स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्

4-1-54 स्वाङ्गात् च उपसर्जनात् असंयोगोपधात् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बहुव्रीहेः क्तान्तादन्तोदात्तादिति सर्वं निवृत्तम्। वाग्रहणमनुवर्तते। स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। चन्द्रमुखी, चन्द्रमुखा। अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला। स्वाङ्गादिति किम्? बहुयवा। उपसर्जनादिति किम्? अशिखा। असंयोगोपधादिति किम्? सुगुल्फा। सुपार्श्वा॥ अङ्गगात्रकण्ठेभ्य इति वक्तव्यम्॥ मृद्वङ्गी, मृद्वङ्गा। सुगात्री, सुगात्रा। स्निग्धकण्ठी, स्निग्धकण्ठा।

अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम्।

अतत्स्थं तत्र दृष्टं चेत् तस्य चेत् तत्तथायुतम्॥

Siddhanta Kaumudi

Up

असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी । अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनात् किम् ? शिखा । स्वाङ्गं त्रिधा ॥ अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् ॥ सुस्वेदा द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् ॥<!अतत्स्थं तत्र दृष्टं च !> (वार्तिकम्) ॥ सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥<!तेन चेत्तत्तथा युतम् !> (वार्तिकम्) ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥

Laghu Siddhanta Kaumudi

Up

असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष् वा स्यात्। केशानतिक्रान्ता - अतिकेशी, अतिकेशा। चन्द्रमुखी चन्द्रमुखा। असंयोगोपधात्किम्? सुगुल्फा। उपसर्जनात्किम्? शिखा॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्>> - स्वाङ्गच्च । उपसर्जनादिति असंयोगपधादिति च स्वाङ्गादित्यत्रान्वेति । स्वाङ्गादित्येतदत इत्यनुवृत्तं च प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः । तदाह — असंयोगोपधमित्यादिना । वा ङीषिति ।अस्वाङ्गपूर्वपदाद्वा॑ इत्यतो वेति 'अन्यतो ङीष्' इत्यतो हीषित्यस्य चानुवृत्तेरिति भावः । बहुव्रीहेरित्यनुवर्तमाने उपसर्जनग्रहणं किमर्थमित्याशङ्क्य परिहरति — केशानतिक्रान्तेति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासस्तत्पुरुषः । अत्र बहुव्रीहित्वाऽभावेऽपि प्राप्त्यर्थमुपसर्जनग्रहणमिति भावः ।एकविभक्ति चापूर्वनिपाते॑ इति केशशब्दस्योपसर्जनत्वम् । चन्द्रमुखी चन्द्रमुखेति । चन्द्र इव मुखं यस्या इति विग्रहः । सुगुल्फेति । सु=शोभनौ गुल्फौ यस्या इति विग्रहः ।पदङ्घ्रिश्चरणोऽस्त्रियाम् । तद्ग्रन्थी घुटिके गुल्फौ॑ इत्यमरः । उपसर्जनात्किमिति । केवलकेशादिशब्दानामनुपसर्जनानां स्त्रीत्वविरहादेवाऽप्राप्तेः प्रश्नः । शिखेति । अत्र स्वाङ्गान्तत्वात्केवलशिखाशब्दान्ङीष्निवृत्त्यर्थमुपसर्जनग्रहणमित्युक्तम् । अन्यथा टापं बाधित्वा पक्षे ङीष् स्यादिति भावः ।शोभना शिखा सुशिखे॑ति क्वचित् पुस्तकेषु दृष्टं, तत् प्रक्षिप्तं वेदितव्यम् । टाबन्तेन समासेऽनदन्तत्वादेव प्राप्तिविरहात् । ननु स्वस्य अवयवीभूतस्य अङ्गं-स्वाङ्गम् । तथा च सुमुखा शालेत्यादावतिव्याप्तिः, तत्र मुखशब्दार्थस्य प्रथमभागस्य अवयवीभूतशालाङ्गत्वात् । किंच सुकेशी रथ्येत्यत्राऽब्याप्तिः, तत्र केशानां रथ्याङ्गत्वाऽभावादित्यत आह — स्वाङ्गं त्रिधेति ।अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च, तेन चेतत्तथायुतम् ।॑ इति भाष्ये त्रिधा निरुक्तं पारिभाषिकं स्वाङ्गमिह विवक्षितमित्यर्थः । तत्र प्रथमार्धं प्रथमं स्वाङ्गलक्षणमित्यभिप्रेत्य विच्छिद्य पठति — अद्रवमिति । न विद्यते द्रवो यस्य तत्-अद्रवम् ।मूर्तिः=अवयवसंयोगोऽस्यास्तीति मूर्तितम् । अवयवसंयोगसमवायिकारणं द्रव्यमिति यावत् । प्राणिनि=प्राणवति जन्तौ विद्यमानं प्राणिस्थम्, अविकारजं=रोगादिविकाराजन्यं च यत् तत् प्रथमं स्वाङ्गमित्यर्थः ।अद्रव॑मित्यस्य प्रयोजनमाह — सुस्वेदेति । सु=शोभनः, स्वेदः=घर्मज उदकप्ररुआवो यस्या इति विग्रहः । स्वेदस्य शोभनत्वं तु दुर्गन्धाऽभावः । द्रवत्वादिति ।न स्वाङ्गत्व॑मिति शेषः । अतो न ङीषित्यर्थः ।मूर्तिम॑दित्यस्य प्रयोजनमाह — सुज्ञानेति । सु=शोभनं ज्ञानं यस्या इति विग्रहः । अमूर्तत्वादिति ।न स्वाङ्गत्व॑मिति शेषः ।प्राणिस्थ॑मित्यस्य प्रयोजनमाह — सुमुखा शालेति । सु=शोभनं मुखं प्रथमभागो यस्या इति विग्रहः । अप्राणिस्थत्वादिति ।न स्वाङ्गत्व॑मिति शेषः ।अविकारज॑मित्यस्य प्रयोजनमाह — सुशोफेति । सु=अधिकः शोफः=आयथुर्यस्या इति विग्रहः । 'शोफस्तु आयथुः' इत्यमरः । विकारजत्वादिति । रोगजत्वादित्यर्थः ।न स्वाह्गत्व॑मिति शेषः । अतत्स्थं तत्र दृष्टं चेति । द्वितीयं स्वाङ्गलक्षणम् । तच्छब्देन प्राणी परामृश्यते । अतत्स्थम्= अप्राणिस्थं, तत्र=प्राणिनि, दृष्टं यत् तदपि स्वाङ्गमित्यर्थः । रथ्येति । रथ्यास्थानां केशानां प्राणिस्थत्वाऽभावात्पूर्वलक्षणेन स्वाङ्गत्वाऽसिद्धेर्लक्षणान्तरमिति भावः । उक्तलक्षणमुदाहरणे योजयति — अप्राणिस्थस्यापीति । इदानीं प्राणिस्थत्वाऽभावेऽपि कदाचित् प्रामिस्थत्वादपि स्वाङ्गत्वमित्यर्थः ।तेन चेत्तत्तथेति । तृतीयं स्वाङ्गलक्षणम् । अत्र भाष्येस्वाङ्गमप्राणिनोऽपि॑ इति शेषः पूरितः । चेदिति यद्यर्थे । तेन प्राणिस्थेन स्तनाद्यङ्गाकृतिकावयवविशेषेण तत्प्राणिद्रव्यं प्रतिमादि, तथा=प्राणिद्रव्यवत्, युतं=संबद्धं यदि, तदा तत्=स्तनाद्याकृतिकं अप्राणिनोऽपि स्वामित्यर्थः । सुस्तनी सुस्तना वा प्रतिमेति । सु=शोभनौ स्तनौ=स्तनाकृती अवयवौ यस्या इति विग्रहः । प्रतिमागतयोः स्तनाकृतिकावयवयोः कदाचिदपि प्राणिस्थत्वाऽभावात् प्राम्यन्तरेऽदृष्टत्वाच्च पूर्वलक्षणद्वयस्याप्यप्रवृत्तेर्लक्षणान्तरमिदम् । अथोदाहरणे लक्षणं योजयति — प्राणिवदिति । सुप्तम्यन्ताद्वतिः । प्राणिवत्-प्राणिसदृशे=प्रतिमादिद्रव्ये स्थितत्वात् स्वाङ्गमित्यर्थः । नचकल्याणपाणिपादे॑ति बहुव्रीहावपि ङीष् स्यादिति वाच्यम्,अस्वाङ्गपूर्वपदाद्वा॑ इत्यनुवृत्तेः । अत्र हि पाणिपादेति समुदायो न स्वाङ्गं, किन्तु स्वाङ्गसमुदाय एव यत्तु स्वाङ्गं पादेति न तु तदस्वाङ्गात्पूर्वपदात् परम्, पाणिपदेन व्यवधानात् । तथा च स्वाङ्गस्य पादस्य अस्वाङ्गात्पूर्वपदात् कल्याणशब्दात् परत्वाऽभावान्न ङीषिति भाष्ये स्पष्टम् ।

Padamanjari

Up