7-1-18 औङः आपः शी
आपः अङ्गात् औङः शी
आबन्तात् अङ्गात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः भवति ।
The औ and औट्-प्रत्ययs following a आबन्त अङ्ग get the आदेश 'शी'.
आबन्तादङ्गादुत्तरस्यौङः शीत्ययमादेशो भवति। खट्वे तिष्ठतः। खट्वे पश्य। बहुराजे। कारीषगन्ध्ये। ङकारः सामान्यग्रहणार्थः, औटोऽपि ग्रहणं यथा स्यात्।
औकारोऽयं शीविधौ ङिद् गृहीतो ङिच्चास्माकं नास्ति कोऽयं प्रकारः।
सामान्यार्थस्तस्य चासञ्जनेऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तं स दोषः॥ १॥
ङित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच्च विद्यात् तदादौ।
वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात्॥ २॥
आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥
आबन्तादङ्गात्परस्यौङः शी स्यात्। औङित्यौकारविभक्तेः संज्ञा। रमे। रमाः॥
प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् पदानामर्थम् जानीमः - 1. 'आबन्तः' इत्युक्ते 'आप्' यस्य अन्ते अस्ति सः । आप्-इति स्वयम् कश्चन प्रत्ययः नास्ति, अपितु आप्-इत्यनेन टाप, डाप्, चाप्' एतेषाम् त्रयाणाम् प्रत्ययाणाम् ग्रहणं क्रियते । एते त्रयः स्त्री-प्रत्ययाः सन्ति । अतः आबन्तशब्दः इत्युक्ते सः शब्दः यस्य अन्ते टाप् / चाप् / डाप् प्रत्ययः अस्ति सः । सर्वे आकारान्तस्त्रीलिङ्गशब्दाः अनेन गृह्यन्ते । 2. 'औङ्' इत्युक्ते औ / औट् । प्रथमाद्विवचनस्य द्वितीयाद्विवचनस्य प्रत्ययस्य च अनेन ग्रहणं भवति । अयमपि स्वयंरूपेण प्रत्ययः नास्ति, केवलं द्वयोः प्रत्ययोः निर्देशार्थमस्य निर्देशः कृतः अस्ति । 3. शी - अयमादेशरूपेण प्रोक्तः अस्ति । अनेकाल्त्वात् अत्र <<अनेकाल् शित्सर्वस्य>> 1.1.55 इत्यनेन सर्वादेशः भवति । ('शी' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः <<लशक्वतद्धिते>> 1.3.8 इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः औ/औट्-इत्येतयोः स्थाने प्रारम्भे 'शी' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शी' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य <<लशक्वतद्धिते>> 1.3.8 इत्यनेन इत्संज्ञा लोपश्च विधीयते ) । इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - 'आकारान्तस्त्रीलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-द्विवचनस्य प्रत्यययोः शी-आदेशः भवति' इति । यथा - माला + औ / औट् → माला + शी [<<औङः आपः>> 7.1.18 इति शी-आदेशः] → माला + ई [<<लशक्वतद्धिते>> 1.3.8 इति शकारस्य इत्संज्ञा] → माले [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः]
<<औङ आपः>> - अथ रमा औ इति स्थिते — ओङ आपः ।आप इति पञ्चमी । प्रत्ययग्रहणपरिभाषया आबन्तं विवक्षितम् ।अङ्गस्ये॑त्यदिकृतं पञ्चम्या विपरिणम्यते । 'औङः' इति षष्ठी ।जसः शी॑त्यतःशीत्यनुवर्तते । तदाह — आबन्तादिति । औङ्शब्दस्याऽप्रसिद्धार्थत्वादाह — औङितीति । संज्ञेति ।प्राचां शास्त्रे स्थिते॑ति शेषः । रमे इति । 'रमा औ' इति स्थिते शीभावे तस्य स्थानिवत्त्वेन प्रत्ययत्वा॒ल्लशक्वतद्धिते॑ इति शस्येत्संज्ञायां लोपे 'आद्गुणः' इति एकारः ।यस्येति चे॑ति लोपस्तु न, अभत्वात् । जसि (अकः सवर्णे) इति सवर्णदीर्घं मत्वाह — रमा इति । पूर्वसवर्णदीर्घस्तु न, न भवति,दीर्घाज्जसि चे॑ति निषेधात् । हे रमा स् इति स्थिते ।
औङ्ः इति निर्द्देशं क्रियमाणमनुवादपूर्वमाक्षिपति । औकारोऽयमिति । कोऽयं प्रकारः, कृत्सितोऽयं सूत्रप्रणयनप्रकारः, सिद्धस्य ह्यनुवाद उपपद्यते, यथा - णेóर्यः इति, अयं तु न क्वापि सिद्ध इति परिहरति - कामान्यार्थ इति । औतः इत्युच्यमाने प्रथमाद्विवचनस्यैव स्यान्रिनुबन्धकत्वात्, न सानुबन्धकस्यौटः । यद्यपि टकारः प्रत्याहारार्थत्वात्समुदायानुबन्धः, तथापि प्रत्ययानुबन्धत्वमपि तस्याविरुद्धम् । व्द्यर्था अपि हेतवो भवन्ति, तद्यथा - आम्राश्च सिक्ताः पितरश्च प्रीणिताः इति, औट इत्युच्यमाने प्रथमाद्विवचनस्य न स्यात् । तस्माद् द्वयोरपि सामान्यग्रहणार्थो ङ्कारानुबन्धनिर्द्देशः । नन्वसतोऽवुवादोऽनुपपन्न इत्याक्षेपः, तत्र प्रयोजनाभिधानमसङ्गतम् नैष दोषः, ओदौटोरौणिंति वधिवाक्यमस्मादेवानुवादादनुमास्यते, तस्यैव प्रयोजनाभिधानम् । पुनश्चोदयति - तस्य चेति । तस्य ङ्कारानुबन्धस्यासञ्जनेऽस्मिन्नेवं विज्ञायमाने ङ्त्कायिं याडापः इत्येतते एवंवादिनस्तव, श्यां शीशब्दे परतः, प्रसक्तम् । प्रसजतु नाम तत्राह - स दोष इति । दोष इत्यनेन सामानाधिकरण्यात्स इति पुंल्लिङ्गनिर्द्देशः । परिहरति - ङ्त्वि इति । वर्णमात्रनिर्द्देशः इति ववक्षितम्, वृतभङ्गभयात्वस्थाने माक्षशब्दः प्रयुक्तः । याडापः इत्यत्र ङ्तीइति यदनुवृतं न स बहुव्रीहिः ङ् इद्यस्येति किं तर्हि कर्मधारयः - ङ्श्चासविच्चेति, ततः किम् इत्यत आह वर्णे यत्स्यादिति । यस्मिन्विधिस्तदादावल्ग्रहणे । अयं तावन्ङ्त्विमभ्युपेत्य परिहार उक्तः, ङ्त्विमेव तु नास्तीत्याह - वर्णश्चायमिति । चशब्दो वार्थे पठितः । वर्णो वायमित्येव वा पाठः । औङिति वर्णो वायमुपातो न प्रत्ययः । ङ्कारस्तु मुखसुखार्थः, यथा - ऋदोरप् इत्यत्र दकारः । अङ्गाक्षिप्तस्य प्रत्ययस्य तेन विशेषणादौकारान्तस्य प्रत्ययस्येत्यर्थः । वर्णरुपतया चौकारग्रहणे सति द्वयोरप्यौकारयोर्ग्रहणं भवति प्रत्ययविषयत्वादननुबन्धकपरिभाषायाः । ङ्त्वेऽप्यिदोष इति । ङ्त्वे सिति यो दोषः सोऽपि न भवति, ङ्त्विस्यैवाभावादित्यर्थः, पूर्वेण वा परिहारेणास्यान्वयः । परिहारान्तरमाह - निर्देशोऽयमिति । पूर्वाचार्याणां हि सूत्रे द्वे अप्येते द्विवचने औङिति पठ।लेते, तदाश्रयेणायं निर्देशः, तेन द्वयोरपि ग्रहणं भवति । न च ङित्कार्यप्रसङ्गः, न हि पूर्वाचार्यानुबन्धैरिह कार्याणि क्नियन्ते ॥