6-4-137 न संयोगात् वमन्तात् असिद्धवत् अत्र आभात् भस्य अल् लोपः अनः
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
वमन्तात् संयोगात् अनः भस्य अङ्गस्य अत्-लोपः न
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
यस्य संयोगस्य अन्तिमवर्णः वकारः मकारः वा अस्ति, तादृशात् संयोगात् परस्य विद्यमानस्य 'अन्' इत्यस्य भसंज्ञकस्य अकारस्य लोपः न भवति।
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
For a भसंज्ञक अङ्ग which ends in an 'अन्', and also contains a मकारान्त / वकारान्त संयोगवर्ण before this अन्, the 'अ' of अन् does not get omitted.
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
वकारमकारान्तात् संयोगादुत्तरस्य अनः अकारस्य लोपो न भवति। पर्वणा। पर्वणे। अथर्वणा। अथर्वणे। संयोगातिति किम्? प्रतिदीव्ना। प्रतिदीव्ने। साम्ना। साम्ने। वमन्तातिति किम्? तक्ष्णा। तक्ष्णे।
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
वकारमकारान्तसंयोगात्परस्याऽनोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ॥
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
वमन्तसंयोगादनोऽकारस्य लोपो न। यज्वनः। यज्वना। यज्वभ्याम्॥ ब्रह्मणः। ब्रह्मणा॥
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
अल्लोपोऽनः 6.4.134 इत्यनेन अन्-अन्तस्य भसंज्ञकस्य अकारस्य लोपः विधीयते । परन्तु यदि 'अन्' इत्यस्मात् पूर्वम् मकारान्तसंयोगः वकारान्तसंयोगः वा विद्यते तर्हि अस्य लोपस्य प्रतिषेधः भवति ।
यथा - 'आत्मन्' अस्मिन् शब्दे 'अन्' इत्यस्मात् पूर्वम् 'त्म्' अयं मकारान्तसंयोगः अस्ति । अतः 'आत्मन् + टा' इत्यत्र आत्मन्-शब्दस्य भसंज्ञायां सत्यामपि मकारात् उत्तरस्य अकारस्य लोपः न भवति । अतः 'आत्मना' इति रूपं सिद्ध्यति । तथैव यज्वन् + शस् → यज्वनः, ब्रह्मन् + टा → ब्रह्मणा, कर्मन् + ङि = कर्मणि - एतानि रूपाणि अपि सिद्ध्यन्ति ।
यत्र संयोगः नास्ति, वा संयोगः अस्ति परन्तु मकारान्त/वकारान्तसंयोगः नास्ति, तत्र अयं प्रतिषेधः न भवति, अतः अकारस्य लोपे कृते एव रूपं सिद्ध्यति । यथा -
(संयोगस्य अभावः) - राजन् + टा → राज् न् + टा → राज्ञा ।
(मकारान्त/वकारान्तसंयोगस्य अभावः) - मूर्धन् + टा → मूर् ध् न् + टा → मूर्ध्ना ।
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
न संयोगाद्वमान्तात् - शसि अल्लोपे प्राप्ते — न संयोगाद्वमन्तात् । वश्च मूच वमौ, तावन्तौ यस्येति विग्रहः । 'अल्लोपोऽन' इत्यनुवर्तते । तदाह — वकारेत्यादिना । अन्तग्रहणं स्पष्टार्थं, वमयोः संयोगविशेषणत्वादेव तदन्तलाभात् । इत्यादीति । यज्वने । यज्वनः २ । यज्वनोः २ । भ्यामादौ हलि राजवदित्यर्थः । मान्तसंयोगस्योदाहरणमाह — ब्राहृण इति । शसादावचि नाऽल्लोपः । शेषं राजवदिति भावः ।वेदस्तत्त्वं तपो ब्राहृ, ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । वृत्रो नाम असुरः, तं हतवानित्यर्थे ब्राहृभ्रूणवृत्रेषु क्विप् । कपावितौ । अपृक्तलोपः । उपपदसमासः । 'सुपो धातु' इत्यमो लुक्, वृत्रहन्शब्दः । तस्मात्सुबुत्पत्तिः ।
index: 6.4.137 sutra: न संयोगाद्वमन्तात्
स्याद्वकारमकाराभ्यां संयोगस्य विशेषणात् तदन्तविधिरत्रेति विस्पष्टार्थमन्तग्रहकण् ॥