नेयङुवङ्स्थानावस्त्री

1-4-4 न इयङुवङ्_स्थानौ अस्त्री आ कडारात् एका सञ्ज्ञा यू स्त्र्याख्यौ नदी

Sampurna sutra

Up

इयङ्-उवङस्थानौ यू नदी न , अस्त्री ।

Neelesh Sanskrit Brief

Up

'स्त्री' इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः इयङ्स्थानिनः शब्दाः, तथा च दीर्घ-ऊकारान्ताः उवङ्स्थानिनः शब्दाः नदीसंज्ञकाः न भवन्ति । यथा - धी, भू, सुधी ।

Neelesh English Brief

Up

Except for the word 'स्त्री', any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश is not referred to as नदी.

Kashika

Up

पूर्वेणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते। स्थितिः स्थानम्। इयङुवङोः स्थानमनयोरितीयङुवङ्स्थानौ, तौ यू नदीसंज्ञौ न भवतः, स्त्रीशब्दं वर्जयित्वा। हे श्रीः। हे भ्रूः। अस्त्रीति किम्? हे स्त्रि॥

Siddhanta Kaumudi

Up

इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो नतु स्त्री । हे श्रीः । श्रिये । श्रियै । श्रियाः । श्रियः ॥

Laghu Siddhanta Kaumudi

Up

इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति नदी इति संज्ञा । प्रकृतसूत्रेण अस्याः संज्ञायाः निषेधः विधीयते । ये शब्दाः इयङ्स्थानिनः उत उवङ्स्थानिनः सन्ति, तेषां नदीसंज्ञा निषिध्यते, परन्तु स्त्री इति इयङ्स्थानिशब्दस्य नदीसंज्ञा नैव निषिध्यते - इति अस्य सूत्रस्य आशयः । इयङ्स्थानिनः शब्दाः - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ईकारस्य अजादि-प्रत्यये परे इयङ् इति आदेशः भवति , ते इयङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते । यथा, भी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन इयङ् इति आदेशः भवति (भी + औ = भिय् + औ = भियौ), अतः भी इति शब्दः इयङ्स्थानी अस्ति इति उच्यते । एवमेव, श्री, धी, स्त्री एते दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दाः अपि इयङ्स्थानिनः सन्ति । किञ्च, परमा धीः यस्य सः / यस्याः सा अस्मिन् अर्थे प्रयुज्यमानयोः परमधी इति दीर्घ-ईकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दयोः अपि -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन इयङ् इत्येव आदेशः भवति (परमधी+ औ = परमधिय् + औ = परमधियौ), अतः परमधी इति दीर्घ-ईकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दौ अपि इयङ्स्थानिनौ एव स्तः । एवमेव, शोभना धीः यस्य सः / यस्याः सा अस्मिन् अर्थे प्रयुक्तौ सुधी इति ईकारान्तपुंलिङ्गस्त्रीलिङ्गशब्दौ अपि इयङ्स्थानिनौ एव । एतेभ्यः स्त्री इति शब्दं वर्जयित्वा, अन्येषां सर्वेषाम् अपि शब्दानां <<यू स्त्र्याख्यौ नदी>> 1.4.3 इति सूत्रेण, अथ वा <!प्रथमलिङ्गग्रहणं च!> इति वार्त्तिकेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण निषिध्यते उवङ्स्थानिनः शब्दाः - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ऊकारस्य अजादि-प्रत्यये परे उवङ् इति आदेशः भवति , ते उवङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते । यथा, भू इति दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन उवङ् इति आदेशः भवति (भू + औ = भुव् + औ = भुवौ), अतः भू इति शब्दः उवङ्स्थानी अस्ति इति उच्यते । एवमेव, भ्रू इति दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दः अपि उवङ्स्थानी एव अस्ति । किञ्च, परमा भूः यस्य सः / यस्याः सा अस्मिन् अर्थे प्रयुक्तौ परमभू इति दीर्घ-ऊकारान्त-पुंलिङ्गस्त्रीलिङ्गशब्दौ अपि उवङ्स्थानिनौ एव । एतादृशानां उवङ्स्थानिनां शब्दानां <<यू स्त्र्याख्यौ नदी>> 1.4.3 इति सूत्रेण, अथ वा <!प्रथमलिङ्गग्रहणं च!> इति वार्त्तिकेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण निषिध्यते । सर्वेषाम् अपि इयङ्स्थानिशब्दानाम् उवङ्स्थानि-शब्दानाम् च आदौ नदीसंज्ञा भवेद् एव - इति न आवश्यकम् । येषाम् एतादृशी नदीसंज्ञा न भवति, तेषां विषये प्रकृतसूत्रेण उक्तः निषेधः अपि नैव प्रवर्तते । यथा, सुध्यायति सः अस्मिन् अर्थे प्रयुक्तः ईकारान्तपुंलिङ्गः सुधी-शब्दः यद्यपि इयङ्स्थानी अस्ति; तथापि नित्यस्त्रीत्वस्य अभावात् अस्य नदीसंज्ञा एव न भवति । एवमेव, सुध्यायति सा अस्मिन् अर्थे प्रयुक्तः ईकारान्तस्त्रीलिङ्गः सुधी-शब्दः यद्यपि इयङ्स्थानी अस्ति; तथापि कैयटस्य मतेन अस्य नित्यस्त्रीत्वं नैव परिगण्यते अतः अस्यापि नदीसंज्ञा न भवति । काशिकापक्षे तु अस्य ईकारान्तस्त्रीलिङ्गशब्दस्य नदीसंज्ञा अवश्यमेव सम्भवति, यस्याः प्रकृतसूत्रेण निषेधः अपि क्रियते । नदीसंज्ञायाः निषेधस्य प्रयोजनम् प्रकृतसूत्रेण उक्तायाः नदीसंज्ञायाः निषेधस्य प्रयोजनम् अस्ति नदीसंज्ञाविशिष्टस्य कार्यस्य बाधः - इति । एतादृशः बाधः चतुर्षु स्थलेषु दृश्यते । तद् इत्थम् -

  • 1. <<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इत्यनेन प्राप्तस्य ह्रस्वादेशस्य अभावः - नदीसंज्ञकशब्दानां सम्बोधनैकवचनस्य प्रक्रियायाम् <<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इत्यनेन अङ्गस्य ह्रस्वादेशः विधीयते । नदीसंज्ञायाः अभावे एतादृशः ह्रस्वादेशः न भवति । यथा, धी इति शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायाम् एतादृशं ह्रस्वादेशं विना हे धीः इत्येव रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् - धी + सुँ [<<स्वौजस्...>> 4.1.2 इति सम्बोधनैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः । <<एकवचनं सम्बुद्धिः>> 2.3.49 इति सम्बुद्धिसंज्ञा । ] --> धीः [<<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यनेन नदीसंज्ञायां प्राप्तायाम् <<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इत्यनेन अङ्गस्य ह्रस्वादेशः अपि प्राप्नोति । परन्तु <<नेयङुवङ्स्थानावस्त्री>> 1.3.4 इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । नदीसंज्ञायाः अभावे अङ्गस्य ह्रस्वादेशः अपि न सम्भवति । अतः रुत्वे विसर्गे च कृते अन्तिमं रूपं सिद्ध्यति ।] एवमेव हे भीः, हे श्रीः, हे जयश्रीः, हे सुधीः (शोभना धीः यस्य सः / यस्याः सा), हे भूः - इत्यादीनि रूपाणि अपि सिद्ध्यन्ति ।
  • 2. <<आण्नद्याः>> 7.3.112 इत्यनेन प्राप्तस्य आडागमस्य अभावः - नदीसंज्ञकशब्देभ्यः विहितस्य ङित्-प्रत्ययस्य <<आण्नद्याः>> 7.3.112 इत्यनेन आडागमः विधीयते । नदीसंज्ञायाः अभावे तु अयम् आडागमः न भवति । यथा, सुधी (शोभना धीः यस्य सः) इति ईकारान्तपुंलिङ्गशब्दस्य चतुर्थ्येकवचनस्य प्रक्रियायाम् एतादृशं आडागमं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव सुधिये इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् - सुधी (शोभना धीः यस्य सः) + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] --> सुधिय् + ए [ इति नदीसंज्ञायां प्राप्तायाम् <<आण्नद्याः>> 7.3.112 इति प्रत्ययस्य आडागमः अपि प्राप्नोति । परन्तु <<नेयङुवङ्स्थानावस्त्री>> 1.3.4 इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन आडागमः नैव भवति, अपितु अङ्गस्य इयङ्-आदेशः भवति । ] --> सुधिये एवमेव अस्य शब्दस्य पञ्चमी-षष्ठी-एकवचनस्य रूपेषु अपि आडागमः न भवति, येन उभयत्र इयङ्-आदेशे कृते सुधियः इति रूपं सिद्ध्यति । किञ्च, अनेनैव प्रकारेण परमा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य परमधी-शब्दस्य, तथा च शुद्धा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य शुद्धधी-शब्दस्य रूपाणि अपि भवन्ति ।
  • 3. <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन प्राप्तस्य नुडागमस्य अभावः - नदीसंज्ञकशब्देभ्यः विहितस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नुडागमः विधीयते । नदीसंज्ञायाः अभावे तु अयं नुडागमः न भवति । यथा, सुधी (शोभना धीः यस्य सः) इति ईकारान्तपुंलिङ्गशब्दस्य षष्ठीबहुवचनस्य प्रक्रियायाम् एतादृशं नुडागमं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव हे सुधियाम् इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् - सुधी (शोभना धीः यस्य सः) + आम् [षष्ठीबहुवचनस्य प्रत्ययः] --> सुधिय् + आम् [ इति नदीसंज्ञायां प्राप्तायाम् <<ह्रस्वनद्यापो नुट्>> 7.1.54 इति प्रत्ययस्य नुडागमः अपि प्राप्नोति । परन्तु <<नेयङुवङ्स्थानावस्त्री>> 1.3.4 इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः नुडागमः न भवति, अपितु <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन अङ्गस्य इयङ्-आदेशः भवति । ] --> सुधियाम् अनेनैव प्रकारेण परमा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य परमधी-शब्दस्य षष्ठीबहुवचनस्य परमधियाम्, तथा च शुद्धा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य शुद्धधी-शब्दस्य षष्ठीबहुवचनस्य शुद्धधियाम् इति रूपं सिद्ध्यति ।
  • 4. <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इत्यनेन प्राप्तस्य आमादेशस्य अभावः - नदीसंज्ञकशब्देभ्यः विहितस्य सप्तमी-एकवचनस्य ङि-प्रत्ययस्य <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इत्यनेन आम्-आदेशः भवति । नदीसंज्ञायाः अभावे तु अयं आदेशः नैव सम्भवति । यथा, सुधी (शोभना धीः यस्य सः) इति ईकारान्तपुंलिङ्गशब्दस्य सप्तम्येकवचनस्य प्रक्रियायाम् एतादृशं आमादेशं विना केवलम् अङ्गस्य इयङ्-आदेशं कृत्वा एव सुधियि इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् - सुधी (शोभना धीः यस्य सः) + ङि [सप्तम्येकवचनस्य प्रत्ययः] --> सुधिय् + आम् [ इति नदीसंज्ञायां प्राप्तायाम् <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इति प्रत्ययस्य आमादेशः अपि प्राप्नोति । परन्तु <<नेयङुवङ्स्थानावस्त्री>> 1.3.4 इति प्रकृतसूत्रेण अत्र नदीसंज्ञायाः निषेधः क्रियते । अतः आमादेशः न भवति, अपितु <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन अङ्गस्य इयङ्-आदेशः भवति । ] --> सुधियाम् अनेनैव प्रकारेण परमा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य परमधी-शब्दस्य षष्ठीबहुवचनस्य परमधियाम्, तथा च शुद्धा धीः यस्य सः अस्मिन् अर्थे प्रयुक्तस्य दीर्घ-ईकारान्त-पुंलिङ्गस्य शुद्धधी-शब्दस्य षष्ठीबहुवचनस्य शुद्धधियाम् इति रूपं सिद्ध्यति । नित्यस्त्रीलिङ्गवाचिशब्दानाम् विषये (यथा - धी, श्री, जयश्री, भी इत्यादिशब्दानां विषये) प्रकृतसूत्रेण नदीसंज्ञायाः बाधे कृते षष्ठीबहुवचनस्य आम्-प्रत्यये परे <<वाऽऽमि>> 1.4.5 इत्यनेन, तथा च ङित्-प्रत्ययेषु परेषु <<ङिति ह्रस्वश्च>> 1.4.6 इत्येताभ्यां सूत्राभ्यां पुनः विकल्पेन नदीसंज्ञायाः विधानं भवति । अतः एतेषां शब्दानां कृते प्रकृतसूत्रस्य प्रयोगः केवलं सम्बोधनैकवचनस्य प्रक्रियायाम् एव भवति । ये शब्दाः नित्यस्त्रीलिङ्गाः न सन्ति, तेषां विषये तु प्रकृतसूत्रेण बाधिता नदीसंज्ञा सर्वत्रैव बाधिता भवति, यतोऽहि <<वाऽऽमि>> 1.4.5 तथा च <<ङिति ह्रस्वश्च>> 1.4.6 इति द्वे अपि सूत्रे तेषां विषये नैव प्रवर्तेते । अतः एतेषां शब्दानां विषये प्रकृतसूत्रस्य प्रयोगः चतुर्षु अपि सन्दर्भेषु सम्भवति । अतएव उपरि प्रथमम् उदाहरणं विहाय अन्येषु त्रिषु अपि उदाहरणेषु पुंलिङ्गशब्दस्य प्रक्रिया एव प्रदर्शिता अस्ति । <hl>अस्त्री</hl> इति निषेधः स्त्री इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि <<स्त्रियाः>> 6.4.79 इति सूत्रेण स्त्री-शब्दस्य अजादिप्रत्ययेषु परेषु इयङ्-आदेशः भवति । अस्यां स्थितौ अस्य शब्दस्य नदीसंज्ञायाः प्रकृतसूत्रेण निषेधः न भवति - इति स्पष्टीकर्तुम् एव अस्मिन् सूत्रे अस्त्री इति निर्देशः विद्यते । अतएव स्त्री-शब्दस्य सम्बोधनैकवचने <<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इत्यनेन अङ्गस्य ह्रस्वादेशः अवश्यं भवति, येन हे स्त्रि इति अन्तिमं रूपं सिद्ध्यति । प्रक्रिया इयम् - स्त्री + सुँ [<<स्वौजस्...>> 4.1.2 इति सम्बोधनैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः । <<एकवचनं सम्बुद्धिः>> 2.3.49 इति सम्बुद्धिसंज्ञा । ] --> स्त्रि + स् [<<यू स्त्र्याख्यौ नदी>> 1.4.3 इति नदीसंज्ञा । <<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इत्यनेन अङ्गस्य ह्रस्वादेशः ।] --> स्त्रि [<<एङ्ह्रस्वात्सम्बुद्धेः>> 6.1.69 इति सुँलोपः] <hl>अस्त्री</hl> इत्यत्र तदन्तविधिः नास्ति प्रकृतसूत्रे विद्यमानेन अस्त्री इति निषेधेन स्त्रीभिन्नस्य इयङ्स्थानीशब्दस्य नदीसंज्ञा निषिध्यते । अयं निषेधः महास्त्री, श्रेष्ठस्त्री, परमस्त्री इत्यादीनां स्त्र्यन्तानां विषये प्रवर्तते वा - इति प्रश्ने जाते - एते शब्दाः स्त्री-भिन्नाः सन्ति, अतः एतेषां विषये प्रकृतसूत्रेण उक्तः निषेधः निश्चयेन प्रवर्तते - इति उत्तरम् । इत्युक्ते, एतेषां स्त्र्यन्त-शब्दानां पूर्वसूत्रेण नदीसंज्ञायां प्राप्तायां, प्रकृतसूत्रेण सा अवश्यम् एव निषिध्यते । अतश्च एतेषां सम्बोधनैकवचनस्य रूपेषु <<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इत्यनेन अङ्गस्य ह्रस्वादेशः अपि न प्रवर्तते, येन हे महास्त्रीः, हे श्रेष्ठस्त्रीः, हे परमस्त्रीः - इत्यादीनि एव रूपाणि सिद्ध्यन्ति । <hl>स्त्राख्यौ</hl> इत्यस्य अनुवृत्तिः न प्रकृतसूत्रे <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यस्मात् पूर्वसूत्रात् यू तथा च नदी एतौ द्वौ शब्दौ एव अनुवृत्तिरूपेण स्वीक्रियेते । स्त्र्याख्यौ इति शब्दः प्रकृतसूत्रे अनुवृत्तिरूपेण नैव स्वीकृतः अस्ति । अतएव, प्रकृतसूत्रेण उक्तः निषेधः सर्वेषाम् एव इयङ्स्थानिशब्दानाम् उवङ्स्थानिशब्दानां च कृते प्रवर्तते; केवलम् नित्यस्त्रीलिङ्गशब्दानां कृते एव न । यथा, "शोभना धीः यस्य सः" अस्मिन् अर्थे प्रयुक्तस्य सुधी इति दीर्घ-ईकारान्त-पुंलिङ्गशब्दस्य, एवमेव "परमा भूः यस्य सः" अस्मिन् अर्थे प्रयुक्तस्य परमभू इति दीर्घ-ऊकारान्तपुंल्लिङ्गशब्दस्य अपि इत्यनेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण अवश्यं निषिध्यते । बाध्यबाधकभावः ये इयङ्स्थानिनः उवङ्स्थानिनः च दीर्घ-ईकारान्तशब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति (स्त्रीशब्दं वर्जयित्वा), तेषां विषये <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यनेन प्राप्ता नदीसंज्ञा प्रकृतसूत्रेण निषिध्यते । एतादृशे निषेधे जाते, अग्रे विद्यमानाभ्यां द्वाभ्यां सूत्राभ्याम् पुनः एतेषां शब्दानां विकल्पेन नदीसंज्ञा भवति । तदित्थम् - 1.<<वाऽमि>> 1.4.5 इति सूत्रेण षष्ठीबहुवचनस्य आम्-प्रत्यये परे नित्यस्त्रीलिङ्गवाचिनः शब्दाः विकल्पेन नदीसंज्ञकाः भवन्ति । 2. <<ङिति ह्रस्वश्च>> 1.4.6 इत्यनेन ङित्-प्रत्ययेषु परेषु नित्यस्त्रीलिङ्गवाचिनः शब्दाः विकल्पेन नदीसंज्ञकाः भवन्ति । ये इयङ्स्थानिनः उवङ्स्थानिनः वा शब्दाः शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये इति वार्त्तिकेन प्राप्ता या नदीसंज्ञा प्रकृतसूत्रेण प्रतिषिध्यते, तस्याः विषये एते अपवादसूत्रे नैव प्रवर्तेते । इत्युक्ते, एतेषां शब्दानाम् आम्-प्रत्यये परे, ङित्-प्रत्ययेषु च परेषु विकल्पेन अपि नदीसंज्ञा नैव भवति । ##Balamanorama <<नेयङुवङ्स्थानावस्त्री>> - नेयङुवङ्स्थानावित्यतोऽस्त्रीत्यस्यानुवृत्तिर्वक्तव्या । ततश्च इयङुवङ्स्थानाविति यत्रान्वेति तत्रैव तत्संबद्धस्याऽस्त्रीत्यस्यानुवृत्तिरुचिता । एवं च ह्रस्वादिवाक्ये इयङुवङ्स्थानावित्यस्याऽनुवृत्त्यभावादस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः । अतिस्त्रियै इति । नदीत्वपक्षे आट् वृद्धिः । अतिस्त्रये इति । नदीत्वाऽभावे घित्वात्घेर्ङिती॑ति गुणेऽयादेशः । अतिस्त्रियाः अतिस्त्रेरिति । नदीत्वे आट् । तदभावे गुणः ।ङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रियामिति । नदीत्वपक्षे ङेराम्, आट् । अतिस्त्राविति । नदीत्वाऽभावपक्षेअच्च घेः॑ । श्रीरिति । श्रयन्त्येतामिति श्रीः ।क्विब्बचिप्रच्छिश्रिस्नुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे॑ति क्विप्, प्रकृतेदीर्घश्च । श्री शब्दात्सुः । अङ्यन्तत्वान्न सुलोपः । श्रियौ श्रिय इति ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधौइको यणची॑ति यणि प्राप्ते धात्वयवेवर्णान्तत्वादचि श्नुधात्वितीयङ् । एकाच्त्वात्संयोगपूर्वकत्वाच्च यण् न । 'यू स्त्र्याख्यौ' इति नदीत्वात्अम्बार्थे॑ति ह्रस्वेप्राप्ते — नेयङुवङ् ।यू स्त्र्याख्यौ नदी॑ इत्यतो 'यू'नदी॑त्यनुवर्तते । 'स्थान' शब्दो भावे ल्युङन्तः । इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः । इयङुवङ्योग्याविति यावत् । तदाह — इयङुवङोरित्यादिना । हे श्रीरिति । अजादाबियङ्योग्यत्वान्नदीत्वनिषेधादम्बार्थनद्यौ॑रिति ह्रस्वो नेति भावः । श्रियमिति । अमि पूर्वरूपं बाधित्वा इयङ् । श्रियौ श्रिय इति । औट्शसोः पूर्ववत् । टा-श्रिया । श्रियै इति ।ङिति ह्रस्वश्चे॑ति ङिति नदीत्वपक्षे आट्, वृद्धिः । श्रिये इति । नदीत्वाऽभावे इयङ् । श्रिया इति । ङसिङसोर्नदीत्वे आट्, वृद्धिः । श्रिय इति । नदीत्वाऽभावपक्षे इयङेव । ङित्त्वाऽभावादामिङिति ह्रस्वश्चे॑ति अप्राप्ते । ##Padamanjari इयणुवङे स्थानमनयोरिति। वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अन्ये त्वधिकरणे ल्युट्ंअ विधाय कर्तरि षष्ठयाः समासं कुर्वन्ति। अथ कथम्'विमानना सुभ्रु कुतः पितुर्गृहे' इति? प्रमाद एवायम्। अन्येत्वाहुः-अनित्योऽयं प्रतिषेधः, सकृद्वद्धत्वात् । तथा च परिभाषा-ठ्सकृद्वद्धमनित्यं द्विर्बद्धञ्च सुबद्धम्ऽ इति। अत्र ज्ञापकं तदो दावचनमित्याहुः॥