>> - चिणो लुक् । 'चिण' इति पञ्चमी । तदाह — चिणः परस्येति । चिणः परश्च अर्थात्तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह् — अप्यायिष्टेति रूपम् । शल चलने इत्यारभ्य तेवृ इत्यतः प्राग्लान्ताः । तेवृ इत्यारभ्य रेवत्यान्ता वकारान्ताः । षेवृदातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्रसात्पदाद्यो॑रिति निषेधे प्राप्ते आह — परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात्षत्वमिति भावः । अयं सोपदेशोऽपीति । षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह — प्लवगतिः- प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । 'अव रक्षणे' इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अलभूषणेत्यतः प्राग्यकारान्ताः । अल भूषणेत्यारभ्य खोरृ प्रतीघाते इत्यतः प्राग्लकारान्ताः ।
चिण इति पञ्चमी, न षष्ठी विधानसामर्थ्यात् । प्रत्ययस्येति । प्रत्ययस्य लुक्शलुलुपः, इति वचनादङ्गाधिकाराच्चैतल्लभ्यते । तेनाकारितरामिति तश्बदस्य तरप आमश्च यः सङ्घातस्तस्य युगपल्लुग्न भवति प्रत्येकं प्रत्ययत्वेऽपि सङ्घातोऽप्रत्ययो ह्ययम् । ननु चेदमस्मिन्नसिद्धमिति भेदनिबन्धनो विषयविषयिभावः, तत्कथं चिणो लुक्चिणो लुक्येवासिद्धो भवति अत ताअह - चिणो लुगित्येतदिति । अथ वा - क्ङितीति वर्तते, चिणः इति पञ्चमी तस्य षष्ठी प्रकल्पयिष्यति, तेन क्ङितः प्रत्ययस्य लुग्विधीयमानस्तरपो न भविष्यति ॥