7-3-44 प्रत्ययस्थात् कात् पूर्वस्य अतः इत् आपि असुपः
index: 7.3.44 sutra: प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः
प्रत्ययस्थात् ककारात् पूर्वस्य अकारस्य इकारादेशो भवति आपि परतः, स चेदाप् सुपः परो न भवति। जटिलिका। मुण्डिका। कारिका। हारिका। एतिकाश्चरन्ति। प्रत्ययग्रहणं किम्? शक्नोतीति शका। स्थग्रहणम् विस्पष्टार्थम्। ककारमात्रं प्रत्ययो न अस्तीति सामर्थ्यात् प्रत्ययस्थस्य ग्रहणम् शक्यते विज्ञातुम्। कातिति किम्? मण्डना। रमणा। पूर्वस्य इति किम्? परस्य मा भूत्, पटुका। मृदुका। अतः इति किम्? गोका। नौका। तपरकरणं किम्? राका। धाका। आपि इति किम्? कारकः। धारकः। अथ आपि इत्यनेन किम्? विशिष्यते? ककारः। यद्येवम्, कारिका इत्यत्रापि न प्राप्नोति, अकारेण व्यवहितत्वात्? एकादेशे कृते न अस्ति व्यवधानम्। एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानम् एव? वचनाद् व्यवधानमीदृशं यत् स्थानिवद्भावकृतम् एकेन वर्णेन तदाश्रीयते। रथकट्यादिषु तु श्रुतिकृतमनेकेन वर्णेन व्यवधानम् इति इत्वं न भवति। असुपः इति किम्? बहवः परिव्राजका अस्यां मथुरायाम् बहुपरिव्राजका मथुरा। सुबन्तादयं बहुपरिव्राजकशब्दात् परः आपिति प्रतिषेधो भवति। प्रसज्यप्रतिषेधश्चायम्, न पर्युदासः। पर्युदासे हि सति समुदायादसुबन्तात् परतः आपिति इत्वमत्र स्यादेव। अविद्यमानः सुप् यस्मिन् सोऽयमसुपिति? एवमपि नाशीयते। तथा हि सति बहुचर्मिका इत्यत्रापि न स्यात्। मामकनरकयोरुपसङ्ख्यानं कर्तव्यमप्रत्ययस्थत्वात्। मम इयं मामिका नरिका। अणि ममकादेशः। केवलमामक इति नियमात् संज्ञाछन्दसोः ईकारो न अस्त्यत्र, तेन अण्प्रत्ययान्तादपि टाप् भवति, नरान् कायतीति नरिका। आतोऽनुपसर्गे कः 3.2.3 इति कः प्रत्ययः। प्रत्ययनिषेधे त्यक्त्यपोश्च उपसङ्ख्यानम्। उदीचामातः स्थाने यक्पूर्वायाः 7.3.43 इति विकल्पो मा भूतिति। दीक्षिणात्यिका। इहत्यिका।
index: 7.3.44 sutra: प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः
प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः स्यादापि परे स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । कात्किम् ? नन्दना । पूर्वस्य किम् ? परस्य माभूत् । कटुका । तपरः किम् ? राका । आपि किम् ? कारकः ।<!मामकनरकयोरुपसंख्यानम् !> (वार्तिकम्) ॥ मामिका । नरान् कायतीति नरिका ।<!त्यक्त्यपोश्च !> (वार्तिकम्) ॥ दाक्षिणात्यिका । इहत्यिका ॥
index: 7.3.44 sutra: प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः
प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपः परो न चेत्। गोपालिका। अश्वपालिका। सर्विका। कारिका। अतः किम्? नौका। प्रत्ययस्थात्किम्? शक्नोतीति शका। असुपः किम्? बहुपरिव्राजका नगरी। सूर्याद्देवतायां चाब्वाच्यः । सूर्यस्य स्त्री देवता सूर्या। देवतायां किम्? सूर्यागस्त्ययोश्छे च ङ्यां च (वार्त्तिकम्)। यलोपः। सूरी - कुन्ती; मानुषीयम्॥
index: 7.3.44 sutra: प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः
प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः - प्रत्ययस्थात् । ककारादिति । क् इति वर्णादित्यर्थः । अकार उच्चारणार्थः । 'वर्णात्कारः' इत्युक्तेः । एवंच सूत्रे कादित्यत्राऽकार उच्चारणार्थ इति सूचितम् । स आबिति । इत्त्वविधौ यः परनिमित्तत्वेनोपात्तः स आबित्यर्थः । सुपः परो न चेदिति । सूत्रे 'असुपः' इति पञ्चम्यन्तम्, असमर्थसमासः । आपि सुपः परस्मिन्सति इत्त्वं न भवतीत्यर्थो विवक्षित इति भावः । सर्विकेति । सर्वशब्दाट्टापि सवर्णदीर्घे सर्वाशब्दः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्सर्वनामकार्यम् । ततश्च अव्ययसर्वनाम्ना॑मिति टेः प्रागकच् । तत्र ककारादकार उच्चारणार्थः । चकार इत् । अक् इति ककारान्तः प्रत्ययष्टेः प्राग्भवति । सर्वकाशब्देऽस्मिन्ककारात्पूर्वस्य अत इत्त्वे सर्विकेति रूपम् । ननु ककारात्पूर्वस्य अकारस्य कथमित्त्वम्, ककारेण व्यवहिततया आप्परकत्वाऽभावादिति चेत्, न,येन नाव्यवधान॑मिति न्यायेन तद्व्यवधानस्य अबाधकत्वात् । कारिकेति । कृञो ण्वुल्, अकादेशःअचो ञ्णिती॑ति ऋकारस्य वृद्धिः, रपरत्वं कारकशब्दाट्टाप्, सवर्णदीर्घः, कात्पूर्वस्य रेफादकारस्य इत्त्वम् । कादिति सङ्घातग्रहणे तु एतिका इति न सिध्यति । एतच्छब्दे टेः प्रागकचि एतकच्छब्दाज्जसि, त्यदाद्यत्वे, पररूपे, अदन्तत्वाट्टापि, कात्पूर्वस्य इत्त्वे एतिका इति रूपम् । अत्राऽकचि अकारस्य उच्चारणार्थतया प्रत्ययस्थकशब्दाऽभावादित्त्वं न स्यात्, ककारादुत्तराऽडवर्णस्याऽकजनवयवत्वात् । न चाऽकचि अकारस्य नोच्चारणार्थत्वमिति शङ्क्यम्, एवं सति निरित्यव्यये अकचि नकिरिति न स्यात् । अतः कादित्यनेन कककारादित्येव विवक्षितम् । यका सकेत्यत्र 'न यासयोः' इतीत्त्वनिषेधाल्लिङ्गाच्च । अन्यथा तत्र प्रत्ययस्थककाराऽभावेन इत्त्वस्याऽप्राप्तेः किं तन्निषेधेनेत्यलम् ।नौकेति । नौशब्दात्स्वार्थिकः कः, टाप् । अत्र ककारात्पूर्वस्य औकारस्य इत्त्वनिवृत्त्यर्थमत इति वचनम् । शकेति । 'शक्लृ शक्तौ' पचाद्यच्, टाप् । अत्र ककारस्य प्रत्ययस्थत्वाऽभावान्न ततः पूर्वस्य इत्त्वम् । बहुपरिव्राजकेति । परिपूर्वाद्व्रजेर्ण्वुल् । बहवः परिव्राजका यस्यामिति बहुव्रीहिः । सुपो लुकि बहुपरिव्राजकशब्दाट्टाप् । अत्राऽकारस्य कात्पूर्वस्य इत्त्वं न, प्रत्ययलक्षणेन आपः सुबपेक्षया परत्वात् ।न लुमते॑ति निषेधस्तु न, तस्य लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव प्रवृत्तेः । इत्त्वं तु टाप्यनाङ्गकार्यमिति नात्र तन्निषेधः । यदि तु 'असुपः' इति पर्युदासाअश्रीयते, तर्हि 'बहुपरिव्राजक' इति समुदायस्य सुब्भिन्नत्वादापस्ततः परत्वादित्त्वं दुर्वारं स्यादिति भावः । राकेति ।कृदाधारार्चिकलिभ्यः कः॑ इति राधातोरौणादिकः कप्रत्ययः ।उणादयो बहुल॑मिति बहुलग्रहणात् 'केऽणः' इति ह्रस्वो न, ककारस्य च नेत्वम् । टाप् । स्त्रीत्वं लोकात् ।कलाहीने सानुमतिः पूर्णे राका निशाकरे॑ इत्यमरः । अत्र ककारात् पूर्वस्य दीर्घाकारत्वान्नेत्त्वमिति भावः ।मामकेति । मामकनरकशब्दयोः कात्पूर्वस्य इत्त्वं वक्तव्यमित्यर्थः । मामिकेति । ममेयमिति विग्रहेयुष्मदस्मदोरन्यतरस्यां खञ्चे॑त्यणि, 'तवकममकावेकवचने' इति ममकादेसे, आदिवृद्धिः, टाप्, 'टिड्ढाणञ्' इत्यादिना ङीप्तु न,केवकमामके॑त्यादिना संज्ञाच्छन्दसोरेव मामकशब्दान्ङीब्नियमात् । ततस्चात्र ककारस्य प्रत्ययस्थत्वाऽबावात्प्रत्ययस्था॑दित्यप्राप्तौ वचनमिदम् । नरानिति । कैशब्दे 'आदेच उपदेशे' इत्यात्त्वे, 'आतोऽनुपसर्गे कः' इति कप्रत्ययेआतो लोप इटि चे॑ति आलोपः, उपपदसमासः, सुपो लुक्, टाप् । अत्रापि ककारस्य प्रत्ययस्थत्वाऽभावात् ।॒प्रत्ययस्था॑दित्यप्राप्तौ वचनम् । त्यक्त्यपोश्चेति । त्यगन्ते त्यबन्ते च प्रत्ययस्थात्कात्पूर्वस्याऽकारस्य इत्त्वं वक्तव्यमित्यर्थः । 'उदीचामातः स्थाने' इति विकल्पस्यापवादः । दाक्षिणात्यिकेति । दक्षिणस्या दिशि अदूरे इति विग्रहे 'दक्षिणादाच्' इत्याच्,तद्धितश्चासर्वविभक्तिः॑ इत्यव्ययत्वम् । दक्षिणाशब्दाद्भवाद्यर्थेदक्षिणापश्चात्पुरसस्त्यक् इति त्यक्,किति चे॑त्यादिवृद्धिः, दाक्षिणात्यशब्दाट्टाप् । ततः स्वार्थिकः कः, 'केऽणः' इति टारो ह्रस्वः, पुनष्टाप्, इत्त्वम#इति भावः ।दक्षिणस्यां दिशि भवे॑ति विग्रहे दक्षिणाशब्दाट्टाबन्तादेव त्यकन् इति मतं तु प्रौढमनोकमायां दूषितम् । इहत्यिकेति ।अव्ययात्य॑बिति त्यप्, टाप्, स्वार्थिकः कः, 'केऽणः' इति ह्रस्वः, पुनः टाप् ।
index: 7.3.44 sutra: प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः
अत्र यदि कादित्यत्राकारो विवक्षितः स्यात्, एतिकाश्चरन्तीत्यत्रेत्वं न स्यात् । एतदोऽकचि जसि त्यदाद्यत्वे टापि च रूपम् । अकचो ह्यन्त्योऽकार उच्चारणार्थो न श्रवणार्थः; भिन्धिकि, रुन्धकि इत्यादेरसिद्धिप्रसङ्गात्, ततश्च कशब्दस्याभावादेतिका इत्यत्र न स्यादेव ।'न यासयोः' इति च प्रतिषेधः सङ्घातग्रहणेऽनर्थकः स्यात् । तस्मादुच्चारणार्थोऽकारः, वर्णमात्रमेव विवक्षितमित्याह - प्रत्ययस्थात्ककारादिति । स चेदिति । स चेदाप्सुपः परस्तान्न भवति तदेत्वमित्यर्थः । प्रत्ययग्रहणपरिभाषया सुबन्थादिति द्रष्टव्यम् । जटिलिका, मुण्डिकेति । टाबन्ताभ्यामज्ञातादिषु'प्रागिवात्कः' ,'के' णःऽ इति ह्रस्वत्वम्, ततष्टाप्, तत इत्वम् । यद्यप्ययमकारो लाक्षणिकः, तथापि ठुदीचामातः स्थानेऽ इति लिङ्गातस्यापि भवति । ककारमात्रं हाति । उक्तमिदम् -'कादिति वर्णमात्रं विवक्षितम्' इति, न ककारमात्रं कश्चिप्रत्ययोऽस्ति, तस्मात् कात्प्रत्ययादित्युच्यमानेऽपि प्रत्ययावयवे प्रत्ययशब्दो वर्तिष्यते इति किं स्थग्रहणेनेत्यर्थः । पटुअका, मृदुकेति । पटुअमृदुशब्दाभ्यां स्त्र्यर्थवृत्तिभ्यां के कृते टाप् । असति पूर्वग्रहणे'तस्मादित्युतरस्य' इति कात्परस्यैवाकारस्य'वार्णादाङ्गं बलीयः' इत्येकादेशं बाधित्वा इत्वं स्यात् । यद्यपि जटिलिका, मुण्डिकेत्यादावयं प्रसङ्गः शक्यो दर्शयितुम्; तथापि विस्पष्टार्थमुदाहरणान्तरमुपन्यस्तम् । राका, धाकेति ।'कृदाधारार्चिकलिभ्यः कः' । अथापीत्यनेन किं विशिष्यतीति । ककारः, प्रत्ययो वेति सन्देहात्प्रश्नः । ककार इति । प्रत्यये तु विशिष्यमाणे रथकट।लदिष्वतिप्रसङ्ग इति भावः । यद्यपि प्रत्ययोऽपि श्रुतः, तथापि तस्योपसर्जनत्वात् ककार एव विशिष्यते । कारिकेत्यत्रापि न स्यादिति । अतिप्रसङ्गस्तिष्ठतु तावत्, इष्टमपि न सिद्ध्यतीत्यपिशब्दस्यार्थः । ठापि परतो यः ककारःऽ - इत्येवं विज्ञायमाने कारिकेत्यपि न स्यात्; एकादेशस्य यो द्वितीयोऽकारस्तेन व्यवधानात् । वचनाद्व्यवधानमीदृशमिति । आश्रीयत इति वक्ष्यमाणेन सम्बन्धः । ईदृशमित्येतद्व्याचष्टे - स्थानिकद्भावकृतमिति । एकेन वर्णेनेत्युपलक्षणम् । स्थानिवद्भावकृतमित्येतावति तात्पर्यम्; अन्यथा एतिकेत्यत्र द्वाभ्यामकाराभ्यां व्यवधानादित्वं न स्यात् । एक एतदः सम्बन्धी, द्वितीयः'त्यदादीनामः' इत्यकारः; तत्राकारयोर्यः पररूपमेकादेशः, यश्च टापा सह दीर्घः - द्वयोरपि तयोः स्थानिवद्भावः । अन्ये त्वाहुः - अत्रापि टापा सह य एकादेशस्तस्यैव स्थानिवद्भावः, न त्वकारयोः कृतस्य पररूपस्य; सकृत्पवृत्या लक्षणस्य चरितार्थत्वात् । तेनात्राप्येकेनैव व्यवधानमिति । वचनाद्व्यवधानेऽपि भविष्यतीति वक्तव्ये, ईदृशं व्यवधानमिति यदुक्तम्, तस्य व्यावर्त्यं दर्शयति - रथकट।लदिष्विति । रथानां समूहो रथकट।ल, ठिनित्रकट।ल्चश्चऽ । आदिशब्देन गर्गकाम्यादेग्रहणम् । गर्गमिच्छत्यात्मन इति काम्यजन्तादप्रत्ययः, ततष्टाप् । एतदुक्तं भवति - आपीति सप्तम्या यदानन्तर्यमुपातं तन्नात्यन्ताय त्यज्यते, किन्तु यावत्सम्भवमाश्रीयत इति । सुवन्तादयं परिव्राजकशब्दादिति । प्रत्ययलक्षणेन सुबन्तत्वम् । पर्युदासे हीति । सुपोऽन्यो।डसुप्, ततश्चेदाप्पर इत्याश्रीयमाण इत्यर्थः । समुदायादसुबन्तादिति । अवयवात्परिव्राजकशब्दात्सुबुत्पन्नः, न समुदायादिति तस्यासुबन्तत्वम् । एवमपि नाश्रीयते इति । बहुव्रीहिरपि नाश्रीयत इत्यर्थः । किं कारणम् ? इत्यत आह - तथा हीति । बहुचर्मिकेति । बहूनि चर्माण्यस्यामिति बहुव्रीहिः,'शेषाद्विभाषा' इति कप् । तत्पुरुषे त्वस्मिन्, नात्र सुबन्तात्परष्टाव् भवति; कपा व्यवहितत्वात् । मामिकेति । ममेयमित्यण्,'तवकममकावेकवचने' इति ममकादेशः । दाक्षिणाअत्यिकेति ।'दक्षिणादाच्' , दक्षिणा, ततो भवादौ'दक्षिणापश्चात्पुरसस्त्यक्' । इहत्यिकेति । ठव्ययात्यप्ऽ ॥