लिङ्याशिष्यङ्

3-1-86 लिङि आशिषि अङ् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः कर्तरि

Sampurna sutra

Up

index: 3.1.86 sutra: लिङ्याशिष्यङ्


छन्दसि आशिषि लिङि धातोः परः अङ् अपि कर्तरि सार्वधातुके

Neelesh Sanskrit Brief

Up

index: 3.1.86 sutra: लिङ्याशिष्यङ्


वेदानाम् विषये - आशीर्लिङ्गलकारस्य सार्वधातुकेषु रूपेषु शप्-विकरणस्य अपवादरूपेण अङ्-प्रत्ययः अपि दृश्यते ।

Neelesh English Brief

Up

index: 3.1.86 sutra: लिङ्याशिष्यङ्


In the context of वेदाः - The सार्वधातुक forms of आशीर्लिङ्गलकार can also use अङ् as गणविकरणप्रत्यय.

Kashika

Up

index: 3.1.86 sutra: लिङ्याशिष्यङ्


आशिषि विषये यो लिङ् तस्मिन् परतः छन्दसि विषये अङ् प्रत्ययो भवति। शपोऽपवादः। छन्दस्युभयथा 3.4.117 इति लिङः सार्वधातुकसंज्ञाप्यस्ति। स्थागागमिवचिविदिशकिरुहयः प्रयोजनम्। स्था उपस्थेषं वृषभं तुग्रियाणाम्। गा सत्यमुपगेषम्। गमि गृहं गमेम। वचि मन्त्रं वोचेमाग्नये। विदि विदेयमेनां मनसि प्रविष्टाम्। शकि व्रतं चरिष्यामि तच्छकेयम्। रुहि स्वर्गं लोकमारुहेयम्। दृशेरग् वक्तव्यः। पितरं दृशेयं मातरं च।

Siddhanta Kaumudi

Up

index: 3.1.86 sutra: लिङ्याशिष्यङ्


आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम् - <{SK2454}> । मन्त्रं वोचेमाग्नये (मन्त्रं॑ वोचेमा॒ग्नये॑) ।<!दृशेरग्वक्तव्यः !> (वार्तिकम्) ॥ पितरं च दृशेयं मातरं च (पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च) । अङि तु ऋदृशोऽङि - <{SK2406}> इति गुणः स्यात् ॥

Neelesh Sanskrit Detailed

Up

index: 3.1.86 sutra: लिङ्याशिष्यङ्


वस्तुतः आशीर्लिङ्-लकारस्य आदेशभूताः तिङ्-प्रत्ययाः लिङाशिषि 3.4.116 इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । परन्तु वेदानां विषये छन्दस्युभयथा 3.4.117 इत्यनेन ते सार्वधातुकाः अपि भवितुमर्हन्ति । अस्यामवस्थायाम् कर्तरि शप् 3.1.68 इत्यनेन शप्-विकरणे प्राप्ते वेदेषु तस्य अपवादरूपेण 'अङ्'इति प्रत्ययः अपि आगच्छति । स्था, गा, गम्, वच्, विद्, शक्, रुह् - एतेषां षधातुनाम् विषये अयं प्रत्ययः प्रयुक्तः दृश्यते ।

यथा -

  1. वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि (ऋग्वेदः 10.40.11) - अत्र प्रयुक्तः 'गमेम' शब्दः 'गम् + अङ् + इम' अनेन प्रकारेण निर्मितः अस्ति ।

  2. मन्त्रम् वोचेम आग्नये (ऋग्वेदः 10.74.1) - अत्र प्रयुक्तः 'वोचेम' अयं शब्दः 'वच् + अङ् + इम' अनेन प्रकारेण निर्मितः अस्ति ।

अत्र एकम् वार्त्तिकमस्ति - <!दृशेरग्वक्तव्यः !> । दृश्-धातोः वेदेषु आशीर्लिङ्लकारस्य सार्वधातुके प्रत्यये परे अक्-विकरणप्रत्ययः भवति इत्यर्थः । कित्वात् क्ङिति च 1.1.5 इति गुणनिषेधः विधीयते । यथा - 'दृशेयं मातरं च' (ऋग्वेदः 1.24.1) - अत्र 'दृशेयम्' एतत् रूपम् 'दृश् + अक् + इयम्' इति निर्मितमस्ति ।

Padamanjari

Up

index: 3.1.86 sutra: लिङ्याशिष्यङ्


लिङ्याशिष्यङ्॥ शषोऽपवाद इति। लिङशिषीत्यार्द्धिधातुकत्वात्कथमत्र शपःप्राप्तिरित्यत आह - च्छन्दस्युभयथेति। शब्ग्रहणं चोपलक्षणम्। शकेः श्नोरपवादः, स्थादिष्वेवायमङ् प्रायेण द्दश्यत इत्याह - स्थागागमीत्यादि। उपस्थेयमिति। उपपूर्वातिष्ठतेराशिषि लिङ्, मिपोम्भावः, यासुटस्सार्वधातुकत्वात्'लिङ्ः स्सलोपो' नन्त्यस्यऽ, अङ् ठातो लोपि इटि चऽ, ठतो येयःऽ,ठाद्गुणःऽ। एवमुपगेयमिति। गमेमेति। मस्। वोचेमेति। अङ्,'वच उम्' , यासुट्, इयादेशः,वलि लोपः। द्दशेरग्वक्तव्य इति। अङ् इहि सति ठृद्दशोऽङ्ऽ ईति गुणस्स्यात्॥