3-4-77 लस्य प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
लस्य
अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तमुक्तानि कार्याणि लकाराणाम् स्थाने भवन्ति ।
All the आदेशs mentioned in this अधिकार happen in place of लकारs.
लस्येत्ययमधिकारः। अकार उच्चारणार्थः। लकारमात्रं स्थानित्वेनाधिक्रियते। यदित ऊर्ध्वमनुक्रमिष्यामः, लस्येत्येवं तद् वेदितव्यम्। किं चेदं लस्येति? दश लकारा अनुबन्धविशिष्टा विहिता अर्थविशेषे कालविशेषे च, तेषां विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं तद् गृह्यते। षट् टितः, चत्वारो ङितः। अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते। लट्। लिट्। लुट्। लृट्। लेट्। लोट्। लङ्। लिङ्। लुङ्। लृङ् इति। अथ लकारमात्रस्य ग्रहणं कस्माद् न भवति — लुनाति चूडाल इति? धात्वधिकारोऽनुवर्तते, कर्त्रादयश्च विशेषकाः॥
अधिकारोऽयम् ॥
अस्मिन् सूत्रे 'लस्य' इति 'ल' इत्यस्य षष्ठी-एकवचनमस्ति । अत्र 'ल' इत्यनेन दशलकाराः गृह्यन्ते - लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लृङ् । एते दश लकारप्रत्ययाः धातुभ्यः परः आगच्छन्ति । एतेषां स्थाने ये आदेशाः भवन्ति ते सर्वे अस्मिन् अधिकारे पाठिताः सन्ति । अस्मिन् अधिकारे उक्तानामादेशानाम् 'कृत्' संज्ञा न भवतीति स्मर्तव्यम्, यतः <<कृदतिङ्>> 3.1.93 इत्यनेन केवलं तिङ्-भिन्न-प्रत्ययानामेव कृत्-संज्ञा भवति । अस्मिन् अधिकारे उक्तः प्रथमः आदेशः 'तिङ्'-अस्ति, तथा अन्ये सर्वे आदेशाः तिङ्-प्रत्ययानामादेशरूपेणैव आगच्छन्ति । अतः एतेषु कस्यापि 'कृत्'संज्ञा न भवति ।
<<लस्य>> - लस्य ।धातो॑रित्यधिकृतम् । अकारो न विवक्षितः । तेन लिडादीनामपि सङ्ग्रहः । 'चूडाल' इत्यादौ च नातिप्रसङ्गः ।
अकार उच्चारणार्थ इति । नानुबन्धः, अन्यथा लङ्लंटोरेव ग्रहणं स्यात् ; ततश्च परस्मैपदानां णलादयः,'लोटो लङ्वत्' , ठेरुःऽ इत्यादिकार्यविधानमनुपपन्नं स्यात् ; लिङ्लोटोस्तिबादीनामभावात् । लकारमात्रं स्थानित्वेनाधिक्रियत इति । ननु चेत्संज्ञायां लोपः प्राप्नोति ? वचनसामर्थ्यात्सत्यामपीत्संज्ञायां लोपो न भविष्यति । एवमपि लित्स्वरः प्राप्नोति ? णलो लित्करणं ज्ञापकम् - न लादेशेषु लित्स्वरो भवतीति । किञ्चेदमिति । लकारमात्रस्य ग्रहणं प्राप्नोतीति मन्यमानस्य प्रश्नः ।'धात्वधिकारो' नुवर्ततेऽ इति वक्ष्यमाणाभिप्रायेणाह - दश लकारा इति । अक्षरसमाम्नाये ययानुपूर्व्याऽकारादयःष तदानुपूर्वोविशिष्टैरकारादिभिरनुबन्धैः कथ्यन्ते; न तु विधानक्रमेणेत्यर्थः । लकारमात्रस्य ग्रहणं कस्मान्न प्राप्नोतीति । विशेषानुपादानात्प्राप्नोत्येवेति भावः । वर्णग्रहणेषु चार्थवद्ग्रहणपरिभाषा न प्रवर्तते, तथा च यस्येति लोपोऽनर्थकस्यापि भवति - दैवदतिरिति, अकुर्वह्यत्रेति यणादेशः । धात्वधिकारोऽनुवर्तत इति । धातुग्रहणमनुवर्तत इत्यर्थः । एवमप्यग्निचिल्लुनाति - अत्रापि प्राप्नोति ? विहितविशेषणं धातुग्रहणम् । एवमपि'शामामलिभ्यो लः' औणादिकः - शाला, माला, मल्लः, अत्रापि प्राप्नोति ? उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तथापि परिहारान्तरमाह - कर्त्रादय इति ।'लः कर्मणि च' इत्यत्र निर्दिष्टा अर्थाः कर्तृकर्मभावा इहानुवर्तन्ते, तैश्च लकारो विशिष्यते - कर्त्रादिषु विहितस्य लस्येति, तेन विशिष्टविषयस्यैव लस्य ग्रहणम्, न सर्वस्य ॥