7-1-80 आत् ईनद्योः नुम् इदितः नुम् अभ्यस्तात् शतुः वा
index: 7.1.80 sutra: आच्छीनद्योर्नुम्
अवर्णान्तादङ्गादुत्तरस्य शतुः वा नुमागमो भवति शीनद्योः परतः। तुदती कुले, तुअदन्ती कुले। तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी। याती कुले, यान्ती कुले। याती ब्राह्मणी, यान्ती ब्राह्मणी। करिष्यती कुले, करिष्यन्ती कुले। करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्नणी। अत्र अन्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावातवर्णान्ता दङ्गादुत्तरस्य शतुः इति न युज्यते वक्तुम्, उभयत आश्रये नान्तदिवतित्यन्तादिवद्भावोऽपि नास्ति, भूतपूर्वगत्याश्रयणे वा अदती, घ्नती इत्येवमादिषु अतिप्रसङ्गः इति? अत्र समाधिं केचिदाहुः। शतुरवयवे शतृशब्दो वर्तते अवर्णान्तादङ्गादुत्तरो यः शत्रवयवः इति। अपरे पुनराहुः। आतित्यनेन शीनद्यावेव विशेष्येते। अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुम् भवतीति। तत्र येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति तकारेण एव व्यवधानमाश्रयिष्यते। आतिति किम्? कुर्वती। सुन्वती। शीनद्योः इति किम्? तुदताम्। नुदताम्।
index: 7.1.80 sutra: आच्छीनद्योर्नुम्
अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छीनद्योः परतः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । पचत् ॥
index: 7.1.80 sutra: आच्छीनद्योर्नुम्
अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः। तुदन्ती, तुदती। तुदन्ति॥
index: 7.1.80 sutra: आच्छीनद्योर्नुम्
आच्छीनद्योर्नुम् - तुदच्छब्दादौङः श्याम्, असर्वनामस्थात्वान्नुमि अप्राप्ते — आच्छीनद्योर्नुम् । 'नाभ्यस्तात्' इत्यतः शतुरिति, 'वा नपुंसकस्य' इत्यतो वेति चानुवर्तते । आदिति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते, तच्च आदित्यनेन विशेष्यते , तदन्तविधिः । 'परस्ये' त्यध्याह्यियते ।सथु॑रित्यनन्तरमवयवस्येत्यध्याह्यियते, तेन च अह्गस्येति षष्ठन्तं विशेष्यते, तदन्तविधिः । अङ्गस्येत्यस्य आवृत्तिर्बोध्या । तदाह — अवर्णान्तादित्यादिना ।इदितो नुमि॑त्यतोऽनुवृत्त्यैव सिद्धे नुङ्ग्रहणं स्पष्टार्थम् । तुदन्तीतुदती इति । औङः श्यां, नुमि, तदभावे च रूपम् । शविकरणे कृते शतुरकारेण पररूपे एकादेशे सति तुद इत्यवर्णान्तमङ्गम्, तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । ततश्च तुददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः ।अवर्णान्तादङ्गत्वात् । ततश्च तददित्यन्त्यस्तकारः शतुरवयवः, तुदेत्यवर्णान्तादङ्गात्परश्चेति नुमिति भावः ।अवर्णान्तादङ्गात्परो यः शतृप्रत्ययः॑ इत्याश्रयणे त्वत्र नुम् न स्यात् । शविकरणाऽकारस्य शतुरकारस्य च एकादेशे कृते तस्य पूर्वान्तत्वे शतुरवर्णान्तादङ्गात्परत्वा ।भावात्, परादित्वे अवर्णान्ताङ्गाऽभावात्, उभयत आश्रयणे च अन्तादिवत्त्वनिषेधादित्यलम् । तुदन्तीति । जश्शसोश्शिः, सर्वनामस्थानत्वान्नुमिति भावः । भादिति । 'भादीप्तौ' लुग्विकरणः । लटः शतरि कृते सवर्णदीर्घे भादिति रूपम् । तस्मात् स्वमोर्लुक्, जश्त्वचर्त्वे इति भावः । भान्तीभाती इति । 'औङः शी'आच्छीनद्यो॑रिति वानुमिति भावः । भान्तीति । जश्शसोः शिः, सर्वनामस्थानत्वान्नुमिति भावः । पचदिति । पच्धातोर्लटः शतरि शप्, अतो गुणे॑ इति पररूपम् । पचदित्यस्मात्स्वमोर्लुगिति भावः ।
index: 7.1.80 sutra: आच्छीनद्योर्नुम्
अवर्णान्तादङ्गादुतरस्य शतुरिति । सूत्राक्षरैस्तावदयमेवार्थः प्रतीयते इत्येवं व्याख्यातम्, न पुनरयं व्यवस्थितः सूत्रार्थः, दूषणस्य वक्ष्यमाणत्वात् । तस्मान्नाप्रदर्शितविषयं दूषणं शक्यं वक्तुमिति विषयप्रदर्शनपरमिदं द्रष्टव्यम् । याती कुले इति । नपुंसकाच्च इत्यौङः शीभावः । याती ब्राह्मणीति । उगितश्चेति ङीप् । करिष्यतीति । लृट्, लृटः सद्वा, ऋद्वनोः स्ये इतीट् । अत्रेत्यादि चोद्यम् । अन्तरङ्गत्वं पुनरेकादेशस्य शतृमात्रापेक्षत्वात् । नुमस्तु बहिङ्गत्वम् शीनद्यौत्पत्यपेक्षत्वात् । व्यपवर्गः - भेदः - इदमवर्णान्तमङ्गम्, अयं शतृग्रत्यय इत्येवंरुपः । स एकादेशे कृते नास्ति, क्षीरोदकवत् । तद्यथा - क्षीरोदके संयुक्ते न ज्ञायेते - इदं क्षीरमिदमुदकम्, अमुष्मिन्नवकाशे क्षीरममुष्मिन्नवकाशे उदकमिति । अवर्णान्तादङ्गादुतरस्य शतुरिति न युज्यते वक्तुमिति । यथा पूर्वमवोचस्तथा न युज्यत इत्यर्थः । तथा हि सर्वत्रैवावर्णस्य निवृत्या भवितव्यम्, क्वचिल्लुका - अदती, ध्नतीति, क्वचिच्छ्लुना - जुह्वतीति, तुदतीत्यादावेकादेशेन, लुनतीत्यादौ श्नाभ्यस्तयोरातः इत्याकारलोपेन । स्यादेतते - एकादेशविषेयेऽन्तादिवद्भावेन व्यापवर्गो भविष्यतीति तत्राह - उभयत आश्रय इति । यत्र च पूर्व परं चोभयं युगपदाश्रीयते न तत्रान्तादिवद्भावोऽस्तीति, यथा उपसर्गाद्ध्रस्वः ऊहते, प्रोहते एतेर्लिङ् इभीयादिति । इहाप्यवर्णान्तमङ्गं शता चेत्युभयं युगपदाश्रीयते, इति नास्त्यन्तादिवद्भावः । एतर्ह्यच्यते चेदमवर्णान्तादङ्गादुतरस्य शतुरिति, न च सम्प्रत्येवंविधः शता क्वचित्सम्भवति, तत्र भूतपूर्वगतिराश्रयिष्यते - पूर्वं यः शता क्वचित्सम्भवति, तत्र भूतपूर्वगतिराश्रयिष्यते - पूर्वं यः शता अवर्णान्तादङ्गादुतर आसीदिति तत्राहभूतपूर्वगत्याश्रयणे वेति । समाधिः - समाधानम्, परिहारः । अवर्णान्ताच्छब्दादिति । अङ्गादिति द्रष्टव्यम्, अन्यथा ददतीत्यादावपि प्रसङ्गात् । भवति ह्यत्रापि शत्रवयवादकारत्परस्तकारः । कथं पुनरवर्णान्तस्याङ्गत्वम् एकादेशस्यान्तवद्भावात् । न हीदानीं परम्प्रत्यादिषत्वं विवक्षितम् तकारस्य स्वयमेव सत्रवयवत्वात् । एवं तेन तकारेण पुनरङ्गस्य तदन्तविधिः, अङ्गस्य इत्येतदत्रावर्त्यते । अपरे पुनरिति । अत्रापि पक्षे युगपदुभयं नाश्रीयते, किन्तु क्रमेणेत्यस्त्यन्तादिवद्भावः । ननु च तुदन्तीत्यादावन्तादिवद्भावादवर्णान्तमङ्गं भवतुः तथापि न ततः परे शीनद्यौ, तकारेण व्यवधानात् इत्यत आह - तत्रेति । प्रकृतो नुम् प्रतिषेधेन सम्बद्ध इति तदनुवतताविहापि प्रतिषेध एव विकल्पेन, शीनद्योर्वा नुम् न भवति अवर्णान्तादिति, केन पुनः प्रसङ्ग इदमेव ज्ञापकं स्यात् - अस्ति शीनद्योर्नुमिति, ततश्च कुर्वतीत्यादावनवर्णान्तन्नित्यं नुमः प्रसङ्गः, मैवं विज्ञायीति नुम्ग्रहणम् ॥