6-1-3 न न्द्राः संयोगादयः एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य
द्वितीयस्य एकाचः संयोगादयः न्द्राः न द्वे
अनेकाचः अजादेः धातोः द्वित्वे प्राप्ते ; तस्मिन् धातौ द्वितीय-एकाच्-समुदाये उपस्थितानाम्, संयोगस्य आदिभूतानाम् नकार-दकार-रेफाणाम् द्वित्वं न भवति ।
When doubling of an अनेकाच् अजादि verb root is to be done, the नकार, दकार, and रेफ present at the beginning of a संयोग are not duplicated.
द्वितीयस्येति वर्तते। द्वितीयस्यैकाचोऽवयवभूतानां न्द्राणां तदन्तर्भावात् प्राप्तं द्विर्वचनं प्रतिषिध्यते। नकारदकाररेफा द्वितीयैकाचोऽवयवभूताः संयोगादयो न द्विरुच्यन्ते। उन्दिदिषति। अड्डिडिषति। अर्चिचिषति। न्द्रा इति किम् ? ईचिक्षिषते। संयोगादय इति किम् ? प्राणिणिषति। अनितेः <<उभौ साभ्यासस्य>> ८.४.२१ इति णत्वम्। अजादेरित्येव — दिद्रासति। केचिदजादेरित्यपि पञ्चम्यन्तं कर्मधारयमनुवर्तयन्ति। तस्य प्रयोजनम् — इन्दिद्रीयिषति इति। अजादेरनन्तरत्वाभावद् दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते। इन्द्रमिच्छति इति क्यच्, तदन्ताद् इन्द्रीयितुमिच्छतीति सन्॥ बकारस्याप्ययं प्रतिषेधो वक्तव्यः॥ उब्जिजिषति। यदा बकारोपध उब्जिरुपदिश्यते तदायं प्रतिषेधः। दकारोपधोपदेशे तु न वक्तव्यः। बत्वं तु दकारस्य विधातव्यम्॥ यकारपरस्य रेफस्य प्रतिषेधो न भवतीति वक्तव्यम्॥ अरार्यते। अर्तेः अट्यर्त्यशूर्णोतीनामुपसंख्यानम् (३.१.२२ वा०) इति यङ्। तत्र <<यङि च>> ७.४.३० इति गुणः, ततो द्विर्वचनम्॥ ईर्ष्यतेस्तृतीयस्य द्वे भवत इति वक्तव्यम्॥ कस्य तृतीयस्य ? केचिदाहुर्व्यञ्जनस्येति। ईर्ष्यियिषति। अपरे पुनस्तृतीयस्यैकाच इति व्याचक्षते। ईर्ष्यिषिषति॥ कण्ड्वादीनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यम्॥ कण्डूयियिषति। असूयियिषति॥ वा नामधातूनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यम्॥ अश्वीयियिषति। अशिश्वीयिषति। अपर आह॥ यथेष्टं नामधातुष्विति वक्तव्यम्॥ पुपुत्रीयिषति। पुतित्रीयिषति। पुत्रीयियिषति। पुपुतित्रीयियिषति। पुत्रीयिषिषति॥
अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । [(परिभाषा - ) पूर्वत्रासिद्धीयमद्विर्वचने] इति त्वनित्यम् । उभौ साभ्यासस्य <{SK2606}> इति लिङ्गात् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥
अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । ऊर्णुनाव । ऊर्णुनवतुः । ऊर्णुनुवुः ॥
<<अजादेर्द्वितीयस्य>> 6.1.2 इत्यनेन धातोः अनेकाच्-अजादि-अवयवस्य द्वित्वे प्राप्ते ; यदि तस्मिन् अवयवे संयोगः अस्ति तथा च संयोगस्य प्रथमः वर्णः नकारः / दकारः / रेफः अस्ति, तर्हि तेषाम् द्वित्वं अनेन सूत्रेण निषिध्यते । यथा - 1) 'उन्दि' इति कश्चन आतिदेशकः धातुः । अस्य द्वित्वे प्राप्ते वस्तुतः <<अजादेर्द्वितीयस्य>> 6.1.2 इत्यनेन धातोः द्वितीयः एकाच्-अवयवस्य (इत्युक्ते, 'न्दि' इत्यस्य) द्वित्वम् करणीयम् । परन्तु वर्तमानसूत्रेण संयोगस्य आदिभूतस्य नकारस्य द्वित्वनिषेधः उच्यते, अतः केवलं 'दि' इत्यस्यैव द्वित्वं भवति - उन्दि दि । 2) 'अद्डि' अयमपि कश्चन धातुः । अस्य द्वित्वे प्राप्ते वर्तमानसूत्रेण दकारस्य द्वित्वं निषिध्यते । अतः केवलं 'डि' इत्यस्यैव द्वित्वं भवति - अद्डिडि । 3) 'अर्चि' इति अर्च्-धातोः णिच्-प्रत्ययान्तः आतिदेशिकः धातुः । अत्र द्वित्वे प्राप्ते रेफस्य द्वित्वम् न भवति, अतः अर्चि चि इत्येव जायते । अस्य सूत्रस्य विषये अनेकानि वार्तिकानि ज्ञातव्यानि - 1. <!बकारस्य अप्ययं प्रतिषेधो वक्तव्यः!> । इत्युक्ते, अनेकाच्-अजादि-धातोः द्वितीय-एकाच्-अवयवे संयोगादिः बकारः अस्ति चेत् तस्यापि द्वित्वं न भवति । यथा, 'उब्जि' इत्यस्य द्वित्वे 'उब्जि जि' इति जायते । 2. <!यकारपरस्य रेफस्य प्रतिषेधो न भवतीति वक्तव्यम्!> । इत्युक्ते, अनेन सूत्रेण निर्दिष्टः रेफस्य द्वित्वनिषेधः तदा न भवति यदा रेफात् परः यकारः अस्ति । यथा, 'आर्य' अस्य यङन्त-धातोः द्वित्वे 'आर्य र्य' इति जायते । अत्र रेफात् परः यकारः अस्ति, अतः तस्य लोपः न भवति । 3. <!ईर्ष्यतेस्तृतीयस्य द्वे भवतः इति वक्तव्यम्!> । इत्युक्ते, 'ईर्ष्य्' धातोः तृतीयवर्णस्य द्वित्वं भवति । अत्र विषये सन्नन्तप्रक्रियायाम् 'ईर्ष्य् इट् सन्' इति स्थिते द्वित्वस्य विषये पक्षद्वयम् विद्यते । केचन वैयाकरणाः वदन्ति - तृतीयव्यञ्जनस्य (यकारस्य) स्वरेण सह (इकारेण सह) द्वित्वं करणीयम् । केचन अन्ये वदन्ति - तृतीय-एकाच्-अवयवस्य (इत्युक्ते, इस् इत्यस्य) द्वित्वं करणीयम् । प्रथमपक्षे द्वित्वे कृते 'ईर्ष्यियिष' इति धातुः सिद्ध्यति । द्वितीयपक्षे द्वित्वे कृते 'ईर्ष्यिषिष' इति धातुः सिद्ध्यति । 4. <!कण्ड्वादीनां तृतीयस्य एकाचो द्वे भवत इति वक्तव्यम्!> । इत्युक्ते, 'कण्ड्वादि' गणे ये शब्दाः समाविश्यन्ते, तेषाम् विषये तृतीय-एकाच्-अवयवस्य द्वित्वं भवति । यथा, 'कण्डूयि' अस्य धातोः द्वित्वे 'कण्डूयि यि' इति जायते । 5. <!वा नामधातूनां तृतीयस्य एकाचो द्वे भवत इति वक्तव्यम्!> । इत्युक्ते, नामधातूनाम् विषये विकल्पेन तृतीय-एकाच्-अवयवस्य द्वित्वं भवति । यथा, 'पुत्रीय' इत्यस्य द्वित्वे कृते <<एकाचो द्वे प्रथमस्य>> 6.1.1 इत्यनेन प्रथम-एकाच्-अवयवस्य द्वित्वे कृते 'पुत्र् पुत्रीय' इति अपि जायते, तथा अनेन वार्तिकेन तृतीयस्य एकाच्-अवयवस्य द्वित्वे कृते 'पुत्रीय य' इत्यपि जायते । 6. <!यथा इष्टं नामधातुष्विति वक्तव्यम् !> । इत्युक्ते, नामधातुषु वक्तुः इच्छानुसारम् केषाञ्चन अपि वर्णानाम् द्वित्वम् भवितुं शक्यते । यथा - 'पुत्रीय' अस्य धातोः द्वित्वे 'पुत्र् पुत्रीय', 'पुत्रीय् त्रीय', पुत्रीयय', 'पुपुत्रीय य' एतादृशम् किमपि कर्तुं शक्यते । ज्ञातव्यम् - अनेन सूत्रेण निर्दिष्टः नकार/दकार/रेफाणाम् द्वित्वनिषेधः केवलं अनेकाच् -अजादि-धातोः विषये एव भवति । यदि धातुः हलादिः अस्ति, उत एकाच्-अजादिः अस्ति, तर्हि तस्य विषये अयं द्वित्वं न निषिध्यते । यथा, 'द्रा' धातोः द्वित्वे दकारस्य द्वित्वे कृते 'द्रा द्रा' इत्येव सिद्ध्यति ।
<<न न्द्राः संयोगादयः>> - न न्द्राः ।एकाचो द्वे प्रथमस्ये॑त्यतो 'द्वे' इत्यनुवर्तते ।अजादेर्द्वितीयस्ये॑त्यतोऽजादेरिति । अञ्चासौ आदिश्चेति कर्मदारयात्पञ्चमी । न्, द्, र् एषां द्वन्द्वः । तदाह — अचः परा इति । ननुणु॑इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह — नुशब्दस्य द्वित्वमिति । णत्वस्येति । धातुपाठे 'ऊर्णु' इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः । लिङ्गादिति ।उभौ साभ्यासस्ये॑त्यस्याऽयमर्थः — साभ्यासस्याऽनितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वं प्राप्नुत इति । प्राणिणदित्युदाहरणम् ।अत्र अनिते॑रिति णत्वे कृतेपूर्वत्रासिद्धीयमद्विर्वचने॑ इति णत्वस्याऽसिद्धत्वाऽभावमाश्रित्यणी॑त्यस्य द्वित्वादेव खण्डद्वये मकारश्रवणसिद्धेःउभौ साभ्यासस्ये॑ति वचनंपूर्वत्रासिद्धीयमद्विर्वचने॑ इत्यस्याऽनित्यतां गमयतीत्यर्थः । ऊर्णुनावेति । नुशब्दस्य द्वित्वे पूर्वनकारस्यरषाभ्या॑मिति णत्वम् । द्वितीयस्य तुअट्कुप्वा॑ङिति न णत्वम्,उभौ साभ्यासस्ये॑ति लिङ्गादेव ।