शल इगुपधादनिटः क्सः

3-1-45 शलः इगुपधात् अनिटः क्सः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः

Sampurna sutra

Up

इगुपधात् शलः च्लेः अनिटः क्सः

Neelesh Sanskrit Brief

Up

यः शल्-वर्णान्तः इगुपधः अनिट्-धातुः, तस्मात् परस्य च्लि-प्रत्ययस्य क्स-आदेशः भवति ।

Neelesh English Brief

Up

The च्लि प्रत्यय that follows a शल्-वर्णान्त, इगुपध and अनिट्-धातु is converted to 'क्स.

Kashika

Up

शलन्तो यो धातुरिगुपधः, तस्मात् परस्य च्लेरनिटः क्स आदेशो भवति। दुह — अधुक्षत्। लिह — अलिक्षत्। शल इति किम्? अभैत्सीत्। अच्छैत्सीत्। इगुपधादिति किम्? अधाक्षीत्। अनिट इति किम्? अकोषीत्। अमोषीत्॥

Siddhanta Kaumudi

Up

इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ॥

Laghu Siddhanta Kaumudi

Up

इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्। अधुक्षत्॥

Neelesh Sanskrit Detailed

Up

लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु यः धातुः अनिट् अस्ति, यस्य अन्ते शल्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - श्/ ष् / स् / ह् - एतेषु कश्चन वर्णः अस्ति) तथा उपधायाम् इक्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - इ, उ, ऋ, ऌ - एतेषु कश्चन वर्णः अस्ति), तस्मात् परस्य च्लि-विकरणस्य वर्तमानसूत्रेण 'क्स' आदेशः भवति । धातुपाठे एतादृशाः अनिट्-इगुपध-शलन्त-धातवः आहत्य सप्तदश सन्ति - [शकारान्ताः] - दिश्, विश्, रिश्, लिश्, मुश्, क्रुश् , रुश्, स्पृश् [षकारान्ताः] - त्विष्, द्विष्, श्लिष्, कृष् [सकारान्ताः न सन्ति ।] [हकारान्ताः] - मिह्, लिह्, दिह्, दुह्, रुह् । एतेषां सर्वेषां विषये अनेन सूत्रेण च्लि-इत्यस्य क्स-आदेशः भवति । धातुपाठे गुह्, गृह्, बृह्, तृह् स्तृह् - एते पञ्च वेट्-धातवः अपि इगुपध-शलन्ताः सन्ति । अतः एतेषां प्रयोगः यदा 'अनिट्' रूपेण क्रियते तदा एतेषां परस्य च्लि-प्रत्ययस्य क्स-आदेशः विधीयते । अत्र त्रयः बिन्दवः ज्ञातव्याः - 1. <<श्लिष आलिङ्गने>> 3.1.46 इत्यनेन श्लिष्-धातोः केवल् 'आलिङ्गन' अस्मिन् अर्थे एव क्स-आदेशः विधीयते, अन्येषु अर्थेषु न । 2. <<न दृशः>> 3.1.47 इत्यनेन दृश्-धातोः क्स-प्रत्ययः न भवति । 3. <! स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः !> । अनेन वार्तिकेन स्पृश्, मृश्, कृष्, तृप्, दृप् - एतेषां विषये च्लि-इत्यस्य विकल्पेन 'सिच्' आदेशः अपि भवति । (स्पृश्, मृश् कृष् - एतेषाम् विषये वर्तमानसूत्रेण च्लि-इत्यस्य क्स-आदेशे प्राप्ते अनेन वार्तिकेन विकल्पेन 'सिच्' आदेशः अपि भवति । तृप्, दृप् - एतयोः विषये <<पुषादिद्युताद्यॢदितः परस्मैपदेषु>> 3.1.55 इत्यनेन अङ्-आदेशे प्राप्ते तस्य अपवादत्वेन अनेन वार्त्तिकेन विकल्पेन 'सिच्' आदेशः अपि भवति ।) 'क्स' अयमादेशः 'कित्' अस्ति, अतः गुणवृद्धिनिषेधादीनि कार्याणि अस्मिन् प्रत्यये परे दृश्यन्ते । कानिचन उदाहरणानि एतानि - 1. लिह्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - लिह् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → लिह् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति च्लि-विकरणप्रत्ययः] → लिह् + क्स + ल् [<<शल इगुपधादनिटः क्सः>> 3.1.45 इति क्स-आदेशः । कित्वात् <<क्ङिति च>> 1.2.5 इति लघूपधगुणनिषेधः ] → लिह् + स + ल् [ककारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → अट् + लिह् + स + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अ + लिह् + स + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + लिह् + स + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ + लिढ् + स + त् [<<हो ढः>> 8.2.31 इति हकारस्य ढकारः] → अ + लिक् + स + त् [<<षढोः क सि>>8.2.41 इति ककारः] → अ + लिक् + ष + त् [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] → अलिक्षत् । 2. द्विष् -धातोः लुङ्लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् - द्विष् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → द्विष् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति च्लि-विकरणप्रत्ययः] → द्विष् + क्स + ल् [<<शल इगुपधादनिटः क्सः>> 3.1.45 इति क्स-आदेशः । कित्वात् <<क्ङिति च>> 1.2.5 इति लघूपधगुणनिषेधः ] → द्विष् + स + ल् [ककारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → अट् + द्विष् + स + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अ + द्विष् + स + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → अ + द्विक् + स + त [<<षढोः क सि>>8.2.41 इति ककारः] → अ + द्विक् + ष + त [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] → अद्विक्षत 3. दिश्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - दिश् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → दिश् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति च्लि-विकरणप्रत्ययः] → दिश् + क्स + ल् [<<शल इगुपधादनिटः क्सः>> 3.1.45 इति क्स-आदेशः । कित्वात् <<क्ङिति च>> 1.2.5 इति लघूपधगुणनिषेधः ] → दिश् + स + ल् [ककारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → अट् + दिश् + स + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अ + दिश् + स + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + दिश् + स + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ + दिष् + स + त् [<<व्रस्चभ्रस्ज...>> 8.2.36 इति षत्वम्] → अ + दिक् + स + त् [<<षढोः क सि>>8.2.41 इति ककारः] → अ + दिक् + ष + त् [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] → अदिक्षत्

Balamanorama

Up

<<शल इगुपधादनिटः क्सः>> - शल इगुपधा । शलन्त इति । 'धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशे,णत्वात्तदन्तविधिरिति भावः । सिचोऽपवादः । क्सादेशोऽदन्तः । ककार इत् । अघृक्षतेति । च्लेः क्सः । तस्य कित्त्वादृकारस्य न गुणः । हस्य ढः, भष्भावः, ढस्य कः, षत्वमिति भावः ।

Padamanjari

Up

शल ङ्गुपधादनिटः क्सः॥ शलन्तो यो धातुरिगुपध इति ननु च्लेर्गुणनिमितत्वादकृत एव क्से लावस्थायामेव गुणः प्रप्नोति, ततश्चेगुपधादिति विशेषणं न प्रकल्प्यते? नैष दोषः; विशेषणसामर्थ्यात्प्रागेव गुणात् क्सो भविष्यति। ननु च कृतेऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सो भविष्यति, कित्करणमिदानीं किमर्थं स्यात्?'क्सस्याचि' इति विशेषणार्थम्।'सस्याचि' इत्युच्यमाने पुनर्वदिहनिकमिकषिभ्यः से वत्सौ वत्साः - अत्रापि प्राप्नोति? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ इत्यनर्थकत्वान्न भविष्यति। एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः - तृणान्यस्मिन्देशे सन्ति तृणसौ तृणसा इति? नैतदेवम्;'घोर्लोपो लेटि वा' इति प्रकरणे - धातुप्रत्ययानां ग्रहणम्, किं च'लुग्वादुहदिह' इत्यत्राचिऽ इत्यतः क्सस्येति वर्तते, तेच दुहादिषु यस्य सम्भवः, पूर्वसूत्रेऽपि तस्यैव ग्रहणं भविष्यति। तदेवं कित्करणसामर्थ्याद् गुणो न भवतीति स्थितम्। च्लेरनिट इति। यद्यपि च्लेः सिजादिभिरादेशैर्भवितव्यमिति क्वचिदप्यश्रवणान्न सेट्त्वमनिट्त्वं वा, तथापि दुह् ल इति स्थिते क्सस्यायं विषय इति सिचा न भाव्यम्। क्सोऽपि तावन्न भवति, यावदस्यानिट्त्वं न ज्ञातम्, तत्र लकारस्यैवेटः प्राप्तौ तन्निषेधात्सेट्त्वमनिट्त्वं च निरूप्यते इति विशेषणोपपतिः। अघुक्षदित्यादि।'दादेर्द्धातोर्घः' , ठेकाचो वशो भष्ऽ। अलिक्षदिति।'लिह आस्वादने' 'हो ढः' ।'भिदिर्विदारणे' 'च्छिदिर्द्वैधीकरणे' 'कुष निष्कर्षे' 'मुष स्तेये' ॥