प्रत्ययः

3-1-1 प्रत्ययः

Sampurna sutra

Up

index: 3.1.1 sutra: प्रत्ययः


प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 3.1.1 sutra: प्रत्ययः


अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् प्रत्ययाः वक्ष्यन्ते ।

Neelesh English Brief

Up

index: 3.1.1 sutra: प्रत्ययः


Everything told in this अधिकार are known as प्रत्ययाः.

Kashika

Up

index: 3.1.1 sutra: प्रत्ययः


अधिकारः अयम्। प्रत्ययशब्दः संज्ञात्वेन अधिक्रियते। आपञ्चमाद्यायपरिसमाप्तेः यान् इत ऊर्ध्वमनुक्रमिष्यामः, प्रत्ययसंज्ञाः ते वेदितव्याः, प्रकृति-उपपद-उपाधि-विकार-आगमान् वर्जयित्वा। वक्ष्यति तव्यत्तव्यानीयरः 3.1.96। कर्तव्यम्। करणीयम्। प्रत्ययप्रदेशाः प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 3.1.1 sutra: प्रत्ययः


आपञ्चमपरिसमाप्तेः अधिकारः अयम् ॥

Neelesh Sanskrit Detailed

Up

index: 3.1.1 sutra: प्रत्ययः


अयमधिकारः अष्टाध्याय्याः महत्तमः अधिकारः अस्ति । अस्य व्याप्तिः तृतीय-चतुर्थ-पञ्चमेषु अध्यायेषु वर्तते । एतेषु त्रिषु अध्यायेषु प्रोक्ताः नूतनाः शब्दाः प्रत्ययसंज्ञकाः भवन्ति ।

प्रत्ययानाम् सप्त भेदाः सन्ति । ते एतादृशाः -

1) सनादिप्रत्ययाः - एते धातुभ्यः तथा प्रातिपदिकेभ्यः अनन्तरमागच्छन्ति । एते सर्वे गुप्तिज्किद्भ्यः सन् 3.1.5 इत्यतः आयादय आर्धद्धातुके वा 3.1.31 एतेषु सूत्रेषु दीयन्ते ।

2) विकरणप्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । एते सर्वे स्यतासी लृलुटोः 3.1.33 इत्यतः लिङ्याशिष्यङ् 3.1.86 इति यावत् पाठ्यन्ते ।

3) तिङ्-प्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । एते प्रत्ययाः तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 अनेन सूत्रेण दीयन्ते । प्रक्रियायाम् एतेषां भिन्नाः आदेशाः भवितुमर्हन्ति, ये लस्य 3.4.77 अस्मिन् अधिकारे दीयन्ते ।

4) कृत्-प्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । तृतीयाध्याये पाठिताः सनादिभिन्नाः, विकरणभिन्नाः तिङ्भिन्नाः सर्वे प्रत्ययाः कृत्-प्रत्ययाः सन्ति ।

5) सुप्-प्रत्ययाः - एते प्रातिपदिकेभ्यः अनन्तरमागच्छन्ति । एते सर्वे स्वौजस्.. 4.1.2 अनेन सूत्रेण दीयन्ते ।

6) स्त्री-प्रत्ययाः - अजाद्यतष्टाप् 4.1.4 इत्यतः दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् 4.1.81 एतेषु सूत्रेषु स्त्रीप्रत्ययाः पाठ्यन्ते ।

7) तद्धितप्रत्ययाः - तद्धिताः 4.1.76 अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः तद्धितप्रत्ययाः सन्ति ।

प्रत्ययाधिकारस्य विस्तृतं विवरणम् अस्मिन् लेखे कृतमस्ति, तत् दृश्यताम् ।

प्रत्ययसंज्ञायाः प्रयोगः - अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1.2.45, प्रत्ययलोपे प्रत्यययलक्षणम् 1.1.62, प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 एतेषु सूत्रेषु कृतः दृश्यते ।

ज्ञातव्यम् - अस्मिन् अधिकारे पाठितानि सर्वाणि सूत्राणि 'नूतनप्रत्ययान् एव वदेयुः' एतत् न आवश्यकम् । ये केऽपि नूतनशब्दाः पाठ्यन्ते, ते सर्वे प्रत्ययसंज्ञकाः भवन्ति, इत्येव अस्य सूत्रस्य आशयः । प्रत्ययान् विहाय अस्मिन् अधिकारे कानिचन संज्ञासूत्राणि, अधिकारसूत्राणि, नियमसूत्राणि, अतिदेशसूत्राणि चापि सन्ति एतदपि स्मर्तव्यम् ।

Balamanorama

Up

index: 3.1.1 sutra: प्रत्ययः


प्रत्ययः - प्रत्ययः । तृतीयाध्यायस्यादिमं सूत्रमिदम् । इत ऊध्र्वमा पञ्चमाध्यायपरिसमाप्तेः प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः ।हनश्च वधः॑,ई च खनः॑,नडादीनां कुक्चे॑त्यादीनामादेशागमानां तु न प्रत्ययसंज्ञा, महासंज्ञाकरणात् ।

Padamanjari

Up

index: 3.1.1 sutra: प्रत्ययः


प्रत्ययः॥ इह यदि सर्वानेव संज्ञिनः स्वरूपेण निर्द्दिश्य संज्ञा विधीयेत - सन् प्रत्ययः क्यच् प्रत्ययः, क्यङ् प्रत्यय इति, ततो गौरवं स्यात्। अथ'सप्' प्रत्यय इति सनः सशब्दादारभ्य कपः पकारेण प्रत्याहाराश्रयेणात्र वा प्रदेशान्तरे वा संज्ञा विधीयेत, तदानेकस्य पकारस्य सम्भवात्सन्देहः स्यात्। तथा हि र्प्यासतिन्याये आश्रीयमाणे सिपः पकारेण स्याद्, व्याप्तौ तु'तप्तनप्तनथनाश्च' इति तनपः। स्यादेतत् - व्याप्तिरेवाश्रयिष्यते, अथ च तनपः पकारेण प्रत्याहारो न भविष्यति; ज्ञापकात्, यदयम् ठिच एकाचोऽम्प्रत्ययवच्चऽ इत्यमः प्रत्ययवद्भावं शास्ति, अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादमोऽपि स्वत एव प्रत्ययत्वातद्वद्भावो नातिदेश्यः स्यादिति ? तन्न; तत्र ह्यमिति द्विरावर्तते, ततश्चाप्रत्ययप्रतिबद्धम् ठौतोऽम्शसोःऽ इत्यादिविशिष्ट्ंअ कार्यं यथा स्यादिति सोऽतिदेशः स्यात्। नन्वेवमपि प्रत्ययग्रहणमनर्थकम्, अम्वदिति वक्तव्यम्, अतः प्रत्ययग्रहणात्प्रत्ययप्रयुक्तमपि कार्यमतिदेश्यमति प्रतीयते, तज्ज्ञापकमुक्तार्थस्य भविष्यति? एवमप्यम आगमत्वात्पुगादिवदप्राप्तेः प्रत्ययत्वातिदेशः स्यात्। अस्तु वा ज्ञापकम्, एवमपि कुत एतद्व्याप्तिराश्रीयते, न पुनः प्रत्यासतिरिति? किञ्च यथान्यासाद्रौरवं स्थितमेव, सबित्यस्याधिकस्य करणात्? अतो गौरवातिप्रसङ्गपरिहारायाधिकारेणेयं संज्ञा विधीयते। तदाह - प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते इति 'कारके' इति तद्विशेषणमधिक्रियते, स्वादिषु कप्पर्यन्तेषु प्रकृतिरियमधिक्रियत इतिवत्।'प्रत्ययशब्दः संज्ञाधिक्रियते' इति वक्तव्ये संज्ञात्वेनेति वचनमनर्थभेदात्। तथा ह्यमत्र कर्मकरत्वेनाधिकृतः, अयमत्र कर्मकरोऽधिकृतः, नार्थभेदोऽस्ति; किन्तु'कर्मकरो' धिकृतःऽ इत्युक्ते यः कर्मकरः सोऽधिकृतो रूपान्तरेणेत्यपि गम्यते, कर्मकरत्वेनेति पुनरुच्यमाने तस्यैवाकारस्याधिकृतत्वं गम्यते। अधिक्रियतेउ विनियुज्यते सूत्रकारेण। यानु नादीननुक्रमिष्यामःउ अनुक्रमेण विधास्यामः। सूत्रकारायमाणस्य वृतकारस्यैतद्वचनम्। यदि तर्ह्यधिकारेण संज्ञा क्रियते, प्रतियोगमुपस्थानात्प्रकृत्युपपदोपाधिविकारागमानामपि प्राप्नोति -'हरतेर्द्दतिनाथयोः पशौ' हरतेरिति प्रकृतिः, द्दतिनाथयोरित्युपपदम्, पशावित्युपाधिः;'हनस्त च' इत्यादिर्विकारः,'त्रपुजतुनोः पुक्' इत्यागमः। सत्यां च संज्ञायां प्रकृतिप्रत्यययोः तर्यायेण परस्परापेक्षं परत्वं स्यात्; शब्दान्तरापेक्षं वा प्रकृतेः, प्रकृत्यपेक्षं तु प्रत्ययस्य? उपपदस्यापि परत्वात् ठुपसर्जनं पूर्वम्ऽ इत्येतद्राजपुरुषादिषु सावकाशं बाधित्वा परत्वं स्यात्, यत्र समासाभावात्ठुपसर्जनं पूर्वम्ऽ इत्यस्याप्रसङ्गः, तत्रोपपदस्य परत्वं स्यात्? एवं च सति भोक्तुअं व्रजतीत्येवमेव नित्यं स्यान्न तु व्रजति भोक्तुमिति, उपाधेरप्यर्थस्य परत्वासम्भवेऽपि तद्वाचिनः प्रयोगानियमे प्राप्ते परश्चेति नियमः स्यात्? आद्यौदातत्वं च यथायथं स्वरान्तरं बाधित्वा स्यात्? अङ्गसंज्ञा तु विधानप्रतिबद्धा, न चेह प्रकृत्यादयः कुतश्चिद्विधीयन्ते इति न सा प्रकृत्यादिषु परतः पूर्वस्य प्राप्नोति? ननु च प्रतियोगमुपस्थानेऽपि वाक्यभेदप्रसङ्गात्प्रकृत्यादीनां संज्ञा न भविष्यति, तथा हि - हरतेर्द्दतिनाथयोः कर्मणोरुपपदयोः पशौ कर्तरीन् प्रत्ययो भवतीत्येकं वाक्यम्, ते च हरत्यादयः प्रत्ययसंज्ञका इति द्वितीयम्, सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते? नैतदस्ति; सनादीनामप्यसतां संज्ञानुपपतेर्वाक्यभेदेनैव संज्ञा विधेया, ततश्च सनादीनामेकेन वाक्येन विधिरपरेण संज्ञाविधिः, एवं प्रकृत्यादीनामपि प्राप्नोति? तत्राह - प्रकृत्युपपदेत्यादि। अयमभिप्रायः - प्रकृत्यादीनां सनाद्यौत्पतौ निमितत्वेनोपादानात्पारार्थ्यात्स्वसंस्कारं प्रति प्रयोजकत्वाभावः यथा - यः पीठे स देवदत इति पीठस्य देवदतसंज्ञा न भवति। ननु सनाद्यौत्पतिवाक्ये प्रथमे तेषां पारार्थ्यम्, न द्वितीये संज्ञासंज्ञिसम्बन्धप्रतिपादनपरे वाक्ये, ततश्च संज्ञाविधानपरमेवंरूपमेव - गुप्तिज्किद्भ्यः सन् प्रत्यय इति, ततश्च तत्रापि भूतविभक्त्यानिर्द्देशान्निमितत्वात्पारार्थ्यं स्थितमेव। किञ्च, योग्यविभक्त्यभावाच्च न प्रकृत्यादीनां संज्ञा, प्रथमान्तस्य षष्ठ।ल्न्तस्य वा संज्ञासम्बन्धः'वृद्धिरादेच्' 'स्वं रूपं शब्दस्य' इति। न च द्वितीये वाक्ये योग्यविभक्त्यध्याहारेण संज्ञा भवितुमर्हति; योग्यविभक्तिनिर्द्दिष्टेषु सनादिषु चरितार्थत्वात्। उपपदसंज्ञा तु सप्तमीनिद्दिष्टस्य विधीयमाना युक्तं यद्वाक्यभेदेन योग्यविभक्त्यध्याहारेण च भवतीति। किञ्च, प्रधानेतरसन्निधौ प्रधाने कार्यसंप्रत्ययो भवति, यस्य चापूर्वविधानं तत्प्रधानम्; अतः प्रथमवाक्ये तावत्सनादीनामेव प्राधान्यम्, द्वितीयेऽपि संज्ञा संज्ञिनमपेक्षमाणा यत्पूर्ववाक्ये प्रधानतयावगतं तदेवापेक्षते, न तु पारतन्त्र्यादप्रधानमिति सिद्धमिष्टम्। एवमपि विकारागमानां प्राप्नोति? नैष दोषः; महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेत - प्रतियन्त्यनेनार्थमिति प्रत्यय इति। न च विकारागमाभ्यामर्थं प्रतयिन्ति। यद्येवम्, ठवेः कःऽ इत्यादीनां समासान्तानां च न स्याद्, न ह्यएषामन्वयव्यतिरेकाभ्यां कश्चिदर्थोऽवधार्यते, तदभावेऽपि केवलाया एव प्रकृतेस्तदर्थावगमात्। यदप्युच्यते - अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति स्वार्थ एवैषामर्थ इति, तदपि कल्पनामात्रम्; अन्वयव्यतिरेकगम्यत्वादर्थवत्वस्य। इतरेतराश्रयत्वं च भवति - सति प्रत्ययत्वे स्वार्थे विधानम्, स्वार्थे विधानाच्चार्थवत्वे सति प्रत्यय संज्ञेति। एवं तर्हि प्रयोजनाभावान्न भविष्यति? तथा हि तेषां स्थानषष्ठ।लसम्बन्धस्यावयसम्बन्धस्य च प्रतिपादनात्परत्वं तावन्न सम्भवति, आगमानां चानुदातत्वविधानादाद्यौदातत्वस्यासम्भवः, सति तु प्रयोजने आगमस्यापि श्नमः शकारस्येत्संज्ञार्थ भवत्येव संज्ञा। अथ'हनश्च वधः' 'नाभि नभञ्च' 'विराग विरङ्गञ्च' इत्यादौ वधादीनामनेकालानामादेशानां संज्ञा कस्मान्न भवति, सम्भवति हि तेषु परत्वं प्रयोजनम्? यद्यपि स्थानिन आदेशेन निवर्तितत्वान्न तदपेक्षं परत्वम्, शब्दान्तरापेक्षया स्यादेव परत्वम्। यथोक्तं प्राक् - गुपादिषु अर्थवत्वं च तेषामस्ति, विधेयत्वात्प्राधान्यं च, योग्या च विभक्तिः। अतः सर्वथा वधादिषु संज्ञानिवृतये यत्नः कर्तव्यः। कर्तव्यम्, करणीयामति। अत्र प्रत्ययसंज्ञायां धातोरङ्गसंज्ञा, अङ्गस्य गुणः। अनन्तरमपि सनादिकमतिक्रम्य व्यवहितोऽपि तव्यदादिरुदाहःतः, तत्राद्यौदातादेरपि प्रत्ययकार्यस्य सम्भवात्। सनादौ तु नित्स्वरेण धातुस्वरेण च तद्वाध्यते॥