स उत्तमस्य

3-4-98 सः उत्तमस्य प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लेटः वा लोपः

Kashika

Up

index: 3.4.98 sutra: स उत्तमस्य


लेटः इति वा इति च वर्तते। लेट्सम्भन्धिन उत्तमपुरुषस्य सकारस्य वा लोपो भवति। करवाव, करवाम। न च भवति। करवावः, करवामः। उत्तमग्रहणम्, पुरुषान्तरे मा भूत्।

Siddhanta Kaumudi

Up

index: 3.4.98 sutra: स उत्तमस्य


लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥

Padamanjari

Up

index: 3.4.98 sutra: स उत्तमस्य


करवाव, करवामेति । पूर्ववद्गुणोत्वाभावौ,'लेटो' डाटौऽ इत्याट् । उतरग्रहणमित्यादि । इह वस्मस्ग्रहणमेव कर्तव्यम् ।'तत्रायमप्यर्थः - स इति न वक्तव्यं भवति, ठलो' न्त्यस्यऽ इत्येव सिद्धम् । यदा च पुरुषान्तरस्य स्थाने वस्मसौ भवतः, एतयोश्च स्थाने सकारान्तं पुरुषान्तरम्, तदापि वाग्रहणानुवृत्यैव लोपालोपौ यथादर्शनं व्यवस्थितौ भविष्यतः । यथाक्रियमाणेऽप्युतम प्रहणे वाग्रहणं चानुवर्तते, उतरत्र नित्यग्रहणं स्यात्'नित्यं ङ्तिः' ॥