3-1-46 श्लिषः आलिङ्गने प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः क्सः
index: 3.1.46 sutra: श्लिष आलिङ्गने
श्लिषः आलिङ्गने च्लेः क्सः
index: 3.1.46 sutra: श्लिष आलिङ्गने
'आलिङ्गनम्' अस्मिन् अर्थे प्रयुज्यमानात् श्लिष्-धातोः विहितस्य च्लि-प्रत्ययस्य क्स-आदेशः भवति ।
index: 3.1.46 sutra: श्लिष आलिङ्गने
When used with the meaning of 'giving a hug', The च्लि-प्रत्यय that follows the verb root श्लिष् is converted to क्स.
index: 3.1.46 sutra: श्लिष आलिङ्गने
श्लिषेः धातोः आलिङ्गनक्रियावचनात् परस्य च्लेः क्षः आदेशो भवति। आलिङ्गनमुपगूहनं, परिष्वङ्गः। अत्र नियमार्थम् एतत्। आश्लिक्षत् कन्यां देवदत्तः। आलिङ्गने इति किम्? समाश्लिषज्जतु काष्ठम्।
index: 3.1.46 sutra: श्लिष आलिङ्गने
(श्लिषः)स्मात्परस्यानिटश्च्लेः क्सः स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ॥(आलिङ्गने) श्लिषश्च्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां देवदत्तः । आलिङ्गन एवेति किम् । समश्लिषज्जतु काष्ठम् । अङ् । प्रत्यासत्ताविह श्लिषिः । कर्मणि अनालिङ्गने सिजेव न तु क्सः । एकवचने चिण् । अश्लेषि । अश्लिक्षाताम् । अश्लिक्षत । अश्लिष्ठाः । अश्लिढ्वम् ।{$ {!1187 शक!} विभाषितो मर्षणे$} । विभाषित इत्युभयपदीत्यर्थः । शक्यति । शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । अशकत् । अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिट्कारिकासु लृदित्पठितः । शकिता । शकिष्यति ।{$ {!1188 ष्विदा!} गात्रप्रक्षरणे$} । घर्मस्रुतावित्यर्थः । अयं ञीदिति न्यासकारादयः । नेति हरदत्तादयः । स्विद्यति । सिष्वेद । सिष्वेदिथ । स्वेत्ता । अस्विदत् ।{$ {!1189 क्रुध!} क्रोधे$} । क्रोद्धा । क्रोत्स्यति ।{$ {!1190 क्षुध!} बुभुक्षायाम्$} । क्षोद्धा । कथं क्षुधित्त इति । संपदादिक्विबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु वसतिक्षुधोः - <{SK3046}> इतीट् वक्ष्यते ।{$ {!1191 शुध!} शौचे$} । शुध्यति । शुशोध । शोद्धा ।{$ {!1192 षिधु!} संराद्धौ$} । ऊदित्पाठः । प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् ।{$ {!1193 रध!} हिंसासंराद्ध्योः$} । संरीद्धिर्निष्पत्तिः । रध्यति । रधिजभोरचि <{SK2302}> इति नुम् । ररन्धतुः ॥
index: 3.1.46 sutra: श्लिष आलिङ्गने
लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु यः धातुः अनिट् अस्ति, यस्य अन्ते शल्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - श्/ ष् / स् / ह् - एतेषु कश्चन वर्णः अस्ति) तथा उपधायाम् इक्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - इ, उ, ऋ, ऌ - एतेषु कश्चन वर्णः अस्ति), तस्मात् परस्य च्लि-विकरणस्य शल इगुपधादनिटः क्सः 3.1.45 इत्यनेन 'क्स' आदेशः भवति । अनेन सूत्रेण 'श्लिषँ' धातोः नित्यम् क्स-आदेशे प्राप्ते, वर्तमानसूत्रेण अपवादत्वेन केवलम् 'आलिङ्गनम्' अस्मिन् अर्थे एव 'श्लिषँ' धातोः क्स-आदेशः भवति । अन्येषु अर्थेषु (यथा - प्रत्यासत्तिः आदयः) क्स-आदेशः न विधीयते ।
श्लिष् + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ श्लिष् + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]
→ श्लिष् + क्स + ल् [शल इगुपधादनिटः क्सः 3.1.45 इति क्स-आदेशः । कित्वात् क्ङिति च 1.2.5 इति लघूपधगुणनिषेधः ]
→ श्लिष् + स + ल् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ अट् + श्लिष् + स + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]
→ अ + श्लिष् + स + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ अ + श्लिष् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]
→ अ + श्लिष् + स + त् [षढोः क सि8.2.41 इति ककारः]
→ अ + श्लिष् + ष + त् [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]
→ अश्लिक्षत्
ज्ञातव्यम् -
स्तुतः धातुपाठे त्रयः 'श्लिष्' धातवः सन्ति - चुरादिगणस्य श्लिष् (श्लेषणे), दिवादिगणस्य श्लिष् (आलिङ्गने) , तथा भ्वादिगणस्य श्लिष् (दाहे) । परन्तु एतेषु चुरादिगणस्य तथा भ्वादिगणस्य धातू द्वौ अपि सेटौ स्तः, तथा च तयोः अर्थः 'आलिङ्गने' इत्यपि नास्ति, अतः तयोः अत्र विमर्शः अपि न क्रियते ।
दिवादिगणस्य श्लिश्-धातोः विहितस्य 'च्लि' इत्यस्य 'आलिङ्गनम्' अर्थं विहाय अन्येषु अर्थेषु परस्मैपदे पुषादिद्युताद्यॢदितः परस्मैपदेषु 3.1.55 इत्यनेन अङ्-प्रत्ययः भवति, तथा आत्मनेपदेषु च्लेः सिच् 3.1.44 इत्यनेन सिच्-आदेशः भवति ।
कौमुद्यां दीक्षितः अस्य सूत्रस्य योगविभागं कृत्वा 'श्लिषः' तथा 'आलिङ्गने' इति सूत्रद्वयं कारयति । अस्य कारणम् सः वदति - शल इगुपधादनिटः क्सः 3.1.45 इत्यनेन 'श्लिष्'-धातोः क्स-प्रत्यये प्राप्ते परत्वात् पुषादिद्युताद्यॢदितः परस्मैपदेषु 3.1.55 इत्यनेन अङ्-प्रत्ययः विधीयते, यतः श्लिष्-धातुः पुषादिगणे अस्ति । अस्य अपवादरूपेण 'श्लिषः' इति नूतननिर्मितेन सूत्रेण श्लिष्-धातोः पुनः क्स-प्रत्ययः क्रियते ।
index: 3.1.46 sutra: श्लिष आलिङ्गने
श्लिष आलिङ्गने - आलिङ्गने । 'श्लिष' इति पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहानुवर्तते, श्लिष इति च । तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते । 'श्लिषः' इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् । तदाह — श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति । नन्वयं नियमःअनन्तरस्येटति न्यायात् 'श्लिष' इति सूत्रप्राप्तस्यैव स्यान्नतुशल इगुपधा॑दित्यस्यापीत्यत आह — शल इगुपधादित्यस्याप्ययं नियम इति । कुत इत्यत आह — योगविभागसमाथ्र्यादिति । यदि 'श्लिष' इति प्राप्तएव क्स आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात्, 'श्लिष् आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात् । अतःशल इगुपधा॑दिति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायत इत्यर्थः । अश्लिक्षत्कन्यां देवदत्त इति । आलिङ्गदित्यर्थः । अत्र पुषाद्यङं बाधित्वा अनेन क्सः । समाश्लिषज्जतु काष्ठमिति । जतु = लाक्षा । सा च काष्ठलग्नैवोत्पद्यते इति स्थितिः । जतु च काष्टं चेति समाहारद्वन्द्वः ।उपाश्लिषज्जतु काष्ठं चे॑त्येव भाष्यम् । अत्र श्लिषेरालिङ्गनार्थकत्वाऽभावान्न क्सः, किन्तु पुषाद्यङेवेति बावः । नन्वजादित्वाऽभावेन आडागमस्याऽसंभवात्समाश्लिषदित्ययुक्तमित्यत आह — आङिति । समाश्लिषदित्यत्र श्लिषेः प्रागाङुपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थः । नन्वालिङ्गनं समाश्लेषणं, तथा च समाश्लिषज्जतु काष्ठमित्यत्रापि श्लिषेरालिङ्गनार्थकत्वात्क्सो दुर्वार इत्यत आह — प्रत्यासत्ताविहेति । इह = समाश्लिषज्जतु काष्ठमित्यत्र, श्लिषिः प्रत्यासत्तौ = संयोगे वर्तते, नतु बाह्वादिना संवलनात्मकसंबन्धविशेषरूपे आलिङ्गने इत्यर्थः । नन्वालिङ्गने एव श्लिषश्च्लेः क्सो, न त्वनालिङ्गने इति नियमादनालिङ्गने 'शल इगुपधा' दित्यपि क्सो न भवतीत्युक्तमयुक्तं, समाश्लिषज्जतु काष्ठमित्यत्राऽनालिङ्गनेशल इगुपधा॑दितक्सं बाधित्वा परत्वात्पुषाद्यङ एव प्राप्त्या क्सस्याऽप्रसक्तेरित्यत आह - कर्मणीति । अनालिङ्गनवृत्तेः श्लिषधातोः कर्मणि लुङि च्लेः सिजेव भवति, न तु पुषाद्यङ्, तस्य परस्मैपदविषयत्वात्, कर्मणि लुङश्चभावकर्मणो॑रित्यात्मनेपदनियमात् । तस्य च 'शल इगुपधा' दिति प्राप्तः क्स उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः । यदुक्तम् -आलिङ्गने श्लिषश्च्लेः क्सः पुषाद्यङ एवापवादो नतु चिण॑इति, तस्य प्रयोजनमाह — एकवचने चिणिति । तदेवोदाहृत्य दर्शयति — अश्लेषीति । आलिङ्गिता कन्या देवदत्तेनेत्यर्थः । श्लिषेरालिङ्गनार्थकात्कर्मणि लुङिप्रथमैकवचने तशब्दे परेचिण भावकर्मणो॑रिति च्लेश्चिणि कृतेचिणो लु॑गिति तशब्दस्य लुक् । अत्र 'श्लिष' इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्चिणपवादत्वाऽभावाच्चिण् निर्बाध इति भावः ।समाश्लेषि जतुना काष्ठ॑मित्यत्र त्वनालिङ्गनाच्च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव । एवं च आलिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् । अथाऽनालिङ्गने श्लिषः कर्मणि लुङ आतामि च्लेः क्साऽभावात्सिचिषढो॑रिति षस्य कत्वे सस्य षत्वे रूपमिति भावः । नन्वश्लिक्षामित्यत्र सत्यपि क्सेकस्स्याची॑त्यकारलोपे इष्टं सिद्धमित्यस्वरसात्कर्मणि लुङि झादावुदाहरति — अश्लिक्षतेत्यादि । अश्लिष् स् झेति स्थिते जोऽन्तादेशं बाधित्वा 'आत्मनेपदेष्वनतः' इत्यदादेशे षस्य कत्वे सिचः सस्य षत्वे अश्लिक्षतेतीष्यते । च्लेः क्से तु सति अश्लिष् स् झ इति स्थितेक्सस्याची॑त्यकारलोपाऽप्रसक्तेरतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न स्यादिति भावः । अश्लिष्ठा इति । श्लिषेः कर्मणि लुङस्थासि च्लेः सिचिझलो झली॑ति सिचो लोपे ष्टुत्वे 'अश्लिष्ठा' इति रूपमिष्यते । क्से तु 'झलो झली' त्यसंभवादश्लिक्षथा स्यादिति भावः । अश्लिड्ढ्वमिति । श्लिषः कर्मणि लुङो ध्वमि सिचिझलो झली॑ति सस्य लोपे स्य झश्त्वेनन डकारे ष्टुत्वेन धस्य ढः । क्से तु सति अश्लिक्षध्वमिति स्यादिति भावः । शक विभाषित इति । मर्षणेऽर्थे शकधातुरविकल्पित इत्यर्थः । विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः, व्याख्यानात् । तदाह — उभयपदीति । मर्षणमिह — सामर्थ्यम् । शक्यति शक्यते वेति । समर्थो भवतीत्यर्थः । सेट्कोऽयमित्येके इति । स्वमते त्वनिट्क एवेति भावः । नन्वनिट्कारिकासु लृदितः शकेः पाठात्कथमनिट्कत्वमित्यत आह — तन्मतेनेति । ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्याऽनिट्कारिकासु शकि र्लृदित्पठित इत्यर्थः । संपदादिक्विबन्तादिति । रक्षुध्यत इति क्षुध्, भावे क्विप् । क्षुध् अस्य संजाता क्षुधित इति विग्रहः । वसतिक्षुधोरिति । वसेः क्षुधेश्च क्त्वानिष्ठयोरिडागमः स्यादिति तदर्थः । वक्ष्यते इति ।कृत्स्वि॑ति शेषः । षिधु संराद्धाविति । निष्पत्तावित्यर्थः । प्रामादिक इति । माधवादिसंमत्वादिति भावः । रध हिंसेति । सेट् । चतुर्थाऽन्तोयम् । ररन्धतुरिति । एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगात्परत्वेन अकित्त्वान्नलोपो नेति भावः ।
index: 3.1.46 sutra: श्लिष आलिङ्गने
श्लिष आलिङ्गने॥ श्लिपेर्धातोरिति।'श्लिष आलिङ्गने' इत्यस्य, न तु'श्रिषु श्लिषु प्रुषु प्लुषु दाहे' इत्यस्य; आलिङ्गने वृत्यभावाद्, अनिट इति चाधिकारात्सानुबन्धकत्वाच्च। अत्र नियमार्थमेतदिति। ननु श्लिषिरयं पुषादिः, तथा च प्रत्युदाहरणे अङ् भवति, ततश्च पुषादिपाठात्प्रप्तमण्ंó बाधित्वाऽऽलिङ्गने क्सो यथा स्यादित्येवं विधिसम्भवान्नियमो नोपपद्यते। अस्तु विधिः, एवमप्यालिङ्गने क्सः, अन्यत्राङिति सिद्धमिष्टम्? सत्यम्; सिद्धं परस्मैपदे, आत्मनेपदे त्वङ्भावादालिङ्गनेऽनालिङ्गने च पूर्वेण क्सः प्राप्नोति, इष्यते च तत्राप्यालिङ्गने क्सोऽन्यत्र सिच्, तच्च नियमे सत्युपपद्यते। स च नियमो नोपपद्यते; विधेयभावात्? योग विभागात्सिद्धम् -'श्लिषः इत्यको योगः श्लिषश्च क्सो भवति। किमर्थमिदम्? पुषाद्यङे बाधनार्थम्। यथैब तर्ह्यण्ंó बाधते तथा चिणमपि बाधेत - समाश्लेषि कन्या देवदतेनेति?'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोतरान्' इति तत्रालिङ्गने' नालिङ्गने च श्लिषः क्सो भवति। इदमिदानीं किमर्थम्? नियमार्थम् - आलिङ्गन एव, नान्यत्र। योगविभागसामर्थ्याद्या च यावती च क्सस्य प्राप्तिः सा सर्वा नियम्यते, न त्वनन्तरस्य विधिर्वा भवतीति। श्लिष इति या प्राप्तिः, ङ्बाधनार्था सैव। एवमपि नियमो नोपपद्यते, कथम्? श्लिष इत्येतदङ्बाधनार्थम्। न च तदत्यन्तायाण्ंó बाधितुं प्रभवति; पुषादिपाठसामर्थ्यात्, ततश्चाङ्क्सयोः सर्वत्र विकल्पे प्राप्ते, द्वितीयो योगः - -आलिङ्गने क्स एव नित्यं यथा स्यान्मा कदाचिदङ् भूदित्येवमर्थः स्यात्, किं तर्ह्युच्यते - नियमो नोपपद्यते इति! ननु तत्रभवतापि मुखान्तरेण नियम एवोक्तः? एतावांस्तु विशेषुः - मया प्रत्ययनियम उक्तः - आलिङ्गन एव क्स इति, त्वया पुनरर्थनियमः - आलिङ्गने क्स एवेति, सर्वथा नियमान्न मुच्यामहे। तत्र लक्ष्यानुरोधाद्विधेयविभक्तिनिर्द्देशेन प्रधानत्वाद्वा प्रत्ययनियम एव भविष्यति॥