परश्च

3-1-2 परः च प्रत्ययः

Sampurna sutra

Up

index: 3.1.2 sutra: परश्च


प्रत्ययः परश्च

Neelesh Sanskrit Brief

Up

index: 3.1.2 sutra: परश्च


अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते प्रकृतेः परः आगच्छन्ति ।

Neelesh English Brief

Up

index: 3.1.2 sutra: परश्च


All the words told in this अधिकार are to be attached at the end of the प्रकृति.

Kashika

Up

index: 3.1.2 sutra: परश्च


अयमपि अधिकारः योगे योगे उपतिष्ठते, परिभाषा वा। परश्च सः भवति धातोः वा प्रातिपदिकात् वा यः प्रत्ययसंज्ञः। कर्तव्यम्। तैत्तिरीयम्। चकारः पुनरस्यैव समुच्चयार्थः। तेन उणादिषु परत्वं न विकल्प्यते।

Siddhanta Kaumudi

Up

index: 3.1.2 sutra: परश्च


अयमपि तथा ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.2 sutra: परश्च


इत्यधिकृत्य । ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः ॥

Neelesh Sanskrit Detailed

Up

index: 3.1.2 sutra: परश्च


अस्य अधिकारस्य व्याप्तिः अपि प्रत्ययः 3.1.1 अधिकारवत् त्रिषु अध्यायेषु वर्तते । सर्वे प्रत्ययाः प्रकृतेः अनन्तरमागच्छन्ति इत्यर्थः ।

प्रत्ययः 3.1.1 अयं संज्ञा-अधिकारः अस्ति, यतः अनेन सूत्रेण प्रत्ययसंज्ञायाः व्याप्तिः निर्दिश्यते । तथा च, परश्च 3.1.2 अयं परिभाषा-अधिकारः अस्ति यतः अनेन सूत्रेण प्रत्ययाः कुत्र प्रयोक्तव्याः तत् स्पष्टीक्रियते ।

ज्ञातव्यम् - अस्मिन् सूत्रे 'च'कारस्य प्रयोगः एतत् ज्ञापयितुम् कृतः अस्ति यत् अयम् 'परत्वम्' तदा अपि भवति यदा उणादयो बहुलम् 3.3.1 इत्यनेन प्रत्ययत्वं विकल्प्यते । इत्युक्ते, ये प्रत्ययाः बहुलम् विधीयन्ते, तेषामपि परत्वम् नित्यमेव अस्ति, बहुलम् न ।

Balamanorama

Up

index: 3.1.2 sutra: परश्च


परश्च - परश्च । तृतीयाध्यायस्य द्वितीयसूत्रमेतत् । अयमपि तथेति । अयमपि योग आ पञ्चमपरिसमाप्तेरधिकार इत्यर्थः । अवधिनियमे तु व्याख्यानमेव शरणम् ।

Padamanjari

Up

index: 3.1.2 sutra: परश्च


परश्च॥ अयमप्यधिकार इति। न केवलम्'प्रत्यय' इत्ययमेवेत्यपिशब्दार्थः। योगे योगे उपतिष्ठते इति। अनेन परिभाषातोऽधिकारस्य भेदको धर्मो दर्शितः। परिभाषा हि न प्रतियोगमुपतिष्ठते, किन्त्वेकदेशस्थितैव सर्वशास्त्रे व्याप्रियते। परश्च स भवतीत्यादि। अनेनेहस्थाया एवास्याः परिभाषायाः प्रत्ययविधौ सर्वत्र व्यापारो दर्शितः। लिङ्गवती चेयं परिभाषा, प्रत्ययसंज्ञा च लिङ्गम्। धातोर्वेति। क्रियावाचिन्याः प्रकृतेस्तिङ्न्तादेरप्युपलक्षणमेतत्। प्रातिपदिकाद्वेति। अक्रियावाचिन्याः प्रकृतेरिदमुपलक्षणम्, तेन ङ्यापोरपि ग्रहणम्। तैतिरीयमिति। तितिरिणा प्रोक्तमधीते,'तितिरिवरन्तुखण्डिकोखाच्छण्' 'च्छन्दोब्राह्मणानि च तद्विषयाणि' 'तदधीते तद्वेद' ,'प्रोक्ताल्लुक्' , ब्राह्मणकुलस्याभिधेयत्वान्नपुंसकन्वम्। चकारः पुनरस्यैव समुच्चयार्थ इति। अन्यस्य समुच्चेतव्यस्याभावात्। तेनेति। अन्यथा बहुलवचनस्य सर्वोपाधिव्यभिचारार्थत्वादुणादिषु परत्वस्यापि विकल्पः सम्भाव्येत, इह'गुप्तिज्किद्भ्यः सन्' इत्यादौ दिग्योगलक्षणा पञ्चमी, तत्र पूर्वः पर इति वा दिक्शब्दस्याश्रवणादनियमेनाध्याहारे सत्यनियमेन प्रयोगप्रसङ्गे नियमार्थमिदम् - पर एव प्रत्ययो न पूर्व इति।'गापोष्टक्' इत्यादौ षष्ठीनिर्द्देशेऽप्यानन्तर्यसम्बन्धे षष्ठीविज्ञानादानन्तर्यस्य च पूर्वत्वेऽपि भावादनियमप्रसङ्ग एवेति तत्रापि नियमार्थमेव। नैतदस्ति प्रयोजनम्,'विभाषा सुपो बहुच् पुरस्तातु' इत्येतन्नियमार्थ भविष्यति - बहुजेव पुरस्ताद्भवति नान्यः प्रत्यय इति, ततश्च बहुचि पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यति, षष्ठीनिर्देशेषु मध्यशब्दाध्याहारेण मध्येऽपि प्रसङ्ग इति चेत्, न;ठव्ययसर्वनाम्नामकच् प्राक्टेःऽ इति नियमात् अकजेव प्रकृतिमध्ये भवति, नान्य इति? नैतदेवम्; यदि तावदेवं नियमः - बहुजेव पुरस्तादकजेव मध्ये इति, ततो बहुजकचोर्नियमो न स्यात्। अथ बहुच् पुरस्तादेव अकज्मध्य एवेति, ततो देशस्यानियतत्वातत्र प्रत्ययान्तरं स्यादेवेति सर्वथानिष्टप्रसङ्गः। किञ्च अकजेव प्राक् टेरित्येवं नियमे प्राक् टेः प्रत्ययान्तरं मा भूत्, मध्यान्तरे तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। न च'तस्मादित्युतरस्य' इत्यनया परिभाषयात्र परत्वं सिद्ध्यति, यत्र हि प्रागोव सतः कस्यचित् किञ्चिद्विधीयते, यथा - पदात्परयोरपादादौ वर्तमानयोर्युष्मदस्मदोर्वानावौ भवत इति, स तस्या विषयः; इह तु प्रागसन्त एव सनादयो विधीयन्ते, न तेषां सम्बन्धि किञ्चित्, प्रत्ययसंज्ञैव तेषां कार्यमिति चेत्, न; एवमपि प्रागुत्पत्तिरनिवारिता स्यात्। तथा हि - असतां सनादीनां सज्ञाविधिरनुपपन्न इत्येकेन वाक्येन सनादीनां विधिर्द्वितीयेन च तेषामेव संज्ञाविधिरित्यङ्गोकरणीयम्, ततश्च द्वितीये वाक्ये सतः कार्यमिति कृत्वा परिभाषोपस्थानेन प्राक् प्रयुक्तानां संज्ञैव केवलं न स्यादुत्पत्तिस्त्वनियतदेशैव स्यात्; प्रथमवाक्ये परिभाषानुपस्थानात्। स्यादेतत् -'गुप्तिज्किद्भ्यः सन्' इत्यादावेकैव पञ्चमी, सा चैकमेव दिक्शब्दमध्याहरेत्, तत्र पूर्वः परो वेति संशये पूर्वशब्दाध्याहारे द्वितीयस्य वाक्यस्य स्वरसभङ्गः स्यात्। गुपादिभ्यः परः सन् प्रत्ययसंज्ञो भवतीति हि तस्य स्वरसतः प्राप्तोऽर्थः, स च पूर्ववाक्ये पूर्वशब्दाध्याहारे सति भग्नः स्यात्, अतस्तत्परिरक्षणाय परशब्द एवाध्याहरिष्यते। भवतु वोत्पतिरनियतदेशा, पश्चातु सत एव परस्य यत्कृत्यप्रत्ययसंज्ञादिशास्त्रकार्यम्, तन्नान्यदेशस्य,यद्देशस्य च शास्त्रीयं कार्यं तद्देशोऽन्यदेशं निवर्तयिष्यति; विशेषशास्त्रान्वितत्वेन तस्यैव साधुत्वादिति? अस्त्वेवम्, अथ येषु प्रत्ययसंज्ञैव न भवति -'शमेः खः' शङ्खः,'कणेष्ठः' कण्ठ इत्यादिषु, तेषु कथं परत्दम्, द्वितीयवाक्यव्यापाराभावात्? भवतो वा कथं भवानपि हि'यः प्रत्ययः स परः' इति प्रत्ययपूर्वकं परत्वं परिभाषते? सत्यम्; परिभाषापक्षे न स्यात्परत्वम्, अधिकारपक्षे तु प्रत्ययत्वपूर्वकं परत्वं न भवति; किन्तु परत्वविशिष्टस्यैवोत्पन्नस्य पश्चात्प्रत्ययसंज्ञा, इह तु बहुलवचनात्प्रत्ययत्वाभावेऽपि परत्वमविरूद्धम्। एवमपि नार्थ एतेन, बहुलवचनादेव परत्वमेवात्र व्यवस्थास्यते? एवं तर्हि प्रयोगनियमार्थमिदम् - पर एव प्रत्ययो न केवल इति; अन्यथा प्रत्ययार्थमात्रविवक्षायां केवलोऽपि प्रत्ययः प्रयुज्येत, यथा - किमस्य द्वयसम्, किमस्य मात्रमिति; यथा वा प्रकर्षविवक्षायां तरतमभावः तारतम्यमिति। ननु प्रकृतिविशेषं निर्द्दिश्यैव विधीयते, तत्र पूर्वोक्तया नीत्या परत्वविशिष्टस्यैव विधानमिति नास्ति केवलस्य प्रयोगः? एवमपि प्रकृत्यर्थमात्रविवक्षायां केवलायाः प्रकृतेः प्रयोगः स्यादेव, यथा - पच्, वृक्षेति। यत्र पुनरुभयं विवक्षितम् - प्रकृत्यर्थः, प्रत्ययार्थश्च, न तत्र केवलायाः प्रकृतेः प्रयोगप्रसङ्गः ; न केवला प्रकृतिः प्रत्ययार्थमभिधातुं समर्थेति। लक्षणया समर्थेति चेत्? नो खल्वारभ्यमाणमप्येतल्लक्षणया प्रयोगं निवारयितुमर्हति, अतः केवलप्रकृत्यर्थविवक्षायां केवला प्रकृतिर्मा प्रयोजीति सूत्रारम्भः। चशब्दश्चावधारणे, प्रत्ययः परो भवत्येव, न तु कदाचिन्न भवतीति वचनव्यक्तिः। आ पदत्वनिष्पतेश्चायं नियमः, निष्पन्ने तु पदे तावदेव प्रयुज्यते। अपत्याद्यर्थान्तरविवक्षायां तु तस्मादपि प्रत्ययान्तरं भवति॥