पुषादिद्युताद्यॢदितः परस्मैपदेषु

3-1-55 पुषादिद्युताद्य्लृदितः परस्मैपदेषु प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः अङ्

Sampurna sutra

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


पुषादि-द्युतादि-ऌदितः च्लेः परस्मैपदेषु अङ्

Neelesh Sanskrit Brief

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


पुषादिगणस्य धातुभ्यः परस्य , द्युतादिगणस्य धातुभ्यः परस्य तथा ऌदित-धातुभ्यः परस्य च्लि-इत्यस्य परस्मैपदस्य प्रत्यये परे अङ्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


For the verbs of पुषादिगण and द्युतादिगण, as well as for the ऌदित verbs, च्लि is converted to अङ् when followed by a प्रत्यय of परस्मैपद.

Kashika

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


द्युतादिभ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतः अङादेशो भवति। पुषादिर्दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र्याद्यन्तर्गणः। पुष अपुषत्। द्युतादि अद्युतत्। अश्वितत्। ल्̥दिद्भ्यःगम्ल्̥ अगमत्। शक्ल्̥ अशकत्। परस्मैपदेषु इति किम्? व्यद्योतिष्ट। अलोटिष्ट।

Siddhanta Kaumudi

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ स्यात्परस्मैपदेषु । अघसत् ।{$ {!716 जर्ज!} {!717 चर्च!} {!718 झर्झ!} परिभाषणहिंसातर्जनेषु$} ।{$ {!719 पिसृ!} {!720 पेसृ!} गतौ$} । पिपिसतुः । पपेसतुः ।{$ {!721 हसे!} हसने$} । एदित्त्वान्न वृद्धिः । अहसीत् ।{$ {!722 णिश!} समाधौ$} । तालव्योष्मान्तः । प्रणेशति ।{$ {!723 मिश!} {!724 मश!} शब्दे रोषकृते च $}। तालव्योष्मान्तौ ।{$ {!725 शव!} गतौ$} । दन्तयोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् ।{$ {!726 शश!} प्लुतगतौ$} । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ ।{$ {!727 शसु!} हिंसायाम्$} । दन्त्योष्मान्तः । न शसदद - <{SK2263}> इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ ।{$ {!728 शंसु!} स्तुतौ$} । अयं दुर्गतावपीति दुर्गः । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् ।{$ {!729 चह!} परिकल्कने$} । कल्कनं शाठ्यम् । अचहीत् ।{$ {!730 मह!} पूजायाम्$} । अमहीत् ।{$ {!731 रह!} त्यागे$} ।{$ {!732 रहि!} गतौ$} । रंहति । रंह्यात् ।{$ {!733 दृह!} {!734 दृहि!} {!735 बृह!} {!736 बृहि!} वृद्धौ$} । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् । बृहिर् इत्येके । अबृहत् । अबर्हीत् ।{$ {!737 तुहिर्!} {!738 दुहिर्!} {!739 उहिर्!} अर्दने$} । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । माभवानुहत् । औहीत् ।{$ {!740 अर्ह!} पूजायाम्$} । आनर्ह ॥ अथ कृपूपर्यान्ता अनुदात्तेतः ॥{$ {!741 द्युत!} दीप्तौ$} । द्योतते ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु। अगमत्। अगमिष्यत्॥ इति परस्मैपदिनः ॥

Neelesh Sanskrit Detailed

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु परस्मैपदस्य प्रत्ययेषु परेषु पुषादिगणस्य धातुभ्यः परस्य , द्युतादिगणस्य धातुभ्यः परस्य तथा ऌदित-धातुभ्यः परस्य च्लि-इत्यस्य अनेन सूत्रेण 'अङ्' आदेशः विधीयते । क्रमेण पश्यामः -

1) पुषादिगणः - दिवादिगणे 'पुषादि'नाम अन्तर्गणः अस्ति, यस्मिन् आहत्य 62 धातवः सन्ति । एतेषां सर्वेषाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति ।

अस्य गणस्य विषये द्वौ विशेषौ ज्ञातव्यौ -

अ) तृप् तथा दृप् - एतौ द्वौ धातू पुषादिगणे स्तः, परन्तु अनेन सूत्रेण एतयोः परस्य च्लि-प्रत्ययस्य विकल्पेन एव अङ्-आदेशः भवति । पक्षे च्लेः सिच् 3.1.44 इति सिच्-आदेशः भवति ।

आ) 'श्लिष्' अयं धातुः पुषादिगणे अस्ति, परन्तु 'आलिङ्गनम्' अस्मिन् अर्थे अस्मात् परस्य च्लि-इत्यस्य श्लिष आलिङ्गने 3.1.46 इत्यनेन 'क्स' प्रत्ययः भवति । अन्येषु अर्थेषु तु वर्तमानसूत्रेण अङ्-आदेशः एव विधीयते ।

यथा, पुष्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -

पुष् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ पुष् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]

→ पुष् + अङ् + ल् [पुषादिद्युताद्यॢदितः परस्मैपदेषु 3.1.55 इति च्लि-इत्यस्य अङ्-आदेशः]

→ अट् + पुष् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + पुष् + अ + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]

→ अ + पुष् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अपुषत्

2) द्युतादिगणः - भ्वादिगणे 'द्युतादिगण' नाम अन्तर्गणः अस्ति, यस्मिन् आहत्य 14 धातवः सन्ति । एतेषां सर्वेषाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । अस्य गणस्य विषये एकः विशेषः स्मर्तव्यः - अस्य गणस्य सर्वे धातवः आत्मनेपदिनः सन्ति । तथापि द्युद्भ्यो लुङि 1.3.91 इत्यनेन एते सर्वे लुङ्-लकारस्य विषये विकल्पेन परस्मैपदिनः अपि भवन्ति । अस्यां स्थितौ एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । यथा -

द्युत् + लुङ् [लुङ् 3.2.110 इति लुङ् । द्युद्भ्यो लुङि 1.3.91 इति वैकल्पिकम् परस्मैपदम्]

→ द्युत् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]

→ द्युत् + अङ् + ल् [लिपिसिचिह्वश्च 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः]

→ अट् + द्युत् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + द्युत् + अ + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]

→ अ + द्युत् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अद्युतत्

3) येषु धातुषु ऌकारः इत्संज्ञकः अस्ति, ते सर्वे ऌदित-धातवः नाम्ना ज्ञायन्ते । धातुपाठे एतादृशाः 14 धातवः सन्ति । एतेषु येभ्यः परस्मैपदस्य प्रत्ययाः विधीयन्ते, तेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा -

गम् + लुङ् [लुङ् 3.2.110 इति लुङ् । द्युद्भ्यो लुङि 1.3.91 इति वैकल्पिकम् परस्मैपदम्]

→ गम् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]

→ गम् + अङ् + ल् [लिपिसिचिह्वश्च 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः]

→ अट् + गम् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + गम् + अ + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]

→ अ + गम् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अगमत्

ज्ञातव्यम् - अस्य सूत्रस्य प्रसक्तिः केवलम् परस्मैपदस्य प्रत्ययेषु परेषु अस्तीति स्मर्तव्यम् । आत्मनेपदेषु तु च्लेः सिच् 3.1.44 इत्यनेन सिच्-आदेशः एव विधीयते ।

Balamanorama

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


पुषादिद्युताद्यॢदितः परस्मैपदेषु - लुङि च्लेः सिचि प्राप्ते — पुषादि ।च्लेः सि॑जित्यतः च्लेरिति,अस्यतिवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । पुषादि द्युतादि लृदित् एषां समाहारद्वन्द्वत्पञ्चमी । तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादौ चास्ति । तत्र यदि भौवादिकः पुषादिगमो गृह्रेत तर्हि द्युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात् । नापि क्र्याद्यन्तर्गणः । तत्र ह 'मुष स्तेये'खच भूतप्रादुर्भावे॑ 'हेठ च ' 'ग्रह उपादाने' इति चत्वार एव पठन्ते । यदि त एवात्र पुषादयो विवक्षिताः स्युत्ततर्हि लाघवात् लृदित एव ते क्रियेरन् । नाप्यत्र चौरादिकः पुषादिर्गृह्रते, णिचा च्लेव्र्यवहितत्वात् । अतः परिशेषाद्दिवाय एव गृह्यन्ते । तदाह — श्यन्विकरमेति । जर्ज चर्च झर्झेति । एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति । एदिदयम् । न वृद्धिरिति ।ह्म्यन्तेत्यनेने॑ति शेषः । णिश समाधाविति । णोपदेशत्वनादुपसर्गादसमासेऽपीति नस्य णत्वम् । तदाह — प्रणेशतीति ।शसु हिंसाया॑मित्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति । नोपधः । कृतानुस्वारस्य निर्देशः । 'चह परिकल्पने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः । रह त्यागे इति । न#आऽयमिदित् । रहि गताविति । अयमिदित् । दृह दृहीति । ऋदुपधा एते । द्वितीयचतुर्थाविदितौ । अवृहत् । अवर्हीदिति । इरित्त्वादङ्विकल्प इति भावः । उवोहेति । उहिधातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे 'अभ्यासस्यासवर्णे' इत्युवङ् । मा भवानुहदिति । इरित्त्वादङि रूपम् । औहीदिति । अङभावपक्षे च्लेः सिचि तस्य इटि 'अस्तिसिचः' इति तकारस्य ईटिइट ईटी॑ति सिचो लोपेआडजादीना॑मिति आटि वृद्धिः । माङ्योगे तु मा भवानुहीत् । आनर्हेति । 'अत आदेः' इति दीर्घे नुट् । कृपूपर्यन्ता इति ।द्युते॑त्यारभ्य कृपूपर्यन्ता इत्यर्थः ।

Padamanjari

Up

index: 3.1.55 sutra: पुषादिद्युताद्यॢदितः परस्मैपदेषु


पुषादिद्यौताद्य्लृदितः परस्मैपदेषु॥ एकेनैवादिशब्देन प्रत्येकं सम्बन्धादेव सिद्धे द्वयोरुपादानं चिन्त्यप्रयोजनम्। दिवाद्यन्तर्गण इति।'पुष पुष्टौ' 'शुष शोषणो' इत्येवमादिरा गणसमाप्तेः। यतु मध्ये'ष्णिह प्रीतौ वृत्' इति वृत्करणं तद्रधादिपरिसमाप्त्यर्थम्। एतच्च ठस्यतिग्रहणमात्मनेपदार्थ पुषादित्वात्ऽ इति वार्तिकारवचनाद्विज्ञायते। न भूवादिरिति।'पुष पुष्टौ' 'श्रिषु श्लिषु प्रुषु प्लुषु दाहे' इत्येवमादिः, अस्य यदि ग्रहणं स्यात्पुषाद्यनन्तरं पाठाद् द्यौतादीनां पृथग्ग्रहणं न कुर्यात्। र्क्याद्यन्तर्गणो वेति।'पुष पुष्टौ' 'मुष स्तेये' इत्येवमादिः। तत्र हि चत्वार एव पठ।ल्न्ते, तत्र यदि ते जिघृक्षिताः स्युर्लृदित एव तान् कुर्यात्; स्वरितेत्वादेरपि नेनैव सिद्धत्वात्। अथ पुषादयो द्यौतादयश्च लृदित एव कस्मान्न पठिताः? अशक्यस्ते तथा पठितुम्; आदितामौदितामुदितामूदितां च तत्र भावात्। तद्यथा - पुषादिषु तावत्'ञिष्विदा गात्रप्रक्षरणे' 'मदी हर्षे' 'समु उपशमने' 'षिधू राद्धौ' इति; द्यौतादिष्वपि'श्विता वर्णे' 'ञिमिदा स्नेहने' 'ञिक्ष्विदा स्नेहविमोचनयोः' 'स्रंसु ध्वंसु भ्रंसु अवस्रंसने' 'स्यन्दू प्रस्रवणे' 'कृपू सामर्थ्ये' इति। अद्युत्, अश्वितदिति।'द्यौद्भ्यो लुङ्' ईति पक्षे परस्मैपदम्। अलोटिष्टेति।'लुट लुठ प्रतिघाते' ॥