अम्बाऽर्थनद्योर्ह्रस्वः

7-3-107 अम्बार्थनद्योः ह्रस्वः सम्बुद्धौ

Sampurna sutra

Up

अम्बार्थ-नद्योः अङ्गस्य सम्बुद्धौ सुपि ह्रस्वः

Neelesh Sanskrit Brief

Up

'अम्बा' अस्मिन् अर्थे प्रयुज्यमानानां शब्दानां, तथा नदीसंज्ञकशब्दानां सम्बुद्धि-एकवचनस्य प्रत्यये परे अङ्गस्य ह्रस्वादेशः भवति ।

Neelesh English Brief

Up

For the words that are used with the meaning same as अम्बा, and for the words that get the नदीसंज्ञा, the अङ्ग get a ह्रस्वादेश in presence of सुँ-प्रत्यय of सम्बोधन-एकवचन.

Kashika

Up

संबुद्धाविति वर्तते। अम्बार्थानामङ्गानां नद्यन्तानां च ह्रस्वो भवति संबुद्धौ परतः। हे अम्ब। हे अक्क। हे अल्ल। नद्याः खल्वपि — हे कुमारि। हे शार्ङ्गरवि। हे ब्रह्मबन्धु। हे वीरबन्धु॥ डलकवतीनां प्रतिषेधो वक्तव्यः॥ हे अम्बाडे। हे अम्बाले। हे अम्बिके॥ छन्दसि वेति वक्तव्यः॥ हे अम्बाड, हे अम्बाडे। हे अम्बाल, हे अम्बाले। हे अम्बिक, हे अम्बिके॥ तलो ह्रस्वो वा ङिसंबुद्ध्योरिति वक्तव्यम्॥ देवते भक्तिः, देवतायां भक्तिः। हे देवत, हे देवते। छन्दस्येव ह्रस्वत्वमिष्यते॥ मातृणां मातच् पुत्रार्थमर्हते॥ मातृणां मातजादेशो वक्तव्यः संबुद्धौ पुत्राय पुत्रमभिधातुम्। कीदृशाय? अर्हते — मात्रा व्यपदेशमर्हति श्लाघनीयत्वाद् यः पुत्रस्तदर्थम्। हे गार्गीमात। <<नद्यृतश्च>> ५.४.१५३ इति समासान्तापवादो मातजादेशः। चित्करणमन्तोदात्तार्थम्॥

Siddhanta Kaumudi

Up

अम्बार्थानां नद्यन्तानां च ह्रस्वः स्यात्संबुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ॥

Laghu Siddhanta Kaumudi

Up

सम्बुद्धौ। हे बहुश्रेयसि॥

Neelesh Sanskrit Detailed

Up

ये शब्दाः - (अ) 'अम्बा' - अस्मिन् अर्थे प्रयुज्यन्ते अथवा (ब) 'नदी' संज्ञां स्वीकुर्वन्ति - तेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे ह्रस्वादेशः भवति । यथा - 1) अम्बार्थशब्दाः - अम्बा, अक्का, अल्ला एते आकारान्तशब्दाः अम्बा ( = माता) अस्मिन् अर्थे प्रयुज्यन्ते । एतेषां सर्वेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे <<सम्बुद्धौ च>> 7.3.106 इत्यनेन एकारादेशे प्राप्ते अनेन सूत्रेण अपवादत्वेन ह्रस्वादेशः भवति । यथा - अम्बा + सुँ [सम्बुद्धिः] → अम्ब + सुँ [<<अम्बाऽर्थनद्योर्ह्रस्वः>> 7.3.107 इति आकारस्य ह्रस्वः अकारः] → अम्ब [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति सुँ-प्रत्ययस्य लोपः ।] तथैव अक्क, अल्ल आदीनि रूपाणि सिद्ध्यन्ति । 2) नदीसंज्ञकाः - <<यू स्त्र्याख्यौ नदी>> 1.4.3 अनेन सूत्रेण दीर्घ-ईकारान्त-ऊकारान्त-स्त्रीलिङ्गशब्दानां नदीसंज्ञा भवति - यथा - नदी, घटी, वधू, चञ्चू - आदयः । एतेषां सर्वेषामङ्गस्य सम्बोधनैकवचनस्य सुँ-प्रत्यये परे ह्रस्वादेशः भवति । यथा - नदी + सुँ [सम्बुद्धिः] → नदि + सुँ [<<अम्बाऽर्थनद्योर्ह्रस्वः>> 7.3.107 इति ईकारस्य ह्रस्वः इकारः] → नदि [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति सुँ-प्रत्ययस्य लोपः ।] तथैव घटि, सरस्वति, वधु, चञ्चु - आदीनि रूपाणि सिद्ध्यन्ति । अस्मिन् सन्दर्भे कानिचन वार्तिकानि अपि ज्ञातव्यानि - 1) <!डलकवतीनां प्रतिषेधो वक्तव्यः!> - येषामन्ते ड, ल, क वर्णाः सन्ति, तेषां अनेन सूत्रेण ह्रस्वः न भवति । यथा - हे अम्बिके, हे अम्बाले, हे अम्बाडे । 2) <!छन्दसि वेति वक्तव्यम्!> - येषामन्ते ड, ल, क वर्णाः सन्ति, तेषां वेदेषु ह्रस्वादेशः विकल्पेन भवति । यथा - हे अम्बिक, हे अम्बिके । 3) <!तलो ह्रस्वो वा ङिसम्बुद्ध्योः इति वक्तव्यम्!> - तल्-प्रत्ययान्तशब्दानां विषये (यथा - देवता, जनता आदीनां विषये) सप्तमी-एकवचनस्य ङि-प्रत्यये परे, तथा च सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे वेदेषु विकल्पेन ह्रस्वादेशः भवति । ह्रस्वादेशे कृते बाल-शब्दवत् रूपाणि भवन्ति । यथा - देवतायां भक्तिः / देवते भक्तिः । हे देवते, हे देवत ।

Balamanorama

Up

<<अम्बाऽर्थनद्योर्ह्रस्वः>> - अम्बार्थानामिति । अम्बापर्यायाणामित्यर्थः नद्यन्तानामिति । अङ्गाधिकारस्थत्वात्तदन्तविधिः । तुल्यन्यायत्वादम्बार्थानामित्यत्रापि तदन्तविधिर्बोध्यः । सम्बुद्धाविति ।सम्बुद्धौ चे॑त्यतस्तदनुवृत्तेरिति भावः । अम्बागौर्यादिशब्देषु ह्रस्वत्वं तु व्यपदेशिवद्भावेन तदन्तत्वाज्ज्ञेयम् । हे बहुश्रेयसि इति । ह्रस्वे सतिएङ्ह्रस्वा॑दिति सम्बुद्धिलोपः । ह्रस्वे गुणस्तु न, प्रक्रियालाघवायअम्बार्थनद्योह्र्यस्वः॑ इत्यनुक्त्वाअम्बार्थनद्योर्गुणः॑ इति वाच्ये ह्रस्वविधिसामर्थ्यादिति स्पष्टं भाष्ये । बहुश्रेयस्यौ । बहुश्रेयस्यः ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यण् ।अमि पूर्वः॑ । बहुश्रेयसीम् । बहुश्रेयस्यौ । बहुश्रेयसीनिति । पूर्वसवर्णदीर्घ सति 'तस्माच्छसः' इति नत्वमिति भावः । बहुश्रेयस्या । अघित्वान्नाभावो न, किन्तु यणादेशः । बहुश्रेयसीभ्याम् । बहुश्रेयसीभिः । बहुश्रेयसी-ए इति स्थिते घित्वाऽभावान्न तत्कार्यम् । यणि बहुश्रेयस्ये इति प्राप्ते- ।

Padamanjari

Up

अम्बार्थाःउ मात्रार्थाः । डलकवतीनामिति । अर्थगतेन स्त्रीत्वेनाम्बार्थाः शब्दा निर्दिष्टाः, श्रुत्यपेक्षो वा स्त्रीलिङ्गनिर्देशः -'डलकवतीनां श्रुतीनामित्यर्थः' इति । असंयुक्ताश्च डलका गृह्यन्ते; तेनाक्क, अल्लेति ह्रस्वो भवत्येव । देवते भक्तिरिति । ह्रस्वत्वे कृते,'ङ्याब्ग्रहणे' दीर्घःऽ इति स्थानिवत्वनिषेधाद्याडागमो णेóरामपि न भवतः । मातृणामिति । पूर्वपदभेदन बहवो मातृशब्दा इति बहुवचनम् । पुत्रार्थमिति । पुत्रमभिधातुं यो मातृशब्द उपादीयत इत्यर्थः । बहुव्रीहौ च वर्तिपदैरन्यपदार्थोऽभिधीयत इति तत्रैवयमादेशः । कीदृशाय पुत्रायेति । समासे गुणीभूतस्यापि पुत्रस्थ बुद्ध्या प्रविभज्य निर्द्देशः, यथा - ठथ शब्दानुशासनम्, केषां शब्दानाम्ऽ इति । मात्रा व्यपदेशमर्हतीति । यः पुत्रः श्लाघ्यगुणत्वात्कुलसम्भूतया मात्रा व्यपदेशमर्हतीत्यर्थः । यत्र तु पितुरसंविज्ञानेन मात्रा व्यपदेशस्तत्र न भवति, एतच्चार्हत इति प्रशंसायां लटः शत्रादेशविधानाल्लभते । समासान्तापवाद इति । नाप्राप्ते तस्मिन्नस्यारम्भात् ॥