ऋतश्च संयोगादेः

7-2-43 ऋतः च संयोगादेः आर्धधातुकस्य इट् वलादेः वा लिङ्सिचोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋदन्ताद् धातोः संयोगादेरुत्तरयोर्लिङ्सिचोरात्मनेपदेषु वेडागमो भवति। ध्वृषीष्ट, ध्वरिषीष्ट। स्मृषीष्ट, स्मरिषीष्ट। अध्वृषाताम्, अध्वरिषाताम्। अस्मृषाताम्, अस्मरिषाताम्। ऋत इति किम्? च्योषीष्ट। प्लोषीष्ट। अच्योष्ट। अप्लोष्ट। संयोगादेरिति किम्? कृषीष्ट। हृषीष्ट। आकृत। अहृत। आत्मनेपदेष्वित्येवअध्वार्षीत्। अस्मार्षीत्। संस्कृषीष्ट, समस्कृतेत्यत्रोपदेशाधिकाराद्, अभक्तत्वात् च सुट इडागमो न भवति॥

Siddhanta Kaumudi

Up

ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वा स्यात्तङि । स्तरिषीष्ट । स्तृषीष्ट । अस्तरिष्ट । अस्तृत ।{$ {!1253 कृञ्!} हिंसायाम्$} । कृणोति । कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत ।{$ {!1254 वृञ्!} वरणे$} ॥

Laghu Siddhanta Kaumudi

Up

ऋदन्तात्संयोगादेः परयोः लिङ्सिचोरिड्वा स्यात्तङि। स्तरिषीष्ट, स्तृषीष्ट। अस्तरिष्ट, अस्तृत॥ {$ {! 4 धूञ् !} कम्पने $} (धातुपाठे <{05.0007}>) ॥ धूनोति, धूनुते। दुधाव। स्वरतीति वेट्। दुधविथ, दुधोथ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऋतश्च संयोगादेः>> - ऋतश्च संयोगादेः ।लिङ्सिचोरात्मनेपदेषु॑ इत्यनुवर्तते ।इट् सनि वे॑त्त इड्वेति । तदाह — ऋदन्तादित्यादिना । लुङि परस्मैपदे — अस्तार्षीत् लुङस्तङि त्वाह - अस्तरिष्ट अस्तृतेति ।ऋतश्च संयोगादे॑रिति इट्पक्षे गुणः । इडभावपक्षे तुह्रस्वादङ्गा॑दिति सिचो लोपः । कृञ् हिंसायाम् । चकर्थेति । 'कृसृभृवृ' इति थल्यपि नित्यमिण्निषेधः । चकृव । क्रियादिति.आशीर्लिङि 'रिङ् शयग्लिङ्क्षु' इति रिङ् । कृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुणः । अकार्षीदिति.सिचि वृद्धि । रपरत्वम् । अकृतेति ।ह्रस्वादङ्गा॑दिति सिचो लोपः । वृञ् वरणे ।सेट् । ववार । वव्रतुः । वव्रुः ।

Padamanjari

Up

उदाहरणेषु भावकर्मणोः आत्मनेपदम् । संस्कृषीष्टेति । समः सुटि इत्यत्र सम्पुंकानां सो वक्तव्यः इति वचनात् सत्वम् ॥