Home
Prev 1.4.4
Next 1.4.6
वाऽऽमि 1-4-5 वा आमि आ कडारात् एका सञ्ज्ञा यू स्त्र्याख्यौ नदी न इयङुवङ्_स्थानौ अस्त्री
Sampurna sutra Up
इयङ्-उवङ्-स्थानौ यू स्त्र्याख्यौ आमि नदी वा, अस्त्री
Neelesh Sanskrit Brief Up
"स्त्री" इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः इयङ्स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गवाचिनः शब्दाः आम्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति । यथा - धी, भू ।
Neelesh English Brief Up
Except for the word 'स्त्री', any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश optionally gets the term नदी in presence of the आम् प्रत्यय of षष्ठी बहुवचन.
Kashika Up
पूर्वेण नित्ये प्रतिषेधे प्राप्त आमि विकल्पः क्रियते। इयङुवङ्स्थानौ यू आमि परतो वा नदीसंज्ञौ न भवतः। श्रियाम्, श्रीणाम्। भ्रुवाम्, भ्रूणाम्। अस्त्रीत्येव — स्त्रीणाम्॥
Siddhanta Kaumudi Up
इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् ॥ प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥
Laghu Siddhanta Kaumudi Up
इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्॥ धेनुर्मतिवत्॥
Neelesh Sanskrit Detailed Up
स्त्री इति शब्दं वर्जयित्वा अन्येषां दीर्घ-ईकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् इयङ्स्थानिशब्दानाम्, तथा च दीर्घ-ऊकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् उवङ्स्थानिशब्दानाम् <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यनेन प्राप्तायाः नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषेधे जाते, षष्ठीबहुवचनस्य आम्-प्रत्यये परे एतेषां शब्दानां इयं नदीसंज्ञा पुनः विकल्पेन विधीयते - इति अस्य सूत्रस्य आशयः ।
इयङ्स्थानिनः शब्दाः - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ईकारस्य अजादि-प्रत्यये परे इयङ् इति आदेशः भवति , ते इयङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते । यथा, भी इति दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य औ -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन इयङ् इति आदेशः भवति (भी + औ = भिय् + औ = भियौ ), अतः भी इति शब्दः इयङ्स्थानी अस्ति इति उच्यते । एवमेव, श्री , धी , स्त्री एते दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दाः अपि इयङ्स्थानिनः सन्ति । एतेभ्यः स्त्री इति शब्दं वर्जयित्वा, अन्येषां सर्वेषाम् अपि नित्यस्त्रीलिङ्ग-इयङ्स्थानिनां शब्दानां <<यू स्त्र्याख्यौ नदी>> 1.4.3 इति सूत्रेण प्राप्ता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषिध्यते । अस्यां स्थितौ षष्ठीबहुवचनस्य आम् -प्रत्यये परे एतेषां विकल्पेन नदीसंज्ञा इष्यते , अतः तदर्थम् प्रकृतसूत्रस्य रचना कृता अस्ति ।
उवङ्स्थानिनः शब्दाः - येषां शब्दानाम् अन्ते विद्यमानस्य दीर्घ-ऊकारस्य अजादि-प्रत्यये परे उवङ् इति आदेशः भवति , ते उवङ्स्थानिनः शब्दाः इति नाम्ना ज्ञायन्ते । यथा, भू इति दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्गशब्दस्य द्वितीया-एकवचनस्य औ -प्रत्यये परे <<अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन उवङ् इति आदेशः भवति (भू + औ = भुव् + औ = भुवौ ), अतः भू इति शब्दः उवङ्स्थानी अस्ति इति उच्यते । एवमेव, भ्रू इति दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्गशब्दः अपि उवङ्स्थानी एव अस्ति । एतादृशानां सर्वेषाम् अपि नित्यस्त्रीलिङ्ग-उवङ्स्थानिनां शब्दानां <<यू स्त्र्याख्यौ नदी>> 1.4.3 इति सूत्रेण प्राप्ता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषिध्यते । अस्यां स्थितौ षष्ठीबहुवचनस्य आम् -प्रत्यये परे एतेषां विकल्पेन नदीसंज्ञा इष्यते , अतः तदर्थम् प्रकृतसूत्रस्य रचना कृता अस्ति ।
विकल्पस्य प्रयोजनम्
षष्ठीबहुवचनस्य आम् -प्रत्यये परे नदीसंज्ञायाः वैकल्पिकविधानस्य प्रयोजनम् अस्ति <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नुडागमसहितस्य रूपस्य सिद्धिः - इति । यथा, धी इति दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्गशब्दस्य षष्ठीबहुवचनस्य रूपे नुडागमे कृते धीनाम् , तथा च नुडागमं विना धियाम् इति रूपद्वयम् अपि सिद्ध्यति । प्रक्रिया इयम् -
नदीसंज्ञापक्षे -
धी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ धी + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> 7.1.54 इति नुट्-आगमः]
→ धीनाम्
नदीसंज्ञा-अभाव-पक्षे -
धी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ ध् + इयङ् + आम् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः ]
→ धियाम्
अनेनैव प्रकारेण भ्रू शब्दस्य अपि भ्रूणाम् तथा च भ्रुवाम् एते द्वे रूपे सिद्ध्यतः । किञ्च, एतादृशम् एव श्री , जयश्री , भू , परमभू (= परमा च असौ भूः) इत्यादीनाम् शब्दानाम् अपि षष्ठीबहुवचनस्य द्वे द्वे रूपे भवतः ।
स्त्र्याख्यौ इति अनुवृत्तिः
प्रकृतसूत्रे <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य अनुवृत्तिः स्वीकृता अस्ति । अतश्च इदं सूत्रं केवलं नित्यस्त्रीलिङ्गशब्दानां विषये एव प्रवर्तते । अत्र इदं स्मर्तव्यम्, यत् <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इति पूर्वस्मिन् सूत्रे स्त्राख्यौ इत्यस्य अनुवृत्तिः न वर्तते , अतः तत्र उक्तः नदीसंज्ञायाः निषेधः इयङ्स्थानिनाम् उवङ्स्थानिनां च पुंलिङ्गशब्दानां स्त्रीलिङ्गशब्दानां च विषये समानरूपेण एव विधीयते । परन्तु प्रकृतसूत्रेण उक्तः विकल्पः तु एतेभ्यः केवलं नित्यस्त्रीलिङ्गशब्दानां सन्दर्भेण एव प्रवर्तते । इत्युक्ते, ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये षष्ठीबहुवचनस्य आम्-प्रत्यये परे <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन उक्तः नदीसंज्ञायाः निषेधः तादृशः एव तिष्ठति; अतश्च एतादृशानां शब्दानां षष्ठीबहुवचनस्य रूपेषु <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नुट्-आगमः अपि न भवति -
परमधी [परमा धीः यस्य सः इत्यस्मिन् अर्थे सिद्धः दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः । अयम् इयङ्स्थानी अस्ति, अतः अस्य <!प्रथमलिङ्गग्रहणं च!> इति सूत्रेण विहिता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषिध्यते ]
--> परमधी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
--> परमध् इयङ् + आम् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः ]
--> परमधियाम्
विशेषः - परमा धी यस्याः सा इत्यस्मिन् अर्थे विहितस्य परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये अपि <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यनेन प्राप्ता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषिध्यते । परन्तु तदनन्तरम्, षष्ठी-बहुवचनस्य आम् -प्रत्यये परे अस्य पुनः विकल्पेन नदीसंज्ञा भवति वा - इति प्रश्ने जाते अस्य उत्तरं कैयटेन काशिकाकारेण च भिन्नप्रकारेण दत्तम् अस्ति इति प्रकृतसूत्रस्य सन्दर्भेण सिद्धान्तकौमुदीकारः स्पष्टीकरोति । तत्र कैयटस्य पक्षं स्पष्टीकुर्वन् सः ब्रूते - लिङ्गान्तराभिधायकत्वं नित्यस्त्रीत्वम् । यः शब्दः कदापि स्त्रीलिङ्गं विहाय अन्यस्मिन् लिङ्गे नैव प्रयुज्यते, सः एव नित्यस्त्रीलिङ्गशब्दः स्वीकर्तव्यः - इति अत्र कैयटकृता व्याख्या अस्ति । इमां व्याख्याम् अनुसृत्य परमा धी यस्याः सा इत्यस्मिन् अर्थे विहितस्य परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्वं नैव स्वीकर्तुं शक्यते, यतो हि पुंलिङ्गे अपि परमधी इत्येव शब्दः प्रयुज्यते । अतः अस्यां स्थितौ परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इति सूत्रेण नदीसंज्ञायाः कृतः निषेधः प्रकृतसूत्रेण नैवं विकल्पयितुम् शक्यः । इत्युक्ते, षष्ठी-बहुवचनस्य आम् -प्रत्यये परे परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नदीसंज्ञा नैव विधीयते, अतश्च तस्य रूपम् परमधियाम् इत्येव सिद्ध्यति । एतत् सर्वम् कैयटमतेन अस्ति । काशिकाकारस्य पक्षः तु अस्मात् भिन्नः । अमुं पक्षं स्पष्टीकुर्वन् कौमुदीकारः वदति - पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति । यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे नित्यस्त्रीलिङ्गत्वम् अवश्यं स्वीक्रियते - इति अत्र काशिकाकारेण दत्ता व्याख्या अस्ति । यथा, परमा धीः यस्य सः / यस्याः सा इत्यस्मिन् अर्थे सिद्धः प्रधी इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च अत्र स्त्रीलिङ्गवाचिनः प्रधी -शब्दस्य अवश्यं हि नित्यस्त्रीत्वं स्वीकर्तुं शक्यते - इति । एतादृशे नित्यस्त्रीत्वे सिद्धे, इदानीं षष्ठीबहुवचनस्य आम् -प्रत्यये परे अस्य पूर्वं निषिद्धा नदीसंज्ञा अवश्यम् एव विकल्प्यते, येन अस्य शब्दस्य षष्ठीबहुवचनस्य प्रक्रियायां <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन विकल्पेन नुडागमं कृत्वा, परमधीनाम् तथा च परमधियाम् इति द्वे रूपे सिद्ध्यतः । अयं काशिकाकारस्य पक्षः अस्ति ।
काशिकाकारस्य पक्षस्य अधिकं विस्तरेण स्पष्टीकरणम् <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यस्मिन् सूत्रे दत्तम् अस्ति । जिज्ञासुभिः तत् अवश्यं द्रष्टव्यम् ।
अस्त्री इति निषेधः
स्त्री इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि <<स्त्रियाः>> 6.4.79 इति सूत्रेण स्त्री -शब्दस्य अजादिप्रत्ययेषु परेषु इयङ् -आदेशः भवति । तथापि अस्य शब्दस्य नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषेधः नैव कृतः अस्ति । अस्यां स्थितौ, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री -शब्दस्य विषये अपि प्रवर्तेत वा - इति प्रश्ने जाते, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री -शब्दस्य विषये नैव प्रवर्तते - इति स्पष्टीकर्तुम् प्रकृतसूत्रे <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यस्मात् सूत्रात् अस्त्री इत्यस्य पदस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव स्त्री -शब्दस्य षष्ठीबहुवचने <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नुडागमः नित्यम् एव भवति, येन केवलम् स्त्रीणाम् इति एकम् एव रूपं सिद्ध्यति -
स्त्री + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ स्त्री + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> 7.1.54 इति नुट्-आगमः]
→ स्त्रीणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम् ]
अस्य अस्त्री इति निषेधस्य विषये तदन्तविधिः नास्ति । अतः, महास्त्री , श्रेष्ठस्त्री , परमस्त्री इत्यादीनां स्त्र्यन्तशब्दानां विषये <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन प्राप्तः नदीसंज्ञायाः निषेधः षष्ठीबहुवचनस्य आम् -प्रत्यये परे प्रकृतसूत्रेण अवश्यं विकल्प्यते, अतश्च एतेषां षष्ठीबहुवचनस्य रूपेषु नदीसंज्ञापक्षे <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन प्रत्ययस्य विकल्पेन नुडागमे कृते महास्त्रीणाम् , श्रेष्ठस्त्रीणाम् , परमस्त्रीणाम् - इत्यादीनि रूपाणि, तथा च पक्षे नुडागमं विना नदीसंज्ञा-अभावपक्षे इयङ्-आदेशे कृते महास्त्रियाम् , श्रेष्ठस्त्रियाम् , परमस्त्रियाम् इत्यादीनि रूपाणि अपि सिद्ध्यन्ति ।
अप्राप्तविभाषा इयम्
पूर्वसूत्रेण अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदं सूत्रम् अप्राप्तविभाषायाः उदाहरणम् अस्ति । अतएव काशिकाकारः प्रकृतसूत्रस्य सन्दर्भेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः उच्यते इति व्याचष्टे ।
वा+अमि इति विग्रहः अनुचितः
प्रकृतसूत्रस्य विग्रहः वा + अमि इति प्रकारेण अपि सम्भवति । परन्तु एतादृशः विग्रहः न करणीयः, यतोहि द्वितीयैकवचनस्य अम् -प्रत्यये परे नदीसंज्ञायाः न किमपि प्रयोजनं विद्यते । अतएव अत्र वा + आमि इत्येव विग्रहः क्रियते । किञ्च, अमुम् विषयं स्पष्टीकर्तुम् एव सूत्रस्य लेखने द्विवारम् अवग्रहचिह्नम् (ऽऽ ) अपि प्रयुक्तं दृश्यते ।
सप्तम्येकवचनस्य आम् -प्रत्यये परे इदं सूत्रं न प्रवर्तते
दीर्घ-ईकारान्त-शब्दानाम् नदीसंज्ञायां सत्याम् तेभ्यः विहितस्य सप्तम्यैकवचनस्य ङि -प्रत्ययस्य <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इत्यनेन आम् इति आदेशः भवति । अस्य आम् -आदेशस्य अपि प्रकृतसूत्रेण ग्रहणं न क्रियते, यतोहि तत्र नदीसंज्ञायां सत्याम् एव आम् -आदेशे कृते, ततः पुनः नदीसंज्ञायाः अभावः न हि वक्तुं शक्यते ।
सिद्धान्तकौमुद्याः वाक्यानां स्पष्टीकरणम्
सिद्धान्तकौमुद्यां प्रकृतसूत्रम् दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दानां प्रकरणे पाठितम् अस्ति । तत्र प्रसङ्गवशात् कौमुदीकारः प्रकृतसूत्रस्य व्याख्याने सूत्रसम्बन्धिनं विषयं विहाय अन्येषाम् अपि केषाञ्चन दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दानां प्रक्रियाः प्रदर्शयति । कौमदीकारेण अत्र उक्ताः बिन्दवः अधः सङ्क्षिप्यन्ते -
1. प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् - प्रध्यायति सा अस्मिन् अर्थे प्रयुक्तः प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः , तथा च प्रकृष्टा धीः यस्याः सा अस्मिन् अर्थे प्रयुक्तः प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः - एतौ द्वौ अपि शब्दौ पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति काशिकाकारस्य मतेन नदीसंज्ञकौ स्तः, अतः तयोः लक्ष्मी -शब्दसदृशानि रूपाणि भवन्ति ।
2. लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् - कैयटस्य मतम् तु लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वम् इति अस्ति । द्वौ अपि प्रधी शब्दी तु पुंलिङ्गे अपि तस्मिन्नेव अर्थे प्रयुक्तौ अवश्यम् एव दृश्येते, अतश्च कैयटमतेन तौ स्त्रीलिङ्गप्रयोगे अपि नदीसंज्ञकौ न भवतः । इत्युक्ते, कैयटमतेन प्रध्यायति सा तथा च प्रकृष्टा धीः यस्याः सा एतयोः अर्थयोः प्रयुक्तस्य प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दस्य रूपाणि पुंलिङ्गसदृशानि एव भवन्ति ।
3. प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । - प्रकृष्टा धीः इति कर्मधारयसमासेन निर्मितः प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दः तु कैयटस्य काशिकाकारस्य च अपि मतेन << यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यनेनैव नदीसंज्ञकः एव, अतश्च तस्य लक्ष्मी -शब्दसदृशानि रूपाणि भवन्ति ।
4. अमि शसि च प्रध्यं प्रध्य इति विशेषः - प्रध्यायति सा , प्रकृष्टा धीः यस्याः सा , तथा च प्रकृष्टा धीः - इति केनापि प्रकारेण सिद्धस्य प्रधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य द्वितीयायाः एकवचने बहुवचने च <<अमि पूर्वः>> 6.1.107 तथा च <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति सूत्रे बाधित्वा <<एरनेकाचोऽसंयोगपूर्वस्य>> 6.4.82 इत्यनेन यणादेशे कृते (यथासंख्यम्) प्रध्यम् तथा च प्रध्यः इति रूपे भवतः ।
5. सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् - सुष्ठु धीः यस्याः सा तथा च सुध्यायति सा इति उभयथा सिद्धस्य सुधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य काशिकाकारस्य मतेन श्री -शब्दसदृशानि रूपाणि भवन्ति ।
6. मतान्तरे तु पुंवत्, सुष्ठु धीरिति विग्रहे तु श्रीवदेव - कैयटमतेनसुष्ठु धीः यस्याः सा तथा च सुध्यायति सा इति सिद्धस्य सुधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञायाः अपि अभावे पुंलिङ्गसदृशानि एव रूपाणि भवन्ति । सुष्ठु धीः इति कर्मधारयसमासेन निर्मितस्य शब्दस्य विषये तु कैयटमतेन (<< यू स्त्र्याख्यौ नदी>> 1.4.3 इति सूत्रेण) नदीसंज्ञा अस्ति एव, परन्तुु <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन तस्याः निषेधः अपि भवति, अपि च <<वाऽऽमि>> 1.4.5 तथा च <<ङिति ह्रस्वश्च>> 1.4.6 इत्येताभ्यां तस्याः पुनः वैकल्पिकं विधानम् च अपि भवति । अतः अस्य शब्दस्य रूपाणि श्री -शब्दसदृशानि रूपाणि भवन्ति ।
7. ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः - ग्रामं नयति सा अस्मिन् अर्थे प्रयुक्तस्य ग्रामणी इति दीर्घ-ईकारान्त-स्त्रीलिङ्ग-शब्दस्य रूपाणि पुंलिङ्गसदृशानि एव भवन्ति । ग्रामनयनक्रिया स्वभावतः पुंलिङ्गवाचिनी अस्ति, अतः एषा / सा इति पदं विना ग्रामणी -शब्दस्य स्त्रीत्वं नैव स्पष्टीभवति इति कारणात् काशिकामतेन अपि अस्य नित्यस्त्रीत्वम् नास्ति, अतश्च नदीसंज्ञा अपि न वर्तते ।
8. एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् - एवमेव, खलपू , कटप्रू इत्यादयः शब्दाः अपि स्वभावतः पुंलिङ्गम् एव द्योतयन्ति, अतः एतेषाम् अपि नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञा न भवति, अतश्च एतेषां रूपाणि पुंलिङ्गस्त्रीलिङ्गयोः समानानि एव भवन्ति ।
##Balamanorama
<<वाऽऽमि>> - वाऽऽमि ।यूस्त्र्याख्यौ नदी॑त्यनुवर्तते ।नेयङुवङ्स्थानावस्त्री॑ति नञ्वर्जनमनुवर्तते । वा आमीति च्छेदः । अमि नदीकार्याऽभावात् । तदाह — इयङुवङ्स्थानावित्यादिना । श्रीणामिति । नदीत्वपक्षे 'ह्रस्वनद्यापः' इति नुट् । श्रियामिति । नदीत्वाऽभावे तु इयङेव । श्रियोः श्रीषु । प्रधीशब्दस्य त्विति । प्रध्यायतीत्यर्थेध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपे 'हलः' इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीवद्रूपाणि । तत्र 'एरनेकाचः' इति यणा इयङो बाधितत्वेन इयङ्स्थानत्वाऽभावान्नेयङुवङ्स्थानौ॑ इति नदीत्वनिषेधाऽभावा 'द्यू स्त्र्याख्यौ' इति नित्यनदीत्वे सतिअम्बार्थे॑त्यादिनदीकार्यप्रवृत्तेरिति भावः । तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यणेवेति विशेषः । ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वान्नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावात्कथं नदीकार्याणीत्यत आह — पदान्तरं विनापीति । पदान्तरसमभिव्याहाराऽभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सः नित्यस्त्रीलिङ्ग इति विवक्षितः । अत एव ब्राआहृण्यामाधीशब्दस्य आध्यै इति रूपमास्थितं भाष्येस्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये ।स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य संभवत्येव, प्रकर्षेण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात् । परन्तु प्रधीरित्युक्ते पुंसः स्त्रियाश्च प्रतीतिप्रसक्तावन्यतरव्यवच्छेदाय 'ब्राआहृणः'ब्राआहृणी॑त्यादिपदान्तरसमभिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराऽभावे स्त्रियां वृत्तिरपैति । अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वान्नदीकार्यं निर्बाधमिति भावः । लिङ्गान्तरेति ।स्त्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्व॑मिति कैयटमतम् ।स्त्रीविषायावेव यौ यू तयोरेव नदीसंज्ञे॑ति 'यू स्त्र्याख्यौ' इत्यत्र भाष्यादिति तदाशयः ।पुंवद्रूपमिति । उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यस्त्रीत्वाऽभावात्पुंसीव स्त्रियामपि अनदीत्वादिति भावः । प्रकृष्टेति । प्रकृष्टा धीरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्गत्वाल्लक्ष्मीवद्रूमित्यर्थः । अमि शसि चेति । प्रध्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दादमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा 'एरनेकाचः' इति यणित्येतावान्विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थः । कैयटमते ब्राआहृण्याम् 'आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्रभिप्रायेण नेयः । अत एव भाष्यात् 'नद्यृतश्च' इति कप् नेत्याहुः । सुष्ठि धीर्स्या इति । सुष्ठुधीर्यस्या इति, सुष्ठु ध्यायतीति उभयविधविग्रहेऽपि पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वृत्तिकारादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन 'नेयङुवङ्स्थानौ' इति नदीत्वनिषेधान्ङिति ह्रस्वश्चे॑तिवामी॑ति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि ।न भूसुधियो॑रिति यण्निषेधे इयङ एव प्रवृत्तेरिति भावः । मतान्तरे तु पुंवदिति ।लिङ्गाऽन्तरनभिधाकत्वं नित्यस्त्रीत्व॑मिति कैयटमते तु त्रिलिङ्गतया नदीत्वाऽभावात्पुंवदेव रूपमित्यर्थः । ननु सुधीशब्दे बहुव्रीहिप्रवृत्तेः प्राक् धीशब्दस्य नित्यस्त्रीलिङ्गत्वात्प्रथमलिङ्गग्रहणं चे॑ति नदीत्वं दुर्वारमिति चेत्, सत्यम्-यस्य वृत्तेः प्राक् नदीत्वं दृष्टं तस्योपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्तेः प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इयङयोग्यतया 'नेयङुवङ्स्थानौ' इति नदीत्वनिषेधाद्वृत्तावपि न तदतिदेश इत्यास्तां तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति । मतद्वयेपि नित्यस्त्रीलिङ्गत्वादिति भावः । ग्रामणीः पुंवदिति ।स्त्रिया॑मिति शेषः । ननु ग्रामं नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत्पदान्तरं विनापि स्त्रियां वर्तमानत्वान्नित्यस्त्रीलिङ्गत्वान्नदीकार्यसत्त्वात्पुंवदिति कथमित्यत आह — ग्रहनयनस्येति । ग्रामनयनस्य लोके उत्सर्गतः=सामान्यतः पुंधर्मतया=पुरुषकर्तव्यतया ब्राआहृणीत्यादिपदान्तरसमभिव्याहारं विना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वं नेत्यर्थः । एवमिति खलपवकनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्वमौत्सर्गिकं सामान्यतः सिद्धम् । अतः खलपूः कटप्ररित्यादिशब्दानामपि स्त्रियां वृत्तिकारादिमतेऽपि नित्यस्त्रीत्वं न । अतः पुंवदेव रूपमित्यर्थः । इति ईदन्ताः । अथ उदन्ताः । धेनुर्मतिवदिति । उकारस्य ओकारो गुणोऽवादेश इत्यादिविशेषस्तु सुगम इति भावः ।
##Padamanjari
संहितासाम्येऽपि षष्ठीबहुवचनस्य ग्रहणम्, न तु द्वितीयैकवचनस्य, नदीकार्याभावात्। नापि सप्तम्येकवचनस्य; तस्य नदीसंज्ञोतरकालम्ठ्णेóराम्नद्याम्नीभ्यःऽ इति विधानात्। न च ठामि इति विषयसप्तमी युज्यते;ठ्तस्मिन्निपिनिर्दिष्टेऽ इति वचनात्, तदाह-आमि परतो वा नदीसंज्ञौ न भवत इति। श्रीणामिति । नदीसञ्ज्ञापक्षे'ह्रस्वनद्यापो नुट्' ॥